बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 184, कुल 366 में से
संदर्भ में पढ़ें१५२ शुल्बसूत्रम् [ तृतीयो-
भवति। दशप्रक्रमप्रमाणा रज्जुः सर्वतः पार्श्वमानी भवति। पार्श्वो मीयते अनयेति पार्श्वमानी। सर्वतो दशप्रक्रमप्रमाणेन समचतुरश्रमात्मानं कुर्यादित्यर्थः। तस्येति। तस्य समचतुरश्रीकृतात्मानः द्वाभ्यां द्वाभ्यां प्रक्रमाभ्यां स्रक्तीनां कोणप्रदेशानामपच्छेदः। आत्मनि प्राक् ( दक्षिण ?) कोणप्रदेशादारभ्य अपरपार्श्वे (प्रक्रम ?) (त्वरत्नी) द्वयं मित्वा तत्र शङ्कुं निहन्यात्। एवमुत्तरप्रदेशेऽपि अरत्नी (प्रक्रम?) द्वयं मीत्वा तत्र शङ्कुं निहत्य शङ्कोरुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। एवमितरासु स्रक्तिषु अपच्छेदः कर्त्तव्यः। पूर्वस्मिन्निति। पूर्वस्मिन् आत्मसमीपे आत्मनः प्रागग्रा- दुपरि प्राक्प्रदेशे अव्यवहिततया सर्वतः प्रक्रमप्रमाणानि चत्वारि समचतु- रश्राणि दक्षिणोत्तराणि कृत्वा तेषां चतुर्णां चतुरश्राणां ये अन्त्ये दक्षिणो- दक्पार्श्वस्थिते चतुरश्रे ते अक्षण्यापच्छिन्द्यात्। दक्षिणोत्तरयोरैशाननैऋ॑- तार्धेऽक्षण्या वर्जयेदित्यर्थः ॥१३१॥ अथाग्निमिति। पार्श्वमानी भवतीति। दशप्रक्रमप्रमाणेन चतुरस्रं कुर्यादित्यर्थः। तस्येति। तस्य आत्मनः। श्रोण्यंसानां द्वाभ्यां द्वाभ्यां स्रक्तीनामपच्छेदः कर्त्तव्यः। एवं श्रोण्यंसेभ्योऽष्टौ चतुर्थ्यो निरस्ता भवन्ति। पूर्वस्मिन्निति। पूर्वस्मिन् पार्श्वे पार्श्वयोः प्रक्रमद्वयमवशिष्य मध्ये आत्मनो बहिस्तिर्यञ्चि प्रक्रमप्रमाणानि चत्वारि चतुरस्राणि अनीकसंस्पृष्टानि कृत्वा तेषां ये अन्त्ये चतुरस्रे ते अक्षण्या अपच्छि- न्द्यात्। अग्नीशानदले त्यजेत्। एवमिति। चतुरस्रकरणादि-अपच्छेदान्तो विधिः सर्वत्रेत्यर्थः। स आत्मेति। एवमात्मनि चतुरधिकं शतं चतुर्थ्यः ॥ १३१॥ शिरः पञ्चपदायाममर्धपुरुषव्यासम्। तस्यांसौ प्रक्रमेणा- पच्छिन्द्यात्। स्रक्त्यपच्छेदे पादानुन्नयेत्। तस्य द्विपदाक्ष्णया तिरश्ची तद्द्विगुणायाममनूची। तस्य द्विपदाक्ष्णया पूर्वमंसम- पच्छिन्द्यात्। एतेनेतरेषां पादानामपच्छेदा व्याख्याताः। अपरयोः पादयोरपरावंसावपच्छिन्द्यात्। एवं सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ १३२ ॥ शिर इति। शिरः पञ्चपदायाममर्धपुरुषव्यासं प्राक्प्रत्यक् पञ्च दीर्घं दक्षिणोदक् पदचतुष्टयविस्तारं दीर्घचतुरश्रम्। तस्येति। आत्मन