भारतकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

अथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास ऐकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि” रित्येतत्सूत्र- विरोधात्

४४ शुल्बसूत्रम् [ प्रथमो-

वचनात् । अप्राच्येकादशिन्याम् अष्टाङ्गुलाधिकस्य संयोजनं विद्यते, तद्विनापि वेद्यंस-योगसंभवात् । दक्षिणोत्तरेकादशिन्यान्तु अधिकाष्टाङ्गुल- समायोजनं विना वेद्यंसयोरसंभवात् तदावश्यकम् । व्यतिषङ्गश्च न विद्यते । पशूनां व्यतिषङ्गः “सारस्वतीमुत्तरा”मित्यादिकः प्राच्येका- दशिन्यां नास्ति । किन्तु आग्नेयप्रभृतीन् पशूनसिष्टान् प्रभृति यूपेषु क्रमेण नियोजयेत् ॥ ८१ ॥ अथेति । महावेदेः पूर्वभागे यूपार्थं स्थापितं पञ्चशतद्वयाधिकसहस्राङ्गुलायत पदार्धोन्यासम्पच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । यावद् यूपं वेदिमुद्धन्तीति वचनात्। तत्रापि वेदिसंस्काराः क्रियन्ते । प्राची यूपपङ्क्तिः । नेति । अष्टाङ्गुलं न विद्यते । अथेमावुपस्तावानौ चतुरङ्गुलमात्रेण विप्रकृष्टौ स्यातामिति । नेति ॥ ८१ ॥ यूपावटाः पदविष्कम्भाः ॥ ८२ ॥ यूपावटा इति । अर्धपदेन परिलेखनम् । यूपावटा अर्धपदेन परि- लेखनेन पदविस्कम्भा भवन्ति ॥ ८२ ॥ यूपेति । अर्धपदेन परिलेखनम् ॥ ८२ ॥ त्रिपदपरिणाहानि यूपोपराणीति ॥ ८३ ॥ त्रिपदेति । यूपोपराणि यूपमूलानि त्रिपदपरिणाहानीति त्रिपद- विशालानि भवन्ति ॥ ८३ ॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्त- वाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य, सर्वतन्त्रस्वतन्त्रसाग्निचित्यसर्व- पृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य, तच्छिष्यतालब्धसमस्त- विद्यावैशद्यस्य, साग्निचित्याप्तवाजपेययाजिश्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बोधायनशुल्बमीमांसायां प्रथमोऽध्यायः ॥ त्रिपदेति । उपराणि मूलानि ॥ ८३ ॥ [ इति प्रक्रमादिविशेषनिर्णयः । ] इति बौधायनीयशुल्बसूत्रव्याख्यायां शुल्बदीपिकायां प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास एकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानाह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्येतत्सूत्र- विरोधात् । न द्वितीयः सार्धसप्तपुरुषप्रमाणप्रथमाग्निचयनानन्तरं “न ज्या- यांसं चित्वा कनीयांसं चिन्वीते”ति श्रुतिविरोधेन षड्विधसप्तविधयो- रनुष्ठानायोगात् । द्वादशविधस्य वक्ष्यमाणपुरुषाभ्यासप्रकारेषु कदाऽप्य- प्रसक्तेः । “यावद्विधं वे”त्येतच्चात्यन्तमनुपपन्नं “एकशत विधान्त”मिति सूत्रोक्तनियमविरोधात् । “अर्धाष्टमाः पुरुषाः प्रथमोऽग्निरि”त्युपक्रम्य तस्मात् सप्तविध एव प्रथमोऽग्निरित्युपसंहारविरोधाच्च । न सार्धसप्त- पुरुषाग्निप्राथम्यकथनं सपक्षपुच्छाग्निविषयम् । षड्विधाद्यग्निस्तु अपक्ष- पुच्छ इति तस्य प्राथम्येऽपि न विरोधः । “न ज्यायांस”मिति श्रुतेः सपक्षपुच्छाग्निप्रकरणस्थत्वेन तद्विषयतया षड्विधादीनां द्वितीयादिभावे- ऽप्यविरोधः सावित्र-गार्हपत्याद्यग्नेरिव । एवं षड्विधं तदप्युपपन्नं सप्तविधानन्तरम् एकैकपुरुषाभ्यासे द्वादशविधः संभवत्येव । “एक- शतविधान्त”मिति नियमस्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्युप-

क्रमानुरोधेन सपक्षपुच्छाग्निविषयतया “यावद्द्विधं वे”त्येतदप्युपपन्नतर- मिति वाच्यम्। इहैवाग्रे सूत्रकारेण “नापक्षपुच्छः श्येनो विद्यत” इति तस्य सपक्षपुच्छतानियमस्य प्रतिपादयिष्यमाणत्वेन षड्विधादेरपि सप- क्षपुच्छताया अवश्यवक्तव्यत्वेन पूर्वोक्तविरोधस्य षड्विधप्रभृति एकैक- पुरुषाभ्यासे सार्धसप्तपुरुषप्रभृति एकैकविधाभ्यासः। एवं प्रमाणाभावेन द्वादशविधासंभवस्यापक्षपुच्छविषयत्वासंभवेनावश्यं सपक्षपुच्छविषयतया पूर्वोक्तानुपपत्तेश्च तादवस्थ्यात्। न च श्रुतौ “व्याममात्रौ पक्षौ च पुच्छञ्च भवती”त्युक्त्या “अरत्निना पक्षौ द्राघीयांसौ भवत” इत्युक्त्या सार्ध- सप्तविध एव सपक्षपुच्छः न षड्विधो नापि सप्तविध एवेति न पूर्वविरोध इति शङ्क्यम्। षड्विधादावपि सार्धद्विपुरुषेण सार्धत्रिपुरुषेण वा आत्मा- दिमानं कृत्वा पुरुषत्रयेण पक्षपुच्छे मीयमाने अवशिष्टेन श्रुत्यर्थनिर्वा- होपपत्तेः। न च श्येनासिमानकथनोपसंहारवाक्ये “एवं सारत्निप्रादेशः सप्तविधः संपद्यत” इति वक्ष्यमाणत्वेन षड्विधादिकथनस्यापक्षपुच्छविषय- त्वमेवोचितम्, न तु सपक्षपुच्छविषयत्वमिति वाच्यम्। षड्विधादिकमपि पुरुषप्रमाणह्रासेन सार्धसप्तविधं कृत्वा स्वाभाविकात्मशिरः प्रभृतिषु विनियोगसंभवात्। न चैवं सपक्षपुच्छस्य व्याममात्रत्वानुपपत्तिरिति वाच्यम्। सार्ध- नवमादौ पुरुषप्रमाणाधिक्येऽपि व्याममात्रत्वादुपपत्तिश्चेत् न्यूनत्वेऽपि तदुपपत्तेः। न च अर्धनवमादौ “यदन्यत्कृते”रित्यादिवचनबलाद् व्याम- मात्रत्वादुपपत्तिरिति वाच्यम्। इहापि “पुरुषमात्रेण वेणुना सपक्षपुच्छ” मित्याद्युपदिश्य षड्विधं सप्तविधं वेत्यनुक्रमणस्य प्रमाणस्य सद्भावात्। उक्तं चापस्तम्बाचार्यैः—सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तम- करणीं पुरुषस्थानीयां कृत्वा निर्हरे”दिति¹। तस्मात् पूर्वोक्तविरोध इति चेद्-- अत्रोच्यते—अर्धाष्टमाः पुरुषा अग्निरिति प्राथम्यकथनं सपक्षपुच्छविष-


१. आप. शु. सू. ८ मःखण्डः।

ऽध्यायः ] बोधायनीयं ४७

यम्। षड्विधस्तु अपक्षपुच्छ इति तस्य प्राथमिकत्वेऽपि न प्राथमिकोक्ति विरोधः। न च षड्विधस्यापि सपक्षपुच्छत्वमुक्तमिति वाच्यम्। तस्य हि सपक्षपुच्छत्वं सूत्रे सपक्षपुच्छमानमुपक्रम्य षड्विधादेरनुक्रमेण न (च ?) सौत्रासिधधर्मोपदेशं साधारणं कल्पयित्वोच्यते ? उत तैत्तिरीया- दिशाखागतं “व्याममात्रौ पक्षौ पुच्छं च भवती”त्यादिधर्मोपदेशं साधारणं कल्पयित्वोच्यते ? नाद्यः, द्वादशविधस्येव विकृतिभूतस्यापि षड्विधस्य मध्येऽनुक्रमणोपपत्त्या धर्मोपदेशसाधारण्यकल्पनायां प्रमाणा- भावात्। न द्वितीयः। तैत्तिरीयशाखादिगतधर्मोपदेशस्य सप्तविधश्येन- विषयत्वेन सर्वैर्वेदवादिभिरभ्युपेततया तत्साधारण्यकल्पनासम्भवात्। उक्तं चापस्तम्बाचार्यैः—"एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति, सप्तविधवाक्यशेषत्वा"दिति¹। नन्वेवमपि षड्विधस्य सविकृतितयाऽतिदेशतरधर्मवत्पक्षपुच्छं प्राप्नो- तीति चेन्न, प्रउग-कूर्मादाविव पक्षाद्यप्राप्तिसंभवात्। न च तत्र वाच- निकप्रउग-कूर्माकारबाधापत्त्या पक्षाद्यप्राप्तिः स्यादिति वाच्यम्। “एक विधप्रभृतीन् समचतुरश्रानेक आचार्या" इत्यनेन समचतुरश्राकारस्य विहिततया तद्बाधापत्त्या पक्षाद्यप्राप्तिसंभवात्, न चासप्तविधस्य पक्षपुच्छानि विद्यत इति वचनेन पक्षादिबाधाच्च। ननूक्तरीत्या प्राथमिकविरोधाभावेऽपि षड्विधस्य विकृतितया प्रथम- तरमनुष्ठानासम्भवेन द्वितीयादिभावस्य वक्तव्यतया “न ज्यायांस”मिति निषेधश्रुतिविरोधः पूर्वोक्त आपतेदिति चेन्न, नहि तस्य द्वितीयादिभावोऽङ्गी- क्रियते येन विरोधः स्यात्। किन्तु विहितस्य षड्विधादेः “न ज्यायांस”मिति निषेधश्रुतिविरोधः पूर्वोक्त आपतेदित्यनेन द्वितीयादिभावे निषिद्धे अनन्य- गत्या विकृतिभूतस्यापि पवमानेष्ट्यादिवत् प्रथममनुष्ठानम्। तथाच न कोऽपि विरोधः। न च षड्विधादेरपक्षपुच्छतया “न ज्यायांस”मिति निषेधस्य च सपक्षपुच्छविषयतया द्वितीयादिभावेऽपि न विरोध इति अनन्यगतिकत्वा-


१. आप. शु. सू. ८मः खण्डः।

भावात् प्राथम्याभ्युपगमो न युक्त इति वाच्यम् । “न ज्यायांस”मिति निषेधस्य सपक्षपुच्छापक्षपुच्छ (विषय ?) तयावेश्यवक्तव्यत्वेन प्राथम्यस्यैव युक्तत्वात् । अन्यथा अपक्षपुच्छस्य प्रउग-कूर्मादेः कनीयसोऽपि द्वितीयादि- भावेनानुष्ठानं स्यात् । यत्तु सार्धसप्तविधादारभ्य एकैकपुरुषाभ्यासे द्वादशविधस्य कदाप्य- प्रसक्तिरिति तन्न । “अरत्निना पक्षौ द्राघीयांसा”वित्यगम्यमानांशे पृथक्कृत्य एकैकपुरुषाभ्यासपरतया दशविध एव द्वादशविधोक्ति सम्भवात् । यदपि वार्ध्राष्ट्रि(माद् ?) यावद्विधोत्तरसम्भव इति तदपि न, उक्तेष्वेव एकशतान्तेषु यावद्विधोक्तिपर्यवसानसंभवात् । यदपि वार्ध्राष्ट्रिमाः पुरुषाः प्रथमोऽग्निरित्युपक्रम्य तस्मात् सप्तविध एव प्रथमोऽग्निरित्युपसंहारस्य च विरोध इति तदपि न । तत्रापि “अरत्निना पक्षौ द्राघीयांसा”वित्यगम्यमानतयोच्यमानांशं पृथक्कृत्य सार्धसप्तविध एव सप्तविधोक्तिसम्भवात् । एतेन कल्पसूत्रगतसप्तविधग्रहणमपि व्याख्यातमिति सर्वमनवद्यम् । एवं पृथक्कर्त्तव्याग्नेः सार्धसप्तपुरुषप्रमाणक्षेत्रत्वमुक्त्वा अनन्तरम् अनुष्ठेययोर्द्वितीयतृतीययोः प्रमाणमाह—अर्धनवमा इति । अत्रापि पूर्व- वद् बहुव्रीहिः । चतुर्थ प्रभृतीनां स्वस्वपूर्वापेक्षया एकैकपुरुषप्रमाणाधिक्यमाह—एव- मुत्तरोत्तर इति । चतुर्थपञ्चमादिरग्निः द्वितीयतृतीयवत् स्वस्वपूर्वा- पेक्षया एकैकपुरुषप्रमाणाधिक इत्यर्थः । अयमभ्यासः कियत्पर्यन्त इत्यत आह—विधाभ्यास इति । विधी- यते मीयते तया अग्निक्षेत्रमिति विधा पुरुषः । पुरुषवृद्धिरेकोत्तरशतान्त- मित्यर्थः । ननु सार्धसप्तविधप्रभृत्येकैकविधाभ्यासे सार्धैकशतविध एव सम्पद्यते, न त्वेकशतविध इत्यत आह—तदेतदिति । तदेतद्विधाभ्यासः (सार्धं ?) सप्तविधप्रभृत्येकशतविधान्तम् । श्रुत्युक्त्या गम्यमानांशस्तु अर्धं पुरुषः

ऽध्यायः ] बोधायनीयं ४९ सर्वेषु सप्तविधप्रभृतिष्वेकशतान्तेषु अविशिष्ट इति एकशतान्त निर्देश उपपन्न इति भावः ॥ १ ॥ अर्धाष्टमेति । सामान्यपरिभाषानन्तरमग्निधर्माः । अर्धपुरुषोऽष्टमो येषां ते अर्धाष्टमपुरुषाः । पुरुषशब्देन पञ्चारत्निना विंशत्यधिकशताङ्गुलेन वेणुना परि- मितं क्षेत्रमुच्यते । तत्र चतुर्दशसहस्राणि चत्वारिशतान्यङ्गुलयः पुरुषे सन्ति । एतत् पुरुषक्षेत्रं पञ्चदशभिर्हत्वा अर्धीकृत्य लक्षमष्टौसहस्राणाञ्चाङ्गुलयो अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । प्रथमाहारे कर्त्तव्योऽग्निः । प्रथमे प्रयोग अर्धाष्टमपुरुषपरिमितक्षेत्रोऽग्निः कर्त्तव्य इति । एवमुत्तरत्रापि । अर्धनवमा इति । द्वितीय आहारे कर्त्तव्योऽग्निः । अर्धदशमा इति । पूर्वेण व्याख्यातम् । एवमिति । विधीयत इति विधा पुरुषप्रमाण- क्षेत्रम् । चतुर्थाहारप्रभृत्येवं पुरुषाभ्यास एकशतविधपर्यन्तम् । तदेतदिति । उक्तमग्नि- रूपं सप्तविधप्रभृत्येकशतविधान्तम् । न पूर्वत्र नोत्तरत्रेत्यर्थः । अथवा उत्तरपक्षार्थो- ऽयमनुवादः ॥ १ ॥ अत ऊर्ध्वमेकशतविधानेव प्रत्याददीत ॥ २ ॥ ननु एकशतविधाभ्यासानन्तरं कर्तव्ये क्रतावग्निरैव न प्राप्नोति । स हि न तावत् सप्तविधादिः । “न ज्यायांस”मिति श्रुतिविरोधात् । नाप्येकशतानन्तरविधाभ्याससहितः प्रमाणाभावादित्यत आह—अत ऊर्ध्वमिति । एवकार अप्यर्थे । एकशतविधाभ्यासानन्तरमपि एकशत- विधान् कुर्यादित्यर्थः ॥ २ ॥ अत ऊर्ध्वमिति । चिनुयादित्यर्थः ॥ २ ॥ अनग्निकान् वा यज्ञक्रतूनाहरेत् । अन्यत्राश्वमेधात् । एकविंशो ऽग्निर्भवतीत्यश्वमेधस्याग्निना नित्यं संयोगात् ॥ ३ ॥ इयता प्रबन्धेनाग्नेः परिमाणमुक्त्वाग्नेः सर्वक्रतुषु विकल्पमाह— अनग्निकानिति । नन्वयं विकल्प एवानुपपन्नः । तथाहि न तावत् प्रकृतौ ज्योतिष्टोमेनारभ्याधीतोऽग्नि निवेष्टुमिष्टे, तस्य प्राकरणिकोत्तरवेद्यविरो- धात् । न च “अथातोऽग्निमग्निष्टोमेनानुयजन्ती”ति वाक्येन वा अग्नेरप्य- ग्निष्टोमसंबन्धोऽस्तीति वाच्यम् । “आनर्थक्यप्रतिहतानां विपरीतं बलाबल”मिति न्यायेन प्रकरणं बलीयस्तया साप्तदश्यन्यायेनाग्नेर्विकृति- गामित्वे अग्निष्टोमपदस्य विकृत्यग्निष्टोमपरत्वान्नापि विकृतिषु सर्वत्र ७ Nepal Sanskrit University, Balmeeki Campus, Kathmandu

५० शुल्बसूत्रम् [ द्वितीया- प्रकृतावभावेन चोदकाप्राप्तेरिति चेन्न । अग्नेरना (र ?) भ्याधीतेति चेन्न । अग्नेरना ( र ? ) भ्याधीतत्वेन प्रकृतिगामित्वाद् यत्तावदुक्तं प्रकृतेः प्राकरणिकोत्तरवेद्यविरोधादग्नेः साप्तदश्यन्यायेन विकृतिगामित्वमिति तन्न । साप्तदश्ये हि ऋतुसंबन्धस्य वाचनिकत्वाभावेन क्रत्वव्यभि- चरतः सामिधेनीलिङ्गवशेन कल्पतया युक्तं तत्र विकृतिगामित्वम् । इह त्वग्नेरग्निष्टोमसंबन्धस्य वाचनिकत्वेन प्रकृतिसंबन्धस्यैवोचितत्वादुत्तरवेदेः पाक्षिकत्वेनापि प्रकरणोपपत्त्यानर्थक्याभावेनाग्निष्टोमश्रुतिबाधायोगात् । अग्निष्टोमशब्दैक्योपदेशिकाग्निष्टोमस्तोत्रसंस्थाकप्रकृतावेव मुख्यतया विकृतौ गौणत्वात्तस्मादस्ति प्रकृतावुत्तरवेद्या विकल्पतोऽग्निरतिदेशेनैवो- क्थ्यादिषु अग्निप्राप्त्या “तमुक्थ्येने”त्यादि पुनर्वचनमनर्थकं स्यात् । न च तेष्वग्निनियमार्थं पुनर्वचनमिति वाच्यम् । “तमुक्थ्येने”ति वाक्यस्यानारभ्या- धीताग्निप्रकरणगतस्य तत्तत्प्रकरणव्यवस्थितचोदकगणा(?)यावत्पाक्षिकप्रा- प्तिसापेखनियमपरत्वायोगादिति चेन्न । आष्टमिकन्यायेन विकृतिषु गुणका- माप्राप्तौ तत्प्राप्त्यर्थत्वेन पुनर्वचनोपपत्तेः । “श्येनचितं चिन्वीत स्वर्गकामं” इत्यादिगुणफलानामग्निप्रकरणगत (त्वे ?) न तत्प्राप्तिफलत्वकल्पनौचित्यात् । तस्मात्साद्यस्त्तु सारस्वतसत्रादावश्यकतयाऽग्नेरनुष्ठानेऽपि दार्शिकन्यायेन षोडशीवाजपेयादिषु चोदकप्राप्त्या सर्वक्रतुविकल्प एवाग्नेरिति भावः । नन्वेवमुक्तन्यायेनाश्वमेधेऽप्यग्न्युत्तरवेद्योर्विकल्पः स्यादित्याशङ्क्य एक- विंशोऽग्निर्भवती”ति श्रुत्या तत्राग्निर्नित्य एवेत्याह—अन्यत्रेति ॥ ३ ॥ अनग्निकानि।त । अत ऊर्ध्वमित्येव । किं सर्वत्र । नेत्याह । अन्यत्रेति ॥ ३ ॥ अश्वमेधमप्राप्तञ्चेदाहरेदत ऊर्ध्वं विधामभ्यस्येन्नेतरदाद्रियेत । अतीतञ्चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत ॥ ४ ॥ नन्वत्र सूत्रे एकविंशतिविधः विंशतिविधानन्तरं कर्तव्य इति प्रतीयते, श्रुतौ चाश्वमेधस्य एकविंशतिविध एव नियतश्रुतः । तथा च श्रुतिस्मृ- त्योरनुग्रहाय विंशतिविधाग्निचयनानन्तरमेवाश्वमेधे कर्तव्यता प्राप्नो- तीत्यत आह—अश्वमेधमिति । विंशतिविधानिवन्धनात् प्रागपि प्रायश्चि-

तद्रूपोऽन्यो वा यद्यश्वमेधः प्राप्तस्तदा एकविंशतिविधाग्निसहितमश्वमेधमनु- तिष्ठेदित्यर्थः । नन्वेवं कथं श्रुतिस्मृत्योरनुग्रह इति चेन्न कथञ्चित् । तथाहि “औदुम्बरीं स्पृष्ट्वोद्गायेत्” “औदुम्बरी सर्वा वेष्टितव्ये”त्युदाहृत्य यस्याविरुद्धार्थत्वेऽपि व्रीहियवबृहद्रथन्तरग्रहणाग्रहणादिवद्विकल्पेन संभवति प्रत्यक्षश्रुतिविरोधेन स्मृतिमूलभूतश्रुत्यनुमानसम्भवादिति व्यवस्थापितम् । नन्वेवं सति अश्वमेधानन्तरमनुष्ठीयमाने क्रतौ एकविंशत्यपेक्षया न्यूनविध एवाग्निः प्राप्नोति । तथा च “'न ज्यायांस” मिति श्रुतिविरोध इत्यत आह—अत ऊर्ध्वमिति । एकविंशतिविधाभ्यासानन्तरं द्वाविंशति- प्रभृतिरेवानुष्ठेयः । नतु न्यूनविधः येनोक्तविरोधः स्यादित्यर्थः । नन्विदमत्यन्तानुपपन्नं द्वाविंशतिविधाद्यनुष्ठानानन्तरम् उक्तविरोधेन एकविंशतिविधानुष्ठानासम्भवादित्यत आह । अतीतञ्चेदिति । एकविंश- तिविधोऽतीतश्चेदपि तमेवाहरेद् उक्तश्रुतिबलादित्यर्थः । इयांस्तु विशेषः । अत्र “न ज्यायांस” मिति श्रुतिविरोधाभावेन द्वाविंशादिषु यदनन्तर- माश्वमेधिकोऽग्निरनुष्ठितस्तदनन्तरं तदूर्ध्वविधप्रभृतिरेवानुष्ठेय इति तदेत- दाह—आहृत्यैति । आहृत्य एकविंशतिविधमनुष्ठाय कृतनिर्मुक्तादूर्ध्वविध- मेव पुनः प्रत्याददीत कुर्यादित्यर्थः ॥ ४ ॥ अश्वमेधमिति । अश्वमेध अप्राप्तश्चेद् विंशतिविधानग्नीनचित्वा अश्वमेधञ्चे- दाहरेत् स ततः परमग्निं चिन्वानो द्वाविंशत्यादिविधमेव चिन्वीत नतु पूर्वविधान् । न ज्यायांसं चित्वा कनीयासं चिन्वीतेति । अतीतमिति । अतीतञ्चेदेकविंशतिविधादूर्ध्वमपि विधामभ्यस्य ततः पश्चा- दश्वमेधमाहरेत् । यथा त्रिंशद्विधाद् अन्ते तस्याप्यश्वमेधेऽग्निरेकविंश एव । ततः परन्तु पूर्वकृतान्तादारभ्यैकत्रिंशादिविधानेव चिन्वीतेति । पूर्वेषां कृतत्वात् । विधाभ्यासः कर्त्तव्य इत्युक्तम् ॥ ४ ॥ कथमु खलु विधामभ्यसेत् । यदन्यत् प्रकृतेस्तत् पञ्चदशभा- गान् कृत्वा विधायां विधायां द्वौ द्वौ भागौ समस्येत् । ताभिर- र्धाष्टमाभिरग्निं चिनुयात् ॥ ५ ॥

५२ शुल्बसूत्रम् [ द्वितीयो-

ननु पूर्वोक्तोऽर्धनवमादिविधाभ्यास एवानुपपन्नः । चतुरश्रचयनादौ सार्धसप्तविधस्यैव वक्ष्यमाणविभज्यविनियोगेनावगम्यमानत्वादिति शङ्कते कथमिति । न कथमित्यर्थः । पुरुषप्रमाणाधिक्येन सार्धसप्तविधत्वं सर्वत्राप्युपपन्नमित्यभिप्रायेण परिहरति यदन्यदिति । प्रकृतेः पञ्चारत्निपुरुषप्रमाणेन सार्धसप्तविधाद् यदन्यदवशिष्टं तत्पञ्चदशधा विभज्य एकैकस्मिन् पुरुषे भागद्वितयं दद्यात् । एवं सति अर्धनवमादयः सार्धसप्तविधाः सम्पन्नाः ॥ ५ ॥ तत्र प्रश्नपूर्वकं प्रकारकथनम् । कथमिति । वक्ष्यमाणार्थगौरवात् शिष्याभिमु- खीकरणार्थः प्रश्नः । यदन्यदिति । द्वितीयाहारेऽर्धनवमविधे यदन्यत् प्रकृतेरर्धाष्टमे- भ्योऽधिकं पुरुषक्षेत्रं तस्याङ्गुलयश्चतुर्दशसहस्राणि चत्वारि शतानि । तत्पञ्चदशभि- र्विभज्य लब्धं नवशतानि षष्टिश्चाङ्गुलयः । तद्द्विगुणा विधायां पुरुषाङ्गुलीषु समस्येत् संयोजयेत् । संयोज्य दृष्टा अङ्गुलयः षोडशसहस्राणि त्रीणि शतानि विंश- तिश्च । ताः प्रमाणवेगोर्विंशतिशताङ्गुलीषु प्रक्षिप्य प्रकृतिवद् इष्टकाकरणमग्निमानञ्च कुर्यादित्यर्थः । एवमर्धदशमविधे अर्धाष्टम्येभ्योऽधिकं द्वाभ्यां द्वाभ्यां पुरुषाभ्यां पुरुषा- ङ्गुलीर्हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषाङ्गुलीषु संयोजयेत् । तत्र पुरुषाङ्गुलय अष्टादशसहस्राणि द्वे शते चत्वारिंशच्च । तस्य मूलं पञ्चत्रिंशच्छता- ङ्गुलस्तिलद्वयाधिकः पुरुषवेणुः । यो यत्राग्नौ पुरुषस्थानीयस्तस्य विंशतिशततमो भागो विहरण इष्टकायासु च अङ्गुलिः कथ्यते । तिलश्च तस्य चतुस्त्रिंशः । तत्र श्लोकः : खाकाशश्रुतिवेदेकाद् द्विगुणैः पुरुषैर्हतात् । हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ इति ॥ ५ ॥ ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनेवैके समाम- नन्ति । अथहैक एकविधप्रभृतीनपक्षपुच्छांश्चिन्वते । तन्नोप- पद्यते पूर्वोत्तरविरोधात् । अथहैकेषां ब्राह्मणं भवति श्येनचिद्- ग्रीनां पूर्वाततिरिति । अथापरेषां न ज्यायांसं चित्वा कनीयांसं चिन्वीत ॥ ६ ॥ नवविधाद्यग्नेस्तिर्यक्प्रमाणवृद्धिमुक्त्वा ऊर्ध्वप्रमाणवृद्धिं दर्शयति— ऊर्ध्वप्रमाणेति । ऊर्ध्वप्रमाणाभ्यासम् अग्नेरूर्ध्वपरिमाणवृद्धिं जानोः पञ्च-

ऽध्यायः ] बौधायनीयं ५३ मभागस्य चतुर्विंशतिभागेनैवैक आचार्याः समामनन्ति वदन्तीत्यर्थः । एवञ्चादौ अनुष्ठीयमानस्याग्नेः वक्ष्यमाणोर्ध्वप्रमाणं जानुपञ्चमांशापेक्षया जानुपञ्चमांशचतुर्विंशतिभागेन तिर्यङ्मानवदुत्तरोत्तरवृद्धिः कर्तव्येत्यर्थः । एक इत्युक्त्या केषाञ्चिदाचार्याणामुक्तोर्ध्वप्रमाणवृद्धिर्नास्तीति गम्यते । केषाञ्चिदाचार्याणां मतं दूषयति—अथैहैके इति । एके आचार्याः । एकविधप्रभृतीनीति । एकविधत्रिविधादीन् । अपक्षपुच्छांश्चिन्वते चेतव्यान् वदन्तीत्यर्थः । तन्नेति । एकविधप्रभृतीनामनुष्ठानं न संभवतीत्यर्थः । ‘पूर्वापरेति । पूर्वापराभ्यां ब्राह्मणाभ्यां विरोधादित्यर्थः । तयोरेकं ब्राह्मणमुदाहरति--अथहैकेषामिति । अथापरं ब्राह्मणमुदाहरति—अथापरेषामिति । अथाभ्यां ब्राह्मणाभ्यां विरोधादेकविधप्रभृतीनामनुष्ठानं न सम्भवतीत्यर्थ इति केचिदाहुस्तदनुपपन्नम् । द्वयोर्विरोध इति वदन् वादी प्रष्टव्यो जायते किमेकविधप्रभृतीनां प्रथमतरामनुष्ठानं न सम्भवति श्येनत्वाभावेन प्रकृतित्वासम्भवात् ? किं वा द्वितीयादिभावेन “न ज्यायांस”मिति श्रुतिविरोधादिति । नाद्यः एकविधप्रभृतीनां श्येनत्वनिषेधाभावात् प्रकृतित्वेन प्रथमतरामनुष्ठानसंभवात् । ननु “नापक्षपुच्छः श्येनो विद्यते” इति (२।८) वक्ष्यमाणत्वाच्छ्येनस्य सपक्षपुच्छताया आवश्यकत्वेन एक- विधप्रभृतीनाञ्च पक्षपुच्छाद्यभावेन श्येनत्वासंभवः । न च एकस्मिन्नेव पुरुषे पक्षपुच्छादिकं संपादनीयमिति वाच्यम् । पुच्छपक्षयोः श्रुत्युपात्तव्याममात्रत्वाद्यनुपपत्तेरिति चेत् । सत्यम् एकविधप्रभृतीनां श्येनत्वाभावेन प्रकृतित्वाभावेऽपि प्रथमतरामनुष्ठानं संभवति । अनेन “अथैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते चतुरश्रानेक आचार्या” इति सूत्रेण ( ? ) एकविधप्रभृतीनामनुष्ठानोपदेशानुपपत्तेः । न च तस्य परमतोपन्यासत्वेन उपपत्तेरिति वाच्यम् । “तस्य करण्या द्वादशेने”ति स्वयं करण्युपदेशानर्थक्यप्रसङ्गात् । किञ्च कल्पसूत्रगतषड्विध- १. अत्र शु. दी. पाठभेदः ।

५४ शुल्वसूत्रम् [ द्वितीयो-

कथनस्य अपक्षपुच्छसमचतुरश्राकारविषयत्वेन उक्तत्वात् । एकविध- प्रभृतीनामनुष्ठाने तदप्यनर्थकं स्यात् । तस्मादेकविधप्रभृतीनां प्रथमतर्- मनुष्ठानं संभवति । नापि द्वितीयः “न ज्यायांस”मिति श्रुतेः सपक्षपुच्छाग्निविषयत्वेनाप्युपपत्तेस्तस्मात् तन्नोपपद्यत इत्येतत् नोपपद्यत इति चेत्— अत्र ब्रूमः स्यादेतदेवं यद्येकविधप्रभृतीनाम् अनुष्ठानं निषिध्यते । किन्तु एकविधस्य प्रकृतित्वमात्रं निराक्रियते । केचिदाहुः—एकविध- सप्तविधयोः प्रकृतित्वमिति । तथाहि एकविधः प्रथमोऽग्निरित्यारभ्या- भ्यासस्यविहितत्वात् सप्तविधप्रभृत्यप्येकशतविधान्तं पृथक्करण्युपदेशात् एकविधस्यापि प्रकृतित्वमिति । तदयुक्तम् । “श्येनचिदग्नीनां पूर्वातति” रिति श्येनचित एव सर्वाग्नीन् प्रति प्रकृतित्वात् एकविधस्य श्येन- त्वाभावेन प्रकृतित्वासंभवात् । ननु सर्वान्यपेक्षया श्येनचित एव प्रकृतित्वे सावित्रादीनामग्नित्वाविशेषात् तान् प्रत्यपि प्रकृतित्वं स्यात् । विषम उपन्यासः । सावित्राग्नौ कृत्स्नाङ्गोपदेशात् श्येनचिदुपदिष्टानां सावित्र- होमोखासंभरणाद्यङ्गानामपेक्षणात् सावित्रादीनां श्येनचित्प्रकृतिकत्व- प्रसक्तिरेव नास्ति । एकविधे तु कृत्स्नाङ्गोपदेशाभावात् श्येनचिदुपदिष्टा- ङ्गानामपेक्षणादेतत्प्रकृतिकत्वं युक्तमेव । यदि करण्युपदेशविधानादेव प्रकृतित्वमुच्यते तदा प्रउगकूर्मादावपि पृथक्करण्युपदेशात्तेषामपि प्रकृतित्वं स्यात् । किञ्च सावित्राग्निवदेव यद्येकविधस्यापि प्रकृतित्वं स्यात् तदा तद्वदेव ज्यायसश्चयनानन्तरं कनीयसोऽप्येकविधस्यानुष्ठानं स्यात् । ननु ज्यायसश्चयनानन्तरं सावित्राग्नेः कनीयसोऽनुष्ठानं नास्ति इति चेन्न । सर्वतोमुखे हि पूर्वमग्निं विधाय इतरस्थलेषु सावित्राग्निविधानेन ज्याय- सश्चयनानन्तरकालकर्तव्यत्वं सावित्राग्नेरवगम्यते । तथा च प्रथमं वा पश्चाद् वा यदा कदाचित्कर्तव्यत्वं सावित्राग्नेरुपपद्यत एव । तथा चोक्तं द्वैधसूत्रे—‘‘अथातः सर्वतोमुखं व्याख्यास्यामश्चिन्वीत सर्वतोमुखोऽग्नि- रिति बोधायनो न चिन्वीतेति शालीकिरत्रोह स्माह मौद्गल्यः—पूर्वं-

ऽध्यायः ] बौधायनीयं ५५ स्मिन्नेवाग्निचय इतरेषु सावित्राः स्यु"रिति । अत एव "अथेमे अग्नि- चया" इत्यस्मिन् सूत्रे सावित्रादीनामनुपदेशात् "न ज्यायांस"मिति निषेध इष्टकाचिताग्निविषय इति ज्ञायते । तस्मात् सप्तविधस्यैव प्रकृति- त्वमिति सिद्धम् । अयमत्र सूत्रार्थः—एके आचार्या एकविधप्रभृतीन्पक्षपुच्छांश्चिन्वते, प्रकृतित्वेन तेषामनुष्ठानं वदन्ति । तन्नोपपद्यते । पूर्वोत्तरविरोधात् । पूर्वशब्दः प्रकृतिपरः । उत्तरशब्दो विकृतिपरः । प्रकृतिविकृतिप्रतिपादिकायाः “श्येनचिदग्नीनामा”दि श्रुतेर्विरोधादेकविधस्य प्रकृतित्वमयुक्तमिति । प्रकृतिविकृतिप्रतिपादकं ब्राह्मणमुदाहरति—अथेहैकेषामिति । केषाञ्चित् शाखिनामित्यर्थः । श्येनचिदग्नीनामिष्टकचितीनां पूर्वा ततिः प्रकृतिरित्यर्थः

५६ शुल्बसूत्रम् [ द्वितीयो- वचनात् पशु-चातुर्मास्यादीनां प्रथमानुष्ठानम्। तस्माद् यत्र सामर्थ्यं वचनं वा नास्ति तत्र प्रकृतेः प्रथमानुष्ठानम्। अथापरेषामिति। ब्राह्मणं भवतीत्येव। अथ शब्दः पूर्ववत्। न ज्यायांसं वृद्धतरं बृहत्तरमग्निं चित्वा कनीयांसमल्पतरं न चिन्वीत ॥ ६ ॥ अथास्माकम्। पक्षी भवति। नह्यपक्षः पतितुमर्हति। अरत्निना पक्षौ द्राघीयांसौ भवतः। तस्मात्पक्षप्रवयांसि वयांसि। व्याममात्रौ पक्षौ च पुच्छञ्च भवतीति ॥ ७ ॥ श्येनचितः सपक्षपुच्छतानियमप्रतिपादकं तैत्तिरीयब्राह्मणमुदाह- रति—अथास्माकमिति। पक्षी भवति अग्निरयं पक्षी पक्षवान् भवती- त्यर्थः। विहितं सपक्षत्वं हेतुमुखेन स्तौति—नह्यपक्ष इति। पतितुम् उत्पतितुं नार्हति न शक्नोतीत्यर्थः। अत एव "वयसां वा एष प्रतिमया चीयत" इत्यत्र उत्पततां छाययेत्यर्थ इति व्याख्यातमाचार्यैः। पक्षयोर्दैर्घ्यं विदधाति—अरत्निनेति। अरत्निना द्राघीयांसौ दीर्घतरौ वक्ष्यमाणप्रमाणौ पक्षौ भवतीत्यर्थः। पक्षयोर्द्राघीयस्तां स्तौति—तस्मादिति। पक्षयोः प्रवयांसि प्रभूतानि अधिकानि वयांसि पक्षिणः इत्यर्थः। पक्षपुच्छपरि- माणं दर्शयति—व्याममात्राविति। व्याममात्रौ पुरुषमात्रौ पक्षौ भवतः। पुच्छञ्च व्याममात्रमिति उभयत्रापि विपरिणामः ॥ ७ ॥ अथेति। ब्राह्मणं भवतीत्येव। अस्माकञ्चास्यां शाखायामित्यर्थः। पक्षीति। पक्षीत्युपलक्षणत्वात् पक्षवान् पुच्छवान्। तद्रहितः पतितुं नार्हति। तस्मादरत्निनां पक्षौ दीर्घतरौ भवतः। यस्मादेवं तस्मात् पक्षाभ्यां वृद्धतराणि। व्याम- मात्रौ पञ्चारत्निमात्रौ पक्षौ च पुच्छञ्च भवति। एवं विरोधप्रतिपादनार्थं ब्राह्मणवाक्यान्युदाहृत्य आद्योत्तरं भङ्ग्या एकविधा- दीनामनुष्ठानं प्रकृतिभूतस्य सप्तविधश्येनचित एव प्रथमानुष्ठानञ्च उदाहरति ॥ ७ ॥ नापक्षपुच्छः श्येनो विद्यते। न चासप्तविधस्य पक्षपुच्छानि विद्यन्ते। न च सप्तविधं चित्त्वैकविधप्रसङ्गः। तस्मात् सप्तविध एव प्रथमोऽग्निः ॥ ८ ॥ श्येनस्य सपक्षपुच्छत्वं नियम इत्याह—नापक्षेति। सपक्षपुच्छ एव श्येनः, नान्य इत्यर्थः। सप्तविधादर्वाचीनस्यैकविधादेः सपक्षपुच्छतां निरा-

ऽध्यायः ] बौधायनीयं ५७ करोति--न चेति। आसप्तविधस्य एकविधादेः पक्षपुच्छानि न विद्यन्ते। एकविधादीनां सपक्षपुच्छतया अनुष्ठानं नास्तीत्यर्थः। ननु आसप्तविध- स्येत्युक्तेरष्टविधादीनां सपक्षपुच्छतानिषेधः किं न स्यादिति चेन्न। द्विती- यादिभावेनानुष्ठेयानां श्येन-कङ्काकारतया कर्त्तव्यत्वावगमात् तेषामपि सपक्षपुच्छताया आवश्यकत्वात् निषेधस्य च एकविधादिविषयत्वोपपत्तेः। अन्यथा कङ्कादीनां न कदाप्यनुष्ठानं स्यात्। विस्पष्टञ्च आसप्तविधग्रहणस्य एकविधादिमात्रविषयत्वम्। एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति सप्तविधवाक्यशेषत्वात् श्रुतिविप्रतिषेधाच्चेत्यापस्तम्बाचार्यवचनादव- सीयते। न चेति। सप्तविधचयनानन्तरमेकविधादेरनुष्ठानं नास्ति। “न ज्यायांस”मिति श्रुतिविरोधादिति भावः। एकविधादीनां प्रथम- प्रयोगस्तु निषेधश्रुतिविरोधाभावात्। “समचतुरश्रानेक आचार्यास्तस्य करण्या द्वादशेनेष्टकाः कारयेत्, तासामर्थ्याः पाद्याश्चे”त्युपदेशाच्चोपपद्यते। इयता प्रबन्धेन उपपादितमर्थमुपसंहरति--तस्मादिति। सप्तविध एव प्रथमोऽग्निः। प्रथमं प्रयोक्तव्य इत्यर्थः। यथा “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम” इत्यत्राग्निष्टोमस्य प्राथम्येऽपि उपदेशबलात् प्रथमानुष्ठानम्। एवं सप्तविधस्य प्राथम्येऽपि उपदेशबलात् प्रथमानुष्ठानं संभवतीति द्रष्टव्यम् ॥ ८ ॥ नापक्षपुच्छ इति। पक्षपुच्छरहितस्य श्येनचितोऽभावात्, पक्षपुच्छानां सप्त- विधवाक्यशेषत्वादेकविधादीनां सपक्षपुच्छत्वे व्याममात्रौ पक्षौ च पुच्छञ्च भवती- त्यनेनैकविधादिश्रुतिविरोधात्, सप्तविधं चित्त्वा एकविधचयने न ज्यायांसं चित्त्वा कनीयांसं चिन्वीतेति प्रतिषेधेन प्रसङ्गाभावात् सर्वप्रकृतिभूतः सप्तविधश्येनोऽग्निरेव पूर्वं चेतव्यः। एवं विरोधादेकविधादीनां निवृत्तिरेवापतिता। कल्पे षड्विधः सप्त- विध इत्यादिना षड्विधानामपि प्रकृतित्वमुक्तम्। तत्रापि पक्षपुच्छरहित एव षड्- विधोऽग्निः पूर्वोक्तहेतुनोपन्यासात् ॥ ८॥ भेदान् वर्जयेत् । अधरोत्तरयोः पार्श्वसन्धानं भेदा इत्युप- दिशन्ति । तदन्त्यन्तेषु न विद्यन्ते । न शक्तिपार्श्वयोः ॥ ९ ॥ अथाग्निधर्मानाह--भेदानिति। भेदशब्दार्थं स्वयमेवाह--अधरो- ८

५८ शुल्बसूत्रम् [ द्वितीयो- त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान् वर्जयेदित्येतत् असिपर्यन्तेषु न विद्यते । तत्रावर्जनीयत्वाद् भेदस्य । तथा—नेति । साररथचक्रचयने नाभिमध्ये सक्तीनां सङ्गमे पार्श्वे च, भेदान् वर्जयेदित्येतत् न विद्यते । तत्राप्यवर्जनीयत्वाद् भेदानामिति भावः ॥ ९ ॥ अथ अग्निधर्मानाह—भेदानिति । भेदस्वरूपं स्वयमेवाह—अधरोत्तरयोरिति । किं सर्वत्र ? नेत्याह—तदग्न्यन्तेष्विति । अग्न्यन्तेषु अग्निपर्यन्तेषु । अन्तस्यावर्जनीय- त्वादिति भावः । नेति । सक्तिपार्श्वयोः । साररथचक्रचयने नाभिमध्ये सक्तीनामेव- सङ्गमः । तयोर्वर्जनीयत्वादिति भावः ॥ ९ ॥ साहस्रं चिन्वीत प्रथमं चिन्वान इति । पञ्चमायां वा चितौ [L12

Here is the accurate Devanagari transcription of the page, line by line:

ऽध्यायः ] बौधायनीयं ५६ तावतीरिष्टका उपधाय शेषा इष्टका इष्टकामन्त्रयोरिष्टका व्यतिरेक इति न्यायेन द्वैधो- क्तमार्गेण गणावृत्त्या वा उपधेयाः । पञ्चमायां चितौ मन्त्राणां भूयस्त्वान्मन्त्र व्यतिरेक अक्ताः शर्करा इति न्यायेनोपधानम् । पञ्चमायामिति । एवं वा तत्र मन्त्राणामपर्याप्तत्वाद् यावत् सिद्धैर्मन्त्रैः पञ्च- लोकंपृणाभिश्चोपधाय शेषाः पञ्चमायां चितावुपदध्यात् । तत्रापीष्टकाव्यतिरेके लोकं- पृणाभिर्गणावृत्तिभिर्वा उपधानं कर्त्तव्यम् । तत्र पञ्चमीव्यतिरिक्तासु पञ्चभिर्लोकं- पृणाभिर्यावत्य इष्टकाः सम्भवन्ति तावतीर्गणयित्वा भेदपरिहारेण अग्निक्षेत्रपरिमित- मिष्टकाः कार्याः । पञ्चमायां चितौ पूर्वांसु चितिषु उपहितशिष्टानां भेदपरिहारेण कल्पनम् । आचार्येण अस्मिन् पक्षे करणानुपदेशाद् आपस्तम्बादिभिरनुक्तत्वाच्च पूर्वैर्व्याख्यातृभिर्दिङ्मात्रमुक्तम् । द्विशतामिति । समष्ट्यभिप्रायेण नपुंसकत्वम् । द्विशतप्रस्तारपक्षेऽयं विशेषः । पञ्चचोडा अयं पुरो हरिकेश इत्युपुर्युपधेया अर्धोच्छ्राया इष्टकाः ! राज्ञ्यसीति पञ्च नाकसदस्तावदुच्छ्रायास्तासामधस्तादुपधेयाः । ता दश भवन्ति । द्विशतपूरणार्थ- मिष्टकागणनायां पञ्चेति विद्यात् । पञ्चमायां वा चितावित्यस्मिन् पक्षे भेदेन गणयेदित्यर्थः । समानसंख्यं द्वे द्वे एकीकृत्य गणयेत् ॥ १० ॥ पशुधर्मो ह वा अग्नैर्यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद् दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषो- मुत्तरं यदर्वाक्चोध्वंञ्च तत्समानम् । एवमिष्टकानां रूपाण्यु- पदध्यात् ॥ ११ ॥ अग्निः पशुसमानाकारस्तदेवाह--पश्विति । यथा पशोः प्राङ्मुखस्य सतः । दक्षिणेषामिति । दक्षिणपार्श्वस्थानामस्थ्नां यद्दक्षिणमग्रं तदुत्तरे- षामुत्तराग्रमिति यावत् । तत्तादृशमित्यर्थः । उत्तरपार्श्वस्थानां वाम- पार्श्वस्थानामस्थ्नां यदुत्तरमग्रं तद्दक्षिणपार्श्वस्थाग्रसदृशमित्यर्थः । यदुत्त- रेषां दक्षिणं मूलं तत्तुल्यं दक्षिणेषामुत्तरं मूलमित्यर्थः । यदवाक् अधः प्रदेशः पश्चाद्भागः, ऊर्ध्वं पूर्वप्रदेशः, तदुभयं सदृशमित्यर्थः । तथैवाग्निः कर्तव्य इति यावत् । एवमिति । इष्टकानां रूपमेवमा- पाद्योपदध्यात् । पश्चात् स्थित्यायनेन तुल्यन्यायापत्या (१) पार्श्वद्वये प्राक् प्रत्यक् चोपद्ध्यादित्यर्थः ॥ ११ ॥

६० शुल्बसूत्रम् [ द्वितीयो- दक्षिणोत्तरपार्श्वयोरिष्टकानां समानरूपप्रतिपादनार्थं ब्राह्मणान्तरमाह— पश्विति । तत्समानमिति । तत् सदृशम् । अस्थ्याभिप्रायेण नपुंसकत्वं । यदवाक् पश्चाद् भागः । ऊर्ध्वञ्च पूर्वभागः । तत् समानम् तदुभयं सदृशं भवति । एवमिष्टकानां रूपाण्युपदध्यात् एवमिष्टकाः कुर्यादित्युक्तं ब्राह्मणे । तस्यार्थमाह या दक्षिणावृतो लेखा ( २।१२ सू० ) इत्यादिना । तथा चापस्तम्बः—सर्वान् वर्णान् इष्टकानां कुर्यादिति लेखाधिकारो भवतीति । आचार्येण लेखाधिकारस्य पशुत्वेनोक्तत्वात् सर्वान् वर्णान् इष्टकानां कुर्यादिति पशुधर्मत्वमुक्तं वेदितव्यम् ॥ ११ ॥ या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति । त्र्यालिखिता मध्ये ॥ १२ ॥ ब्राह्मणे सर्वान् वर्णानिष्टकानां कुर्यादित्युक्तं तस्यार्थमाह—या दक्षिणेति । इष्टकास्तु या ( इष्ट ) दक्षिणमावर्तते सव्यमारभ्य दक्षिणं प्रति चक्ररूपेणावर्तते लेखा इति तद्वत्य इष्टकाः लक्ष्यन्ते । दक्षिणावृत- लेखायुक्ता इष्टका दक्षिणत उपदध्यादिति यावत् । एवं दक्षिणमारभ्य सव्यमावर्तन्ते या लेखास्तद्युक्ता इष्टका उत्तरत उपदध्यात् । या इष्टका ऋजुलेखायुक्तास्ताः पश्चात् पुरस्ताच्च । एते च यथा भवति तथोपद्ध्या- दित्यर्थः । तिस्र आभिमुख्येन लिखितास्त्र्यालिखिताः, तादृशलेखायुक्ता मध्ये अग्निमंध्ये उपदध्यात् । यद्यपीष्टकाकरणे एवं गुणा इष्टकाः कर्तव्या इति नोक्तम् तथापि लोके प्रायेण इष्टकाकारिणां परिमार्जनवशादेव रेखाः सम्भवन्ति । तासामुपधाने स्थानविशेषनियम उक्तः । एवञ्च रेखासम्भ- वस्य प्रायिकत्वात् कल्पसूत्रेऽनुक्तत्वाच्च लेखाधिकारोऽयं वैकल्पिक इति द्रष्टव्यम् ॥ १२ ॥ या दक्षिणेति । सव्यपार्श्वादारभ्य दक्षिणपार्श्वं प्रति चक्ररूपेणावृता दक्षिण- वृल्लेखा । सव्यहस्तेन परिमृष्टेति यावत् । सव्येति । तद्विपरीताः सव्यावृतः । लेखा- नामुपधानासम्भवात् तद्वत्य इष्टका लक्ष्यन्ते । दक्षिणत उपदध्यात् दक्षिणपार्श्व उपदध्यात् । एवमुत्तरतः । ऋज्विति ! ऋजुलेखा अकुटिललेखा अग्नेः पश्चाद् भागे पूर्वभागे च । त्र्यालिखितेति । मध्ये तिस्र आभिमुख्येन या लिखिता लेखास्ताः त्र्यालिखिताः । ता अग्नेर्मध्य उपदध्यात् । एवंगुणा इष्टकाः कार्या इत्यनुक्त्वा

या दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा- करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू- पदध्यात् ॥ १२ ॥ अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन् पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं तासामुपधानं प्रतीयात् ॥ १३ ॥ अथेति । अथ शब्दो लेखाधिकारव्यवच्छेदार्थः । लेखाधिकारो निवृत्त इत्यर्थः । या इष्टका विषयस्य मध्यस्थितास्तासामुपधानमेवं प्रतीयादि- त्युत्तरेणान्वयः । यथा पशोः पृष्ठवंश इति शेषः । शालामध्यवंश इव पुच्छादारभ्य मुखपर्यन्तं मध्य एव वर्तते । न त्वन्यतरपार्श्वे । एवकार- द्वयेन मध्य एव वर्तते, पार्श्वभूतो न वर्तत इति दृढीकृतम् । एवं पृष्ठ- वंशरीत्या तासां मध्यस्थेष्टकानामुपधानं जानीयादित्यर्थः । एवञ्च “सर्वान् वर्णान् इष्टकानां कुर्या”दिति वेदवाक्यस्य सर्वाणि रूपाणि ( इत्यस्य ? ) मध्यास्थिसदृशयः काश्चिदिष्टकाः, पार्श्वास्थिसदृशयः काश्चित् कर्त्तव्येत्यग्नेः पशुधर्मत्वकथनपरत्वेन व्याख्यानमाचार्यैः कृतं वेदितव्यम् ॥ १३ ॥ अथेति । अथ शब्दः पूर्वस्माद् व्यवच्छेदार्थः । व्यवच्छेदश्च लेखाधिकारो नास्तीति । विशयस्था मध्यस्थाः । यस्मादारभ्य पक्षपुच्छस्था इष्टका विविधं शेरते इति विशयाः । पुच्छादारभ्यान्तान्मध्यरेखायां या इष्टका उपधेयास्ता विशयस्था इत्यर्थः । यथा ह वै पशोः पृष्ठवंशः शालाया मध्यवंश इव । जाघनीप्रभृति आमु- खादेकस्मिन् पार्श्वे व्यतिरेकेण उदग्दक्षिणादिपार्श्वभूतो नैव वर्त्तते । उभाभ्यामेव- काराभ्यां कदाचिदपि न वर्त्तत इति सूचयति । एवमिति । तथेत्यर्थः । तासामुपधानं मध्यदेशवर्त्ति-अस्थितुल्यतामापाद्योक्तं भवति । पुच्छापरान्तमध्यादारभ्य आशि- रोऽग्रमध्यादुन्नीयते । अग्नेः पशुधर्मविधानार्थं ब्राह्मणान्तरमुक्तम् । तदुदाहृतम् । तत्र अस्थिसाहश्यमुक्तम् ॥ १३ ॥ अथापि ब्राह्मणं भवति प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङा- थर्वणस्तस्यैष्टका अस्थानीतीति ॥ १४ ॥

५२ शुल्बसूत्रम् [द्वितीयो- इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण- मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् । तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं भवति ॥ १४ ॥ स्वशाखायामप्येष्टकानां अस्थिसादृश्यमात्रवचनमस्तीत्याह—अथापीति । अथ शब्दोऽस्माकमिति द्योतनार्थः । अपि शब्दः समुच्चय एव । न परकीयमेव अस्म- दीयमप्यस्तोत्यर्थः । किं तत् ? अथर्वा नाम प्रजापतिरग्निरेव मान्य अथर्वणः पुत्रो दध्यङ् । तस्य दधीच अस्थानी अस्थीनि इष्टका इति ब्राह्मणस्यार्थः । तस्मात् सादृश्यवाक्योपन्याससामर्थ्याद् विधिं प्रकल्प्य इष्टकानामस्थिसादृश्यमापाद्योपद्- ध्यादिति शेषः ॥ १४ ॥ बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यान्तसं- दध्यात् । प्राञ्चमेनं चिनुत इति विज्ञायते ॥ १५ ॥ अग्निचयने नियमस्तावदाह—बहिस्तन्वमिति । तन्वशब्दोऽङ्ग- परः । अग्नयो हि द्विविधाः अन्तस्तन्वोबहिस्तन्वश्चेति । बहिस्तन्वाः श्येनकङ्कालजद्रोणकूर्मादयः । बहिर्भूतान्यङ्गानि यस्य सः बहि- स्तन्वः । तादृशमग्नि यदि चिनुयात्तदा तन्वोपप्लवमध्यैः तन्वानां शिरःपक्षप्रभृतीनां मध्यैरात्ममध्यान् संयोजयेत् । शिरसः पश्चि- मान्तमध्यैरात्मप्राच्यान्तमध्यो योजयेत् । एवं पक्षपुच्छादिष्वपि । इदञ्चाकृतिवचनात् सिद्धम् । एकस्यां दिशि कतमदङ्गं संदध्या- दित्यत आह—प्राञ्चमेनमिति । प्राङ्मुखं प्राक्शिरसमेन मग्निं चिनुते । एवञ्च इदमङ्गं अत्र संदध्यात् । अविज्ञातमुखादीनां प्रउगादीनां मुखादि- परिज्ञानार्थमिदमुक्तम् ॥ १५ ॥ तन्वशब्दोऽङ्गपर्यायः । अङ्गानि चात्र शिरःपक्ष-पुच्छ-पाद त्सर्वोष्ठानि श्येन- कङ्कालजद्रोणकूर्मादीनां बहिर्भूतान्यङ्गानि । ( त्सरुश्चतुरस्र द्रोणे, पादाः कङ्क- कूर्मयोः, परिमण्डलद्रोणे कूर्मे च ओष्ठ इति टिप्पण्याम् ) । रथचक्रश्मशानादीना- मन्तर्भूतानि ।