बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 51, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं २३ चतुरश्रमेकत इति । पुरस्ताद्ध्रस्वतिर्यङ्मानीकं, पश्चात्ततोऽधिक- तिर्यङ्मानीकमित्यर्थः । अभिमतह्रस्वप्रमाणतिर्यङ्मानीं कृत्वा शेषमवशिष्ट- मक्ष्णया द्वेधा विभज्य विपर्यस्य व्यत्यासं कृत्वा दक्षिणोत्तरयोः पार्श्व- योरेकैकं भागमुपदध्यात् । अयमर्थः—समचतुरश्रशेषमुदग्भागस्थं दीर्घचतुरश्रं प्रागूदक्षिणकोणादारभ्याक्ष्णया विभजेत् । तत्र विभक्त- योर्भागयोर्मध्ये दक्षिणं भागं तथैव स्थापयेत् । उत्तरभागमुद्धृत्य विपर्यस्य दीर्घचतुरश्रस्य दक्षिणभागे पूर्वभागे सूक्ष्मं पश्चाद्भागे विस्तीर्णं योजयेदिति ॥ ४४ ॥ चतुरस्रमिति । अणिमत्पार्श्वस्य करणीं तिर्यङ्मानीकरणीं कृत्वा प्रमाणपार्श्व- मानीकं अणिमत्पार्श्वतिर्यङ्मानीकं दीर्घचतुरस्रं कृत्वा अवशिष्टं क्षेत्रं अक्ष्णया परिच्छिद्य एकं तत्रैव स्थापयित्वापरमादाय विपर्यस्य पार्श्वान्तर उपदध्यात् ॥ ४४ ॥ [ इति चतुरस्रस्यैकतोऽणिमत्करणोपायः । ] चतुरश्रं प्रउगं चिकीर्षन् यावच्चिकीर्षेत् द्विस्तावतीं भूमिं समचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् ॥ ४५ ॥ चतुरश्रस्य प्रउगकरणमाह—चतुरश्रमिति । अभिमतचतुरश्र- स्याक्ष्णया रज्ज्वा सर्वतो मित्वा तद्द्विगुणां भूमिं समचतुरश्रां कृत्वा तत्प्राग्देशस्थितायाः करण्या मध्ये शङ्कुं निहत्य तस्मिन् शङ्कौ पाशद्वयं प्रतिमुच्य श्रोणीभूतयोः स्रक्त्योर्निपातयेत् । तत्र स्पन्द्ययोरुभयोरपि बहिः क्षेत्रं विसृजेत् । स्पन्द्यान्तःस्थितं क्षेत्रं प्रउगाकारं सम्पद्यत इत्यर्थः ॥ ४५ ॥ चतुरस्रं प्रउगमिति । प्रउगं शकटमुखम् । द्विकरण्या समचतुरस्रं कृत्वा पूर्व- स्यास्तिर्यङ्मान्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य चतुरस्रश्रोण्योर्निपात- येत् । स्पन्द्ययोर्बहिर्भूतंमपच्छिन्द्यात् निरस्येत् ॥ ४५ ॥ [ इति चतुरश्रस्य प्रउगकरणोपायः । ] चतुरश्रमुभयतःप्रउगं चिकीर्षन् यावच्चिकीर्षेद् द्विस्तावतीं भूमिं दीर्घचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् ।