बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 57, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं २६ पूर्वस्योत्तरेंऽस आहवनीयः ॥ ५५ ॥ पूर्वस्येति । प्राक्चतुरश्रस्य उत्तरेंऽसे आहवनीयस्य मध्यशङ्कुं निहत्य द्विप्रादेशप्रमाणं समचतुरश्रं कुर्यात्, स आहवनीयः । अग्रेणाहवनीयं पदत्रयं संचरमवशिष्य आहवनीयवच्चतुरश्रः सभ्यस्तस्य पुरस्ताच्च पद- त्रयमवशिष्याऽवसथ्यः, सोऽप्याहवनीयवच्चतुरश्रः ॥ ५५ ॥ पूर्वस्येति । पूर्वस्य उत्तरस्याः श्रोण्या उत्तरेणोत्करः । पूर्वस्य चतुरस्रस्य उत्तरेंऽसे आहवनीयमध्यशङ्कुः । तस्य नवतिलसहितैकविंशत्यङ्गुलं चतुरस्रं कुर्यात् । द्युलोकसंस्तवात् चतुरस्र आहवनीयः । आगारो वा । सभायामेव सभ्यं व्यप- दिशेत् । आवसथ आवसथीयमिति ॥ ५५ ॥ अपिवा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभृज्य षष्ठं सप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या- हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ॥ ५६ ॥ दक्षिणाग्न्यायतनविकल्पमाह—अपिवेति । गार्हपत्याहवनीययोर- न्तरालप्रमाणां रज्जुं पञ्चधा षोढा वा विभज्य तत्रागन्तुमन्यं भागं संयोज्य पञ्चधा विभागपक्षे पञ्चमांशेनान्यं षष्ठं भागं योजयेत् , षोढा संविभागपक्षे षष्ठांशसमानप्रमाणमन्यं सप्तमभागं योजयेत् । भागान्तरसंयुक्तमिदं लक्षणेन दक्षिणत आकृष्य लक्षणे शङ्कुं निहन्ति । स शङ्कुर्दक्षिणाग्नेर्मध्यम् । विपर्यस्योत्करः । आहवनीयसम्बद्धमग्रं गार्हपत्यसंबद्धं कृत्वा गार्हपत्य- सम्बद्धं आहवनीयसमीपे नियम्य लक्षणेन उत्तरतोऽपायम्य शङ्कुं निहन्ति, स उत्करः ॥ ५६ ॥ अपीति । अपि वा पक्षः । “आयामतृतीयेन” ( १५२ ) इत्यादि सर्वं कल्पो- क्तेन विकल्पते । दक्षिणाग्न्यायतनदेशविकल्पार्थमाह—संभृज्य संवेष्ट्य । आगन्तुक- मधिकं प्रक्षिप्य । समं सर्वम् । द्वयोर्भागयोरिति । तयोर्गार्हपत्याहवनीयमध्य- शङ्क्वोः । दक्षिणाग्नेरिति । दक्षिणाग्नेरायतनमध्यं भवति । विपर्यस्योत्करः ॥ ५६ ॥