भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 197, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 197

अत्रापस्तम्बः । एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् पादेष्टकाश्च । व्यत्यासं चिनुयाद् यावत् प्रस्तारंश्चिकीर्षेदिति । तत्र द्वादशभिः सावयवाभिः प्रथमः प्रस्तारः । इतराभिरितर इति व्यत्यासः ॥ १४४ ॥ आश्वमेधिकस्याग्नेः पुरुषाभ्यासो नारत्निप्रादेशानाम्। प्राकृतो वा त्रिगुणः ॥ १४५ ॥ आश्वमेधिकानामभ्यासे विशेषमाह — आश्वमेधिकस्येति । अश्व- मेधे एकविंशोऽग्निर्भवतीत्याम्नातं तदभिप्रायेणेदमुच्यते । तत्रार्धाष्टमविध- स्य प्रकृतिभूतस्याग्नेः सप्तविधस्याभ्यासे पुरुषाणामेव सप्तानामभ्यासः कर्तव्यः श्रुतावेकविंशोऽग्निसङ्ख्यायोगात् । नत्वरत्निप्रादेशानामभ्यासः कर्तव्यः, एकविंशत्वविरोधापत्तेः । पक्षान्तरमाह--प्राकृतविति । अश्वमेध एव त्रिस्तावोऽग्निर्भवतीत्याम्नातं तदभिप्रायेणोच्यते । प्राकृत अर्धाष्टमविधोऽग्नि- स्त्रिगुणो भवति । एवं च सार्धत्रयोविंशपुरुषप्रमाणो वाग्निरश्वमेधे कर्तव्य इत्यर्थः ॥१४५॥ आश्वमेधिकस्येति । अश्वमेध एकविंशोऽग्निर्भवती (बौ० श्रौ० सू० २६।१० ) त्याम्नातम् । तदभिप्रायेणेदमुच्यते । तत्र अर्धाष्टमविधस्य प्रकृतिभूतस्याग्नेः सप्ताना- मेवाभ्यासः श्रुतावेकविंशतिसंख्यायोगात् । नारत्निप्रादेशाभ्यासः । एकविंशतिसंख्या- भिस्तुल्यजातीयस्य निवर्त्तिका यथाविधाभ्यासे । तत्र पुरुषत्रिकरण्या पञ्चतिलोनया अष्टशतद्वयाङ्गुलया पक्षपुच्छानां मानं कृत्वा पक्षपुच्छेषु अरत्निप्रादेशानां प्रक्षेपः । प्राकृत इति । अश्वमेधे त्रिस्तावोऽग्निर्भवती (बौ० श्रौ० सू० २६।१० ) त्याम्नातम् । तदभिप्रायेणेदमुच्यते । प्राकृत अर्धाष्टमविधोऽग्निस्त्रिविधो भवति । तस्मात् त्रिस्ताव- विधौ विधाभ्यासवत् पुरुषविशेषश्रवणात् । एवञ्च अर्धत्रयोविंशाः पुरुषा अग्निर्भवति । तत्र पुरुषत्रिकरण्या मानम् । पक्षपुच्छानां तिर्यङ्मानीत्रिकरणी तिर्यङ्मानी । पार्श्व- मान्याश्च त्रिकरणी पार्श्वमानी । एवमाश्वमेधिकस्याग्नेरुभयरूपत्वमुक्तम् ॥ १४५ ॥ त्रिस्तावोऽग्निर्भवतोत्येकविंशोऽग्निर्भवतीत्युभयं ब्राह्मण- मुभयं ब्राह्मणम् ॥ १४६ ॥ ननु पक्षद्वयाभिधानं विरुद्धमित्याशङ्क्य श्रुतिवाक्यद्वयवशात् विकल्पो युज्यत इत्युभयमुदाहरति । त्रिस्तावोऽग्निरिति । द्विरुक्तिर- ध्यायसमाप्तिद्योतनार्था ॥ १४६ ॥