भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 59, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 59

ऽध्यायः ] बौधायनीयं ३१ अपरेणेति । भवतीत्यनया श्रुत्या दर्शपूर्णमाससम्बन्धिन्या वेदेर्विज्ञा- यते प्रमाणमिति शेषः । यजमानमात्रोति । षण्णवत्यङ्गुलप्रमाणेत्यर्थः । तस्या मानमाह—तस्या इति । तस्याः षण्णवत्यङ्गुलायास्तृतीयेन भागेन ऊनं चतुःषष्ट्यङ्गुलानि प्रत्यक्प्रदेशतिर्यङ्मानी कार्या । तस्या एवार्धम् अष्टचत्वारिंशदङ्गुलानि पुरस्तात्तिर्यङ्मानी कार्या । एवं प्रकारेण पूर्वभागे अणु पश्चाद्भागे विशालं प्राक्पश्चिमदीर्घम् एकतोऽणिमद्दीर्घचतुरश्रं कृत्वा तस्य चतसृषु स्रक्तिषु शङ्कुचतुष्टयं निहन्यात् । तस्याः संमानमाह— यावतीति । दक्षिणयोरिति । दक्षिणयोः दक्षिणस्रक्तिद्वयनिखातशङ्‌कोरित्यर्थः त्यर्थः । एतेनेति । “यावती पार्श्वमानी” त्यादिना उत्तरतोऽपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य उत्तरपार्श्वं परिलिखेदित्यर्थः । पूर्वमिति । प्राक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्राग- पायम्य लक्षणे शङ्कुं निहत्य तत्र पाशं प्रतिमुच्य लक्षणेन पूर्वं पार्श्वं परिलिखेत् । एवं मिति । प्रत्यक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्रत्यगपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य लक्षणेन पश्चिमं पार्श्वं परिलिखेदित्यर्थः । अत्र कर्मान्ते । अथेयं दार्शपौर्णमासिकी वेदी यजमानमात्री भवत्य- परिमिता वा यथासन्नानि हविंषि सम्भवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्न- यत्याहवनीयस्य परिगृहीत्यै प्रतीची श्रोणी निरूहति गार्हपत्यस्य परि- गृहीत्यै पुरस्तादंहीयसी पश्चात् प्रथीयसी मध्ये संनततरा भवतीति पक्षान्तरमुक्तम्, तदप्यत्रानुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुलाधिका । विकृति ( प्रकृतिषु ? ) आस- न्नानि हवींषि यथा संगृह्लीयात्, प्राञ्चौ वेद्यंसावुन्नयति आहवनीयस्य परिगृही षाय ( त्यै ? ) । प्रतीची श्रोणी गार्हपत्यपरिग्रहाय । पुरस्ता- च्छ्रोणीप्रमाणात् संकुचिता, पश्चादंसप्रमाणाद् विस्तृता, मध्ये अतिकृशा । दक्षिणोत्तरायतं गार्हपत्यागारम् । पूर्वापरायतमाहवनीयागारम् । आह- वनीयागारस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारं, ततः पुरस्तात्

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक) · पृष्ठ 59, कुल 366 में से · BharatKosha