बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 79, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बोधायनीयं ४९ सर्वेषु सप्तविधप्रभृतिष्वेकशतान्तेषु अविशिष्ट इति एकशतान्त निर्देश उपपन्न इति भावः ॥ १ ॥ अर्धाष्टमेति । सामान्यपरिभाषानन्तरमग्निधर्माः । अर्धपुरुषोऽष्टमो येषां ते अर्धाष्टमपुरुषाः । पुरुषशब्देन पञ्चारत्निना विंशत्यधिकशताङ्गुलेन वेणुना परि- मितं क्षेत्रमुच्यते । तत्र चतुर्दशसहस्राणि चत्वारिशतान्यङ्गुलयः पुरुषे सन्ति । एतत् पुरुषक्षेत्रं पञ्चदशभिर्हत्वा अर्धीकृत्य लक्षमष्टौसहस्राणाञ्चाङ्गुलयो अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । प्रथमाहारे कर्त्तव्योऽग्निः । प्रथमे प्रयोग अर्धाष्टमपुरुषपरिमितक्षेत्रोऽग्निः कर्त्तव्य इति । एवमुत्तरत्रापि । अर्धनवमा इति । द्वितीय आहारे कर्त्तव्योऽग्निः । अर्धदशमा इति । पूर्वेण व्याख्यातम् । एवमिति । विधीयत इति विधा पुरुषप्रमाण- क्षेत्रम् । चतुर्थाहारप्रभृत्येवं पुरुषाभ्यास एकशतविधपर्यन्तम् । तदेतदिति । उक्तमग्नि- रूपं सप्तविधप्रभृत्येकशतविधान्तम् । न पूर्वत्र नोत्तरत्रेत्यर्थः । अथवा उत्तरपक्षार्थो- ऽयमनुवादः ॥ १ ॥ अत ऊर्ध्वमेकशतविधानेव प्रत्याददीत ॥ २ ॥ ननु एकशतविधाभ्यासानन्तरं कर्तव्ये क्रतावग्निरैव न प्राप्नोति । स हि न तावत् सप्तविधादिः । “न ज्यायांस”मिति श्रुतिविरोधात् । नाप्येकशतानन्तरविधाभ्याससहितः प्रमाणाभावादित्यत आह—अत ऊर्ध्वमिति । एवकार अप्यर्थे । एकशतविधाभ्यासानन्तरमपि एकशत- विधान् कुर्यादित्यर्थः ॥ २ ॥ अत ऊर्ध्वमिति । चिनुयादित्यर्थः ॥ २ ॥ अनग्निकान् वा यज्ञक्रतूनाहरेत् । अन्यत्राश्वमेधात् । एकविंशो ऽग्निर्भवतीत्यश्वमेधस्याग्निना नित्यं संयोगात् ॥ ३ ॥ इयता प्रबन्धेनाग्नेः परिमाणमुक्त्वाग्नेः सर्वक्रतुषु विकल्पमाह— अनग्निकानिति । नन्वयं विकल्प एवानुपपन्नः । तथाहि न तावत् प्रकृतौ ज्योतिष्टोमेनारभ्याधीतोऽग्नि निवेष्टुमिष्टे, तस्य प्राकरणिकोत्तरवेद्यविरो- धात् । न च “अथातोऽग्निमग्निष्टोमेनानुयजन्ती”ति वाक्येन वा अग्नेरप्य- ग्निष्टोमसंबन्धोऽस्तीति वाच्यम् । “आनर्थक्यप्रतिहतानां विपरीतं बलाबल”मिति न्यायेन प्रकरणं बलीयस्तया साप्तदश्यन्यायेनाग्नेर्विकृति- गामित्वे अग्निष्टोमपदस्य विकृत्यग्निष्टोमपरत्वान्नापि विकृतिषु सर्वत्र ७ Nepal Sanskrit University, Balmeeki Campus, Kathmandu