बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 185, कुल 366 में से
संदर्भ में पढ़ेंध्यायः ] बौधायनीयं १५३ उपरि प्राक्प्रदेशे आत्मना संयुक्ततया तत् कृत्वा तस्य दीर्घचतुरश्रस्य त्वंसौ प्राक्कोणप्रदेशौ प्रक्रमेणापच्छिन्द्यात् । प्राक्कोणप्रदेशाभ्यामारभ्य प्रत्येकं प्रक्रमप्रमाणं प्रत्यङ् मीत्वा दक्षिणोत्तरयोः पार्श्वयोः शङ्कुद्वयं निहत्य प्राक्पार्श्वमान्यां मध्ये शङ्कुं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिः स्पन्द्यमपच्छिन्द्यात् । एवं कृतं शिर इत्यर्थः । स्त्रक्त्यपच्छेद इति । स्त्रक्त्य- पच्छेदेष्विति जात्येकवचनम् । आत्मनश्चतसृषु स्त्रक्तिषु प्रत्यपच्छेदमेकैकं पादं उन्नयेदित्यर्थः । पादपरिमाणमाह—तस्येति । जात्येकवचनम् । तेषां पादानां द्विपदाक्ष्णया चतुर्थ्यीप्रक्रमप्रमाणेन समचतुरश्रीकृतस्याक्ष्णया- रज्जुस्तिरश्ची भवति । प्रतिपादद्विगुणायाममनूची तिर्यङ्मान्यपेक्षया द्विगु- णा रज्जुः अनूची प्रक्रमद्वयप्रमाणे समचतुरश्रीकृतस्याक्ष्णयारज्जुः अनूची भवति । अयमर्थः—प्रक्रमद्वयप्रमाणचतुरश्राक्ष्णयाप्रमाणे प्राग्दक्षिणापच्छेदे मध्ये द्विपदाक्ष्णयाप्रमाणं मीत्वा तस्योपरितनपार्श्वयोस्तद्विगुणप्रमाणं प्रत्येकं मीत्वोपरि द्विपदाक्ष्णयाप्रमाणं मीत्वा एवं दीर्घचतुरश्रं कुर्यादिति । तस्य द्विपदाक्ष्णयेति । तस्यैवं कृतस्य दीर्घचतुरश्रस्य द्विपदाक्ष्णया प्रक्रमप्रमाणचतुरश्राक्ष्णयाप्रमाणेन पूर्वमंसमपच्छिन्द्यात् । प्राक् स्थित- स्त्रक्तिमारभ्याक्ष्णयापच्छिन्नं कुर्यादित्यर्थः । एतेनेति । अवशिष्टानां त्रयाणां पादानां पूर्वोक्तन्यायेनापच्छेदाः कर्त्तव्या इत्यर्थः । पूर्ववदपरयोः पादयोः पूर्वांसमारभ्यापच्छेदे प्राप्ते अन्यथैवापच्छेदप्रकारमाह—अपरयोरिति । अपरस्त्रक्तिमारभ्यापच्छेदं कुर्यादित्यर्थः ॥१३२॥ शिर इति । एवं पञ्च चतुर्थ्यः । तत्र—तस्यांसाविति । एवमपच्छिन्ने परिशिष्टा- श्चतस्रश्चतुर्थ्यो भवन्ति । स्त्रक्त्यपच्छेद इति । स्त्रक्तीनामपच्छेदे आत्मस्त्रक्तीनामपच्छेदे । जातावेकवचनम् । अपच्छेदेषु पादान् उन्नयेत् । बहिः कुर्यात् । अवान्तरदिक्षु पादान् कुर्यादित्यर्थः । तस्येति । तस्य पादस्य द्विपदाक्ष्णया चतुर्थ्यक्ष्णया । सार्धचतुर्दशतिल- सहितद्विचत्वारिंशदङ्गुला तिरश्ची । तद्विगुणं पञ्चतिलोनपञ्चाशीत्यङ्गलमनूची आयामः । दक्षिण पूर्वस्त्रक्त्यपच्छेदमध्यतश्चतुर्थ्यक्ष्णयामात्रं तिर्यङ्मानं परिगृह्य कोणदिशं प्रति तद्विगुणायामं पादार्थं दीर्घचतुरस्रं कुर्यादित्यर्थः। एवं चतस्रश्चतुर्थ्यः । तत्र—तस्येति । पूर्वपार्श्वस्य मध्ये चिह्नं कृत्वा अपरांसात् लिखेत् । एवमेका चतुर्थी २०