बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 80, कुल 366 में से
संदर्भ में पढ़ें५० शुल्बसूत्रम् [ द्वितीया- प्रकृतावभावेन चोदकाप्राप्तेरिति चेन्न । अग्नेरना (र ?) भ्याधीतेति चेन्न । अग्नेरना ( र ? ) भ्याधीतत्वेन प्रकृतिगामित्वाद् यत्तावदुक्तं प्रकृतेः प्राकरणिकोत्तरवेद्यविरोधादग्नेः साप्तदश्यन्यायेन विकृतिगामित्वमिति तन्न । साप्तदश्ये हि ऋतुसंबन्धस्य वाचनिकत्वाभावेन क्रत्वव्यभि- चरतः सामिधेनीलिङ्गवशेन कल्पतया युक्तं तत्र विकृतिगामित्वम् । इह त्वग्नेरग्निष्टोमसंबन्धस्य वाचनिकत्वेन प्रकृतिसंबन्धस्यैवोचितत्वादुत्तरवेदेः पाक्षिकत्वेनापि प्रकरणोपपत्त्यानर्थक्याभावेनाग्निष्टोमश्रुतिबाधायोगात् । अग्निष्टोमशब्दैक्योपदेशिकाग्निष्टोमस्तोत्रसंस्थाकप्रकृतावेव मुख्यतया विकृतौ गौणत्वात्तस्मादस्ति प्रकृतावुत्तरवेद्या विकल्पतोऽग्निरतिदेशेनैवो- क्थ्यादिषु अग्निप्राप्त्या “तमुक्थ्येने”त्यादि पुनर्वचनमनर्थकं स्यात् । न च तेष्वग्निनियमार्थं पुनर्वचनमिति वाच्यम् । “तमुक्थ्येने”ति वाक्यस्यानारभ्या- धीताग्निप्रकरणगतस्य तत्तत्प्रकरणव्यवस्थितचोदकगणा(?)यावत्पाक्षिकप्रा- प्तिसापेखनियमपरत्वायोगादिति चेन्न । आष्टमिकन्यायेन विकृतिषु गुणका- माप्राप्तौ तत्प्राप्त्यर्थत्वेन पुनर्वचनोपपत्तेः । “श्येनचितं चिन्वीत स्वर्गकामं” इत्यादिगुणफलानामग्निप्रकरणगत (त्वे ?) न तत्प्राप्तिफलत्वकल्पनौचित्यात् । तस्मात्साद्यस्त्तु सारस्वतसत्रादावश्यकतयाऽग्नेरनुष्ठानेऽपि दार्शिकन्यायेन षोडशीवाजपेयादिषु चोदकप्राप्त्या सर्वक्रतुविकल्प एवाग्नेरिति भावः । नन्वेवमुक्तन्यायेनाश्वमेधेऽप्यग्न्युत्तरवेद्योर्विकल्पः स्यादित्याशङ्क्य एक- विंशोऽग्निर्भवती”ति श्रुत्या तत्राग्निर्नित्य एवेत्याह—अन्यत्रेति ॥ ३ ॥ अनग्निकानि।त । अत ऊर्ध्वमित्येव । किं सर्वत्र । नेत्याह । अन्यत्रेति ॥ ३ ॥ अश्वमेधमप्राप्तञ्चेदाहरेदत ऊर्ध्वं विधामभ्यस्येन्नेतरदाद्रियेत । अतीतञ्चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत ॥ ४ ॥ नन्वत्र सूत्रे एकविंशतिविधः विंशतिविधानन्तरं कर्तव्य इति प्रतीयते, श्रुतौ चाश्वमेधस्य एकविंशतिविध एव नियतश्रुतः । तथा च श्रुतिस्मृ- त्योरनुग्रहाय विंशतिविधाग्निचयनानन्तरमेवाश्वमेधे कर्तव्यता प्राप्नो- तीत्यत आह—अश्वमेधमिति । विंशतिविधानिवन्धनात् प्रागपि प्रायश्चि-