बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 182, कुल 366 में से
संदर्भ में पढ़ें१५० शुल्बसूत्रम् [ तृतीयो- पञ्चदश वा प्रस्तार उपधायाऽवाञ्चं प्रत्यक्प्रवणं अक्ष्णया प्रागुपरितनदेश- मारभ्य प्रत्यगधोदेशपर्यन्तमपच्छिन्द्यात् उद्धरेत् । अपच्छिन्नयोरुपरितनभाग- मुद्धरेत् विसृजेत् ॥ १२७ ॥ तदेवाह—ऊर्ध्वति । उच्छ्रायप्रमाणमग्नेः श्मशानचितः । ऊर्ध्वप्रमाणां रज्जुं मीत्वा पञ्चधा संभुज्य षष्ठं भागं प्रक्षिपेत् । श्मशानचितो द्विपादस्त्रिपादश्चापि भवतः । यदि ग्रीवदघ्नमित्यादि ( बौ० श्रौ० सू० १७।३० पृ० ३०९ ) दर्शनात् । पाद एकैष्टकोच्छ्रायप्रमाणम् । द्विपाद इष्टकाद्वयोच्छ्रायप्रमाणम् । त्रिपाद इष्टकात्रयोच्छ्रायप्रमाणम् । तत्सर्वमिति । प्रक्षिप्तेन सह त्रेधा संभुज्यैकमवशिष्य शिष्टयोश्चतुर्थेन भागेनोर्ध्वप्रमाणभूतेन पञ्चमीं, नवमेन दशमीं, चतुर्दशेन पञ्चदशीञ्च कारयेत् । वा शब्दश्च शब्दार्थे । उत्तरस्मिन्नपि वाक्ये तथा । ताभिरिति । ताभिश्चतुर्थेन नवमेन चतुर्दशेनेत्युक्ताभिश्चतस्रः पादे, नव द्विपादे, चतुर्दश त्रिपादे चितीः