बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 42, कुल 366 में से
संदर्भ में पढ़ें१४ शुल्वसूत्रम् [ प्रथमो- अंसौ च कुर्यात् । यथा दक्षिणश्रोण्यंसौ कुर्यात् एवमुत्तरापायमनेन उत्तरौ श्रौण्यंसौ कुर्यात् । तथा च श्रोणीद्वयमंसद्वयं च कृत्वा समचतुरस्रं कुर्यादिति समचतुरस्रकरणे प्रकारद्वयम् ॥ २७ ॥ पृष्ठ्येति । अभीष्टक्षेत्रायामसंमिता सर्वमानेपृष्ठयतःपाशा प्राची । पूर्वापरयोः शङ्कोर्निहिता भवति । सैव मध्ये भवतीति पृष्ठ्या । संप्रसार्य षडङ्गुलेन श्रोण्यंसान्नि- र्हरेत् कुर्यात् । एतत्करणद्वयं समचतुरस्रविषयम् ॥ २७ ॥ [ इति समचतुरश्रकरणोपायः । ] दीर्घचतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावत्यां भूमौ द्वौ शङ्कू निहन्यात् । द्वौ द्वावेकैकमभितः समौ ॥ २८ ॥ दीर्घचतुरश्रमिति । अभिलषितदीर्घचतुरश्रायां भूम्यां प्राक्पश्चि- मान्तयोः शङ्कुद्वयं निहन्यात् । द्वौ द्वाविति । प्राङ् निखातस्य शङ्कु- द्वयस्य प्राग्भागपश्चिमभागेषु समान्तरालौ द्वौ द्वौ । एकैकमभित इति । प्रत्येकैकस्य शङ्कोः पार्श्वद्वये शङ्कुद्वयं निहन्यात् । "अभितः परितः समया निकषा हा प्रति योगेष्वि"ति षष्ठ्यर्थे द्वितीया । आहत्य पृष्ठ्यान्तयोः प्रत्येकं शङ्कुत्रयं निखातं भवति ॥ २८ ॥ भूमाविति । अभीष्टक्षेत्रायामपृष्ठ्यान्तयोः । अभित इति । अभितः पश्चात् पुरस्ताच्च समान्तरालौ ॥ २८ ॥ यावती तिर्यङ्मानी तावतीं रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे लक्षणं करोति ॥ २९ ॥ यावतीति । अभिलषितदीर्घचतुरश्रस्य दक्षिणोत्तरयोः पार्श्वयो- र्मानहेतुरज्जुर्यावती द्वादशाङ्गुलाद्यात्मिका तावतीमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामिति । पूर्वेषां प्राच्यानां शङ्कूनां मध्ये अन्त्ययोः प्राक्पश्चात् स्थितयोः शङ्कोः पाशौ प्रतिमुच्य