बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 73, कुल 366 में से
संदर्भ में पढ़ेंअथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास ऐकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि” रित्येतत्सूत्र- विरोधात्