बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
ऽध्यायः ] बोधायनीयं ४९ सर्वेषु सप्तविधप्रभृतिष्वेकशतान्तेषु अविशिष्ट इति एकशतान्त निर्देश उपपन्न इति भावः ॥ १ ॥ अर्धाष्टमेति । सामान्यपरिभाषानन्तरमग्निधर्माः । अर्धपुरुषोऽष्टमो येषां ते अर्धाष्टमपुरुषाः । पुरुषशब्देन पञ्चारत्निना विंशत्यधिकशताङ्गुलेन वेणुना परि- मितं क्षेत्रमुच्यते । तत्र चतुर्दशसहस्राणि चत्वारिशतान्यङ्गुलयः पुरुषे सन्ति । एतत् पुरुषक्षेत्रं पञ्चदशभिर्हत्वा अर्धीकृत्य लक्षमष्टौसहस्राणाञ्चाङ्गुलयो अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । प्रथमाहारे कर्त्तव्योऽग्निः । प्रथमे प्रयोग अर्धाष्टमपुरुषपरिमितक्षेत्रोऽग्निः कर्त्तव्य इति । एवमुत्तरत्रापि । अर्धनवमा इति । द्वितीय आहारे कर्त्तव्योऽग्निः । अर्धदशमा इति । पूर्वेण व्याख्यातम् । एवमिति । विधीयत इति विधा पुरुषप्रमाण- क्षेत्रम् । चतुर्थाहारप्रभृत्येवं पुरुषाभ्यास एकशतविधपर्यन्तम् । तदेतदिति । उक्तमग्नि- रूपं सप्तविधप्रभृत्येकशतविधान्तम् । न पूर्वत्र नोत्तरत्रेत्यर्थः । अथवा उत्तरपक्षार्थो- ऽयमनुवादः ॥ १ ॥ अत ऊर्ध्वमेकशतविधानेव प्रत्याददीत ॥ २ ॥ ननु एकशतविधाभ्यासानन्तरं कर्तव्ये क्रतावग्निरैव न प्राप्नोति । स हि न तावत् सप्तविधादिः । “न ज्यायांस”मिति श्रुतिविरोधात् । नाप्येकशतानन्तरविधाभ्याससहितः प्रमाणाभावादित्यत आह—अत ऊर्ध्वमिति । एवकार अप्यर्थे । एकशतविधाभ्यासानन्तरमपि एकशत- विधान् कुर्यादित्यर्थः ॥ २ ॥ अत ऊर्ध्वमिति । चिनुयादित्यर्थः ॥ २ ॥ अनग्निकान् वा यज्ञक्रतूनाहरेत् । अन्यत्राश्वमेधात् । एकविंशो ऽग्निर्भवतीत्यश्वमेधस्याग्निना नित्यं संयोगात् ॥ ३ ॥ इयता प्रबन्धेनाग्नेः परिमाणमुक्त्वाग्नेः सर्वक्रतुषु विकल्पमाह— अनग्निकानिति । नन्वयं विकल्प एवानुपपन्नः । तथाहि न तावत् प्रकृतौ ज्योतिष्टोमेनारभ्याधीतोऽग्नि निवेष्टुमिष्टे, तस्य प्राकरणिकोत्तरवेद्यविरो- धात् । न च “अथातोऽग्निमग्निष्टोमेनानुयजन्ती”ति वाक्येन वा अग्नेरप्य- ग्निष्टोमसंबन्धोऽस्तीति वाच्यम् । “आनर्थक्यप्रतिहतानां विपरीतं बलाबल”मिति न्यायेन प्रकरणं बलीयस्तया साप्तदश्यन्यायेनाग्नेर्विकृति- गामित्वे अग्निष्टोमपदस्य विकृत्यग्निष्टोमपरत्वान्नापि विकृतिषु सर्वत्र ७ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
५० शुल्बसूत्रम् [ द्वितीया- प्रकृतावभावेन चोदकाप्राप्तेरिति चेन्न । अग्नेरना (र ?) भ्याधीतेति चेन्न । अग्नेरना ( र ? ) भ्याधीतत्वेन प्रकृतिगामित्वाद् यत्तावदुक्तं प्रकृतेः प्राकरणिकोत्तरवेद्यविरोधादग्नेः साप्तदश्यन्यायेन विकृतिगामित्वमिति तन्न । साप्तदश्ये हि ऋतुसंबन्धस्य वाचनिकत्वाभावेन क्रत्वव्यभि- चरतः सामिधेनीलिङ्गवशेन कल्पतया युक्तं तत्र विकृतिगामित्वम् । इह त्वग्नेरग्निष्टोमसंबन्धस्य वाचनिकत्वेन प्रकृतिसंबन्धस्यैवोचितत्वादुत्तरवेदेः पाक्षिकत्वेनापि प्रकरणोपपत्त्यानर्थक्याभावेनाग्निष्टोमश्रुतिबाधायोगात् । अग्निष्टोमशब्दैक्योपदेशिकाग्निष्टोमस्तोत्रसंस्थाकप्रकृतावेव मुख्यतया विकृतौ गौणत्वात्तस्मादस्ति प्रकृतावुत्तरवेद्या विकल्पतोऽग्निरतिदेशेनैवो- क्थ्यादिषु अग्निप्राप्त्या “तमुक्थ्येने”त्यादि पुनर्वचनमनर्थकं स्यात् । न च तेष्वग्निनियमार्थं पुनर्वचनमिति वाच्यम् । “तमुक्थ्येने”ति वाक्यस्यानारभ्या- धीताग्निप्रकरणगतस्य तत्तत्प्रकरणव्यवस्थितचोदकगणा(?)यावत्पाक्षिकप्रा- प्तिसापेखनियमपरत्वायोगादिति चेन्न । आष्टमिकन्यायेन विकृतिषु गुणका- माप्राप्तौ तत्प्राप्त्यर्थत्वेन पुनर्वचनोपपत्तेः । “श्येनचितं चिन्वीत स्वर्गकामं” इत्यादिगुणफलानामग्निप्रकरणगत (त्वे ?) न तत्प्राप्तिफलत्वकल्पनौचित्यात् । तस्मात्साद्यस्त्तु सारस्वतसत्रादावश्यकतयाऽग्नेरनुष्ठानेऽपि दार्शिकन्यायेन षोडशीवाजपेयादिषु चोदकप्राप्त्या सर्वक्रतुविकल्प एवाग्नेरिति भावः । नन्वेवमुक्तन्यायेनाश्वमेधेऽप्यग्न्युत्तरवेद्योर्विकल्पः स्यादित्याशङ्क्य एक- विंशोऽग्निर्भवती”ति श्रुत्या तत्राग्निर्नित्य एवेत्याह—अन्यत्रेति ॥ ३ ॥ अनग्निकानि।त । अत ऊर्ध्वमित्येव । किं सर्वत्र । नेत्याह । अन्यत्रेति ॥ ३ ॥ अश्वमेधमप्राप्तञ्चेदाहरेदत ऊर्ध्वं विधामभ्यस्येन्नेतरदाद्रियेत । अतीतञ्चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत ॥ ४ ॥ नन्वत्र सूत्रे एकविंशतिविधः विंशतिविधानन्तरं कर्तव्य इति प्रतीयते, श्रुतौ चाश्वमेधस्य एकविंशतिविध एव नियतश्रुतः । तथा च श्रुतिस्मृ- त्योरनुग्रहाय विंशतिविधाग्निचयनानन्तरमेवाश्वमेधे कर्तव्यता प्राप्नो- तीत्यत आह—अश्वमेधमिति । विंशतिविधानिवन्धनात् प्रागपि प्रायश्चि-
तद्रूपोऽन्यो वा यद्यश्वमेधः प्राप्तस्तदा एकविंशतिविधाग्निसहितमश्वमेधमनु- तिष्ठेदित्यर्थः । नन्वेवं कथं श्रुतिस्मृत्योरनुग्रह इति चेन्न कथञ्चित् । तथाहि “औदुम्बरीं स्पृष्ट्वोद्गायेत्” “औदुम्बरी सर्वा वेष्टितव्ये”त्युदाहृत्य यस्याविरुद्धार्थत्वेऽपि व्रीहियवबृहद्रथन्तरग्रहणाग्रहणादिवद्विकल्पेन संभवति प्रत्यक्षश्रुतिविरोधेन स्मृतिमूलभूतश्रुत्यनुमानसम्भवादिति व्यवस्थापितम् । नन्वेवं सति अश्वमेधानन्तरमनुष्ठीयमाने क्रतौ एकविंशत्यपेक्षया न्यूनविध एवाग्निः प्राप्नोति । तथा च “'न ज्यायांस” मिति श्रुतिविरोध इत्यत आह—अत ऊर्ध्वमिति । एकविंशतिविधाभ्यासानन्तरं द्वाविंशति- प्रभृतिरेवानुष्ठेयः । नतु न्यूनविधः येनोक्तविरोधः स्यादित्यर्थः । नन्विदमत्यन्तानुपपन्नं द्वाविंशतिविधाद्यनुष्ठानानन्तरम् उक्तविरोधेन एकविंशतिविधानुष्ठानासम्भवादित्यत आह । अतीतञ्चेदिति । एकविंश- तिविधोऽतीतश्चेदपि तमेवाहरेद् उक्तश्रुतिबलादित्यर्थः । इयांस्तु विशेषः । अत्र “न ज्यायांस” मिति श्रुतिविरोधाभावेन द्वाविंशादिषु यदनन्तर- माश्वमेधिकोऽग्निरनुष्ठितस्तदनन्तरं तदूर्ध्वविधप्रभृतिरेवानुष्ठेय इति तदेत- दाह—आहृत्यैति । आहृत्य एकविंशतिविधमनुष्ठाय कृतनिर्मुक्तादूर्ध्वविध- मेव पुनः प्रत्याददीत कुर्यादित्यर्थः ॥ ४ ॥ अश्वमेधमिति । अश्वमेध अप्राप्तश्चेद् विंशतिविधानग्नीनचित्वा अश्वमेधञ्चे- दाहरेत् स ततः परमग्निं चिन्वानो द्वाविंशत्यादिविधमेव चिन्वीत नतु पूर्वविधान् । न ज्यायांसं चित्वा कनीयासं चिन्वीतेति । अतीतमिति । अतीतञ्चेदेकविंशतिविधादूर्ध्वमपि विधामभ्यस्य ततः पश्चा- दश्वमेधमाहरेत् । यथा त्रिंशद्विधाद् अन्ते तस्याप्यश्वमेधेऽग्निरेकविंश एव । ततः परन्तु पूर्वकृतान्तादारभ्यैकत्रिंशादिविधानेव चिन्वीतेति । पूर्वेषां कृतत्वात् । विधाभ्यासः कर्त्तव्य इत्युक्तम् ॥ ४ ॥ कथमु खलु विधामभ्यसेत् । यदन्यत् प्रकृतेस्तत् पञ्चदशभा- गान् कृत्वा विधायां विधायां द्वौ द्वौ भागौ समस्येत् । ताभिर- र्धाष्टमाभिरग्निं चिनुयात् ॥ ५ ॥
५२ शुल्बसूत्रम् [ द्वितीयो-
ननु पूर्वोक्तोऽर्धनवमादिविधाभ्यास एवानुपपन्नः । चतुरश्रचयनादौ सार्धसप्तविधस्यैव वक्ष्यमाणविभज्यविनियोगेनावगम्यमानत्वादिति शङ्कते कथमिति । न कथमित्यर्थः । पुरुषप्रमाणाधिक्येन सार्धसप्तविधत्वं सर्वत्राप्युपपन्नमित्यभिप्रायेण परिहरति यदन्यदिति । प्रकृतेः पञ्चारत्निपुरुषप्रमाणेन सार्धसप्तविधाद् यदन्यदवशिष्टं तत्पञ्चदशधा विभज्य एकैकस्मिन् पुरुषे भागद्वितयं दद्यात् । एवं सति अर्धनवमादयः सार्धसप्तविधाः सम्पन्नाः ॥ ५ ॥ तत्र प्रश्नपूर्वकं प्रकारकथनम् । कथमिति । वक्ष्यमाणार्थगौरवात् शिष्याभिमु- खीकरणार्थः प्रश्नः । यदन्यदिति । द्वितीयाहारेऽर्धनवमविधे यदन्यत् प्रकृतेरर्धाष्टमे- भ्योऽधिकं पुरुषक्षेत्रं तस्याङ्गुलयश्चतुर्दशसहस्राणि चत्वारि शतानि । तत्पञ्चदशभि- र्विभज्य लब्धं नवशतानि षष्टिश्चाङ्गुलयः । तद्द्विगुणा विधायां पुरुषाङ्गुलीषु समस्येत् संयोजयेत् । संयोज्य दृष्टा अङ्गुलयः षोडशसहस्राणि त्रीणि शतानि विंश- तिश्च । ताः प्रमाणवेगोर्विंशतिशताङ्गुलीषु प्रक्षिप्य प्रकृतिवद् इष्टकाकरणमग्निमानञ्च कुर्यादित्यर्थः । एवमर्धदशमविधे अर्धाष्टम्येभ्योऽधिकं द्वाभ्यां द्वाभ्यां पुरुषाभ्यां पुरुषा- ङ्गुलीर्हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषाङ्गुलीषु संयोजयेत् । तत्र पुरुषाङ्गुलय अष्टादशसहस्राणि द्वे शते चत्वारिंशच्च । तस्य मूलं पञ्चत्रिंशच्छता- ङ्गुलस्तिलद्वयाधिकः पुरुषवेणुः । यो यत्राग्नौ पुरुषस्थानीयस्तस्य विंशतिशततमो भागो विहरण इष्टकायासु च अङ्गुलिः कथ्यते । तिलश्च तस्य चतुस्त्रिंशः । तत्र श्लोकः : खाकाशश्रुतिवेदेकाद् द्विगुणैः पुरुषैर्हतात् । हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ इति ॥ ५ ॥ ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनेवैके समाम- नन्ति । अथहैक एकविधप्रभृतीनपक्षपुच्छांश्चिन्वते । तन्नोप- पद्यते पूर्वोत्तरविरोधात् । अथहैकेषां ब्राह्मणं भवति श्येनचिद्- ग्रीनां पूर्वाततिरिति । अथापरेषां न ज्यायांसं चित्वा कनीयांसं चिन्वीत ॥ ६ ॥ नवविधाद्यग्नेस्तिर्यक्प्रमाणवृद्धिमुक्त्वा ऊर्ध्वप्रमाणवृद्धिं दर्शयति— ऊर्ध्वप्रमाणेति । ऊर्ध्वप्रमाणाभ्यासम् अग्नेरूर्ध्वपरिमाणवृद्धिं जानोः पञ्च-
ऽध्यायः ] बौधायनीयं ५३ मभागस्य चतुर्विंशतिभागेनैवैक आचार्याः समामनन्ति वदन्तीत्यर्थः । एवञ्चादौ अनुष्ठीयमानस्याग्नेः वक्ष्यमाणोर्ध्वप्रमाणं जानुपञ्चमांशापेक्षया जानुपञ्चमांशचतुर्विंशतिभागेन तिर्यङ्मानवदुत्तरोत्तरवृद्धिः कर्तव्येत्यर्थः । एक इत्युक्त्या केषाञ्चिदाचार्याणामुक्तोर्ध्वप्रमाणवृद्धिर्नास्तीति गम्यते । केषाञ्चिदाचार्याणां मतं दूषयति—अथैहैके इति । एके आचार्याः । एकविधप्रभृतीनीति । एकविधत्रिविधादीन् । अपक्षपुच्छांश्चिन्वते चेतव्यान् वदन्तीत्यर्थः । तन्नेति । एकविधप्रभृतीनामनुष्ठानं न संभवतीत्यर्थः । ‘पूर्वापरेति । पूर्वापराभ्यां ब्राह्मणाभ्यां विरोधादित्यर्थः । तयोरेकं ब्राह्मणमुदाहरति--अथहैकेषामिति । अथापरं ब्राह्मणमुदाहरति—अथापरेषामिति । अथाभ्यां ब्राह्मणाभ्यां विरोधादेकविधप्रभृतीनामनुष्ठानं न सम्भवतीत्यर्थ इति केचिदाहुस्तदनुपपन्नम् । द्वयोर्विरोध इति वदन् वादी प्रष्टव्यो जायते किमेकविधप्रभृतीनां प्रथमतरामनुष्ठानं न सम्भवति श्येनत्वाभावेन प्रकृतित्वासम्भवात् ? किं वा द्वितीयादिभावेन “न ज्यायांस”मिति श्रुतिविरोधादिति । नाद्यः एकविधप्रभृतीनां श्येनत्वनिषेधाभावात् प्रकृतित्वेन प्रथमतरामनुष्ठानसंभवात् । ननु “नापक्षपुच्छः श्येनो विद्यते” इति (२।८) वक्ष्यमाणत्वाच्छ्येनस्य सपक्षपुच्छताया आवश्यकत्वेन एक- विधप्रभृतीनाञ्च पक्षपुच्छाद्यभावेन श्येनत्वासंभवः । न च एकस्मिन्नेव पुरुषे पक्षपुच्छादिकं संपादनीयमिति वाच्यम् । पुच्छपक्षयोः श्रुत्युपात्तव्याममात्रत्वाद्यनुपपत्तेरिति चेत् । सत्यम् एकविधप्रभृतीनां श्येनत्वाभावेन प्रकृतित्वाभावेऽपि प्रथमतरामनुष्ठानं संभवति । अनेन “अथैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते चतुरश्रानेक आचार्या” इति सूत्रेण ( ? ) एकविधप्रभृतीनामनुष्ठानोपदेशानुपपत्तेः । न च तस्य परमतोपन्यासत्वेन उपपत्तेरिति वाच्यम् । “तस्य करण्या द्वादशेने”ति स्वयं करण्युपदेशानर्थक्यप्रसङ्गात् । किञ्च कल्पसूत्रगतषड्विध- १. अत्र शु. दी. पाठभेदः ।
५४ शुल्वसूत्रम् [ द्वितीयो-
कथनस्य अपक्षपुच्छसमचतुरश्राकारविषयत्वेन उक्तत्वात् । एकविध- प्रभृतीनामनुष्ठाने तदप्यनर्थकं स्यात् । तस्मादेकविधप्रभृतीनां प्रथमतर्- मनुष्ठानं संभवति । नापि द्वितीयः “न ज्यायांस”मिति श्रुतेः सपक्षपुच्छाग्निविषयत्वेनाप्युपपत्तेस्तस्मात् तन्नोपपद्यत इत्येतत् नोपपद्यत इति चेत्— अत्र ब्रूमः स्यादेतदेवं यद्येकविधप्रभृतीनाम् अनुष्ठानं निषिध्यते । किन्तु एकविधस्य प्रकृतित्वमात्रं निराक्रियते । केचिदाहुः—एकविध- सप्तविधयोः प्रकृतित्वमिति । तथाहि एकविधः प्रथमोऽग्निरित्यारभ्या- भ्यासस्यविहितत्वात् सप्तविधप्रभृत्यप्येकशतविधान्तं पृथक्करण्युपदेशात् एकविधस्यापि प्रकृतित्वमिति । तदयुक्तम् । “श्येनचिदग्नीनां पूर्वातति” रिति श्येनचित एव सर्वाग्नीन् प्रति प्रकृतित्वात् एकविधस्य श्येन- त्वाभावेन प्रकृतित्वासंभवात् । ननु सर्वान्यपेक्षया श्येनचित एव प्रकृतित्वे सावित्रादीनामग्नित्वाविशेषात् तान् प्रत्यपि प्रकृतित्वं स्यात् । विषम उपन्यासः । सावित्राग्नौ कृत्स्नाङ्गोपदेशात् श्येनचिदुपदिष्टानां सावित्र- होमोखासंभरणाद्यङ्गानामपेक्षणात् सावित्रादीनां श्येनचित्प्रकृतिकत्व- प्रसक्तिरेव नास्ति । एकविधे तु कृत्स्नाङ्गोपदेशाभावात् श्येनचिदुपदिष्टा- ङ्गानामपेक्षणादेतत्प्रकृतिकत्वं युक्तमेव । यदि करण्युपदेशविधानादेव प्रकृतित्वमुच्यते तदा प्रउगकूर्मादावपि पृथक्करण्युपदेशात्तेषामपि प्रकृतित्वं स्यात् । किञ्च सावित्राग्निवदेव यद्येकविधस्यापि प्रकृतित्वं स्यात् तदा तद्वदेव ज्यायसश्चयनानन्तरं कनीयसोऽप्येकविधस्यानुष्ठानं स्यात् । ननु ज्यायसश्चयनानन्तरं सावित्राग्नेः कनीयसोऽनुष्ठानं नास्ति इति चेन्न । सर्वतोमुखे हि पूर्वमग्निं विधाय इतरस्थलेषु सावित्राग्निविधानेन ज्याय- सश्चयनानन्तरकालकर्तव्यत्वं सावित्राग्नेरवगम्यते । तथा च प्रथमं वा पश्चाद् वा यदा कदाचित्कर्तव्यत्वं सावित्राग्नेरुपपद्यत एव । तथा चोक्तं द्वैधसूत्रे—‘‘अथातः सर्वतोमुखं व्याख्यास्यामश्चिन्वीत सर्वतोमुखोऽग्नि- रिति बोधायनो न चिन्वीतेति शालीकिरत्रोह स्माह मौद्गल्यः—पूर्वं-
ऽध्यायः ] बौधायनीयं ५५ स्मिन्नेवाग्निचय इतरेषु सावित्राः स्यु"रिति । अत एव "अथेमे अग्नि- चया" इत्यस्मिन् सूत्रे सावित्रादीनामनुपदेशात् "न ज्यायांस"मिति निषेध इष्टकाचिताग्निविषय इति ज्ञायते । तस्मात् सप्तविधस्यैव प्रकृति- त्वमिति सिद्धम् । अयमत्र सूत्रार्थः—एके आचार्या एकविधप्रभृतीन्पक्षपुच्छांश्चिन्वते, प्रकृतित्वेन तेषामनुष्ठानं वदन्ति । तन्नोपपद्यते । पूर्वोत्तरविरोधात् । पूर्वशब्दः प्रकृतिपरः । उत्तरशब्दो विकृतिपरः । प्रकृतिविकृतिप्रतिपादिकायाः “श्येनचिदग्नीनामा”दि श्रुतेर्विरोधादेकविधस्य प्रकृतित्वमयुक्तमिति । प्रकृतिविकृतिप्रतिपादकं ब्राह्मणमुदाहरति—अथेहैकेषामिति । केषाञ्चित् शाखिनामित्यर्थः । श्येनचिदग्नीनामिष्टकचितीनां पूर्वा ततिः प्रकृतिरित्यर्थः
५६ शुल्बसूत्रम् [ द्वितीयो- वचनात् पशु-चातुर्मास्यादीनां प्रथमानुष्ठानम्। तस्माद् यत्र सामर्थ्यं वचनं वा नास्ति तत्र प्रकृतेः प्रथमानुष्ठानम्। अथापरेषामिति। ब्राह्मणं भवतीत्येव। अथ शब्दः पूर्ववत्। न ज्यायांसं वृद्धतरं बृहत्तरमग्निं चित्वा कनीयांसमल्पतरं न चिन्वीत ॥ ६ ॥ अथास्माकम्। पक्षी भवति। नह्यपक्षः पतितुमर्हति। अरत्निना पक्षौ द्राघीयांसौ भवतः। तस्मात्पक्षप्रवयांसि वयांसि। व्याममात्रौ पक्षौ च पुच्छञ्च भवतीति ॥ ७ ॥ श्येनचितः सपक्षपुच्छतानियमप्रतिपादकं तैत्तिरीयब्राह्मणमुदाह- रति—अथास्माकमिति। पक्षी भवति अग्निरयं पक्षी पक्षवान् भवती- त्यर्थः। विहितं सपक्षत्वं हेतुमुखेन स्तौति—नह्यपक्ष इति। पतितुम् उत्पतितुं नार्हति न शक्नोतीत्यर्थः। अत एव "वयसां वा एष प्रतिमया चीयत" इत्यत्र उत्पततां छाययेत्यर्थ इति व्याख्यातमाचार्यैः। पक्षयोर्दैर्घ्यं विदधाति—अरत्निनेति। अरत्निना द्राघीयांसौ दीर्घतरौ वक्ष्यमाणप्रमाणौ पक्षौ भवतीत्यर्थः। पक्षयोर्द्राघीयस्तां स्तौति—तस्मादिति। पक्षयोः प्रवयांसि प्रभूतानि अधिकानि वयांसि पक्षिणः इत्यर्थः। पक्षपुच्छपरि- माणं दर्शयति—व्याममात्राविति। व्याममात्रौ पुरुषमात्रौ पक्षौ भवतः। पुच्छञ्च व्याममात्रमिति उभयत्रापि विपरिणामः ॥ ७ ॥ अथेति। ब्राह्मणं भवतीत्येव। अस्माकञ्चास्यां शाखायामित्यर्थः। पक्षीति। पक्षीत्युपलक्षणत्वात् पक्षवान् पुच्छवान्। तद्रहितः पतितुं नार्हति। तस्मादरत्निनां पक्षौ दीर्घतरौ भवतः। यस्मादेवं तस्मात् पक्षाभ्यां वृद्धतराणि। व्याम- मात्रौ पञ्चारत्निमात्रौ पक्षौ च पुच्छञ्च भवति। एवं विरोधप्रतिपादनार्थं ब्राह्मणवाक्यान्युदाहृत्य आद्योत्तरं भङ्ग्या एकविधा- दीनामनुष्ठानं प्रकृतिभूतस्य सप्तविधश्येनचित एव प्रथमानुष्ठानञ्च उदाहरति ॥ ७ ॥ नापक्षपुच्छः श्येनो विद्यते। न चासप्तविधस्य पक्षपुच्छानि विद्यन्ते। न च सप्तविधं चित्त्वैकविधप्रसङ्गः। तस्मात् सप्तविध एव प्रथमोऽग्निः ॥ ८ ॥ श्येनस्य सपक्षपुच्छत्वं नियम इत्याह—नापक्षेति। सपक्षपुच्छ एव श्येनः, नान्य इत्यर्थः। सप्तविधादर्वाचीनस्यैकविधादेः सपक्षपुच्छतां निरा-
ऽध्यायः ] बौधायनीयं ५७ करोति--न चेति। आसप्तविधस्य एकविधादेः पक्षपुच्छानि न विद्यन्ते। एकविधादीनां सपक्षपुच्छतया अनुष्ठानं नास्तीत्यर्थः। ननु आसप्तविध- स्येत्युक्तेरष्टविधादीनां सपक्षपुच्छतानिषेधः किं न स्यादिति चेन्न। द्विती- यादिभावेनानुष्ठेयानां श्येन-कङ्काकारतया कर्त्तव्यत्वावगमात् तेषामपि सपक्षपुच्छताया आवश्यकत्वात् निषेधस्य च एकविधादिविषयत्वोपपत्तेः। अन्यथा कङ्कादीनां न कदाप्यनुष्ठानं स्यात्। विस्पष्टञ्च आसप्तविधग्रहणस्य एकविधादिमात्रविषयत्वम्। एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति सप्तविधवाक्यशेषत्वात् श्रुतिविप्रतिषेधाच्चेत्यापस्तम्बाचार्यवचनादव- सीयते। न चेति। सप्तविधचयनानन्तरमेकविधादेरनुष्ठानं नास्ति। “न ज्यायांस”मिति श्रुतिविरोधादिति भावः। एकविधादीनां प्रथम- प्रयोगस्तु निषेधश्रुतिविरोधाभावात्। “समचतुरश्रानेक आचार्यास्तस्य करण्या द्वादशेनेष्टकाः कारयेत्, तासामर्थ्याः पाद्याश्चे”त्युपदेशाच्चोपपद्यते। इयता प्रबन्धेन उपपादितमर्थमुपसंहरति--तस्मादिति। सप्तविध एव प्रथमोऽग्निः। प्रथमं प्रयोक्तव्य इत्यर्थः। यथा “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम” इत्यत्राग्निष्टोमस्य प्राथम्येऽपि उपदेशबलात् प्रथमानुष्ठानम्। एवं सप्तविधस्य प्राथम्येऽपि उपदेशबलात् प्रथमानुष्ठानं संभवतीति द्रष्टव्यम् ॥ ८ ॥ नापक्षपुच्छ इति। पक्षपुच्छरहितस्य श्येनचितोऽभावात्, पक्षपुच्छानां सप्त- विधवाक्यशेषत्वादेकविधादीनां सपक्षपुच्छत्वे व्याममात्रौ पक्षौ च पुच्छञ्च भवती- त्यनेनैकविधादिश्रुतिविरोधात्, सप्तविधं चित्त्वा एकविधचयने न ज्यायांसं चित्त्वा कनीयांसं चिन्वीतेति प्रतिषेधेन प्रसङ्गाभावात् सर्वप्रकृतिभूतः सप्तविधश्येनोऽग्निरेव पूर्वं चेतव्यः। एवं विरोधादेकविधादीनां निवृत्तिरेवापतिता। कल्पे षड्विधः सप्त- विध इत्यादिना षड्विधानामपि प्रकृतित्वमुक्तम्। तत्रापि पक्षपुच्छरहित एव षड्- विधोऽग्निः पूर्वोक्तहेतुनोपन्यासात् ॥ ८॥ भेदान् वर्जयेत् । अधरोत्तरयोः पार्श्वसन्धानं भेदा इत्युप- दिशन्ति । तदन्त्यन्तेषु न विद्यन्ते । न शक्तिपार्श्वयोः ॥ ९ ॥ अथाग्निधर्मानाह--भेदानिति। भेदशब्दार्थं स्वयमेवाह--अधरो- ८
५८ शुल्बसूत्रम् [ द्वितीयो- त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान् वर्जयेदित्येतत् असिपर्यन्तेषु न विद्यते । तत्रावर्जनीयत्वाद् भेदस्य । तथा—नेति । साररथचक्रचयने नाभिमध्ये सक्तीनां सङ्गमे पार्श्वे च, भेदान् वर्जयेदित्येतत् न विद्यते । तत्राप्यवर्जनीयत्वाद् भेदानामिति भावः ॥ ९ ॥ अथ अग्निधर्मानाह—भेदानिति । भेदस्वरूपं स्वयमेवाह—अधरोत्तरयोरिति । किं सर्वत्र ? नेत्याह—तदग्न्यन्तेष्विति । अग्न्यन्तेषु अग्निपर्यन्तेषु । अन्तस्यावर्जनीय- त्वादिति भावः । नेति । सक्तिपार्श्वयोः । साररथचक्रचयने नाभिमध्ये सक्तीनामेव- सङ्गमः । तयोर्वर्जनीयत्वादिति भावः ॥ ९ ॥ साहस्रं चिन्वीत प्रथमं चिन्वान इति । पञ्चमायां वा चितौ [L12
Here is the accurate Devanagari transcription of the page, line by line:
ऽध्यायः ] बौधायनीयं ५६ तावतीरिष्टका उपधाय शेषा इष्टका इष्टकामन्त्रयोरिष्टका व्यतिरेक इति न्यायेन द्वैधो- क्तमार्गेण गणावृत्त्या वा उपधेयाः । पञ्चमायां चितौ मन्त्राणां भूयस्त्वान्मन्त्र व्यतिरेक अक्ताः शर्करा इति न्यायेनोपधानम् । पञ्चमायामिति । एवं वा तत्र मन्त्राणामपर्याप्तत्वाद् यावत् सिद्धैर्मन्त्रैः पञ्च- लोकंपृणाभिश्चोपधाय शेषाः पञ्चमायां चितावुपदध्यात् । तत्रापीष्टकाव्यतिरेके लोकं- पृणाभिर्गणावृत्तिभिर्वा उपधानं कर्त्तव्यम् । तत्र पञ्चमीव्यतिरिक्तासु पञ्चभिर्लोकं- पृणाभिर्यावत्य इष्टकाः सम्भवन्ति तावतीर्गणयित्वा भेदपरिहारेण अग्निक्षेत्रपरिमित- मिष्टकाः कार्याः । पञ्चमायां चितौ पूर्वांसु चितिषु उपहितशिष्टानां भेदपरिहारेण कल्पनम् । आचार्येण अस्मिन् पक्षे करणानुपदेशाद् आपस्तम्बादिभिरनुक्तत्वाच्च पूर्वैर्व्याख्यातृभिर्दिङ्मात्रमुक्तम् । द्विशतामिति । समष्ट्यभिप्रायेण नपुंसकत्वम् । द्विशतप्रस्तारपक्षेऽयं विशेषः । पञ्चचोडा अयं पुरो हरिकेश इत्युपुर्युपधेया अर्धोच्छ्राया इष्टकाः ! राज्ञ्यसीति पञ्च नाकसदस्तावदुच्छ्रायास्तासामधस्तादुपधेयाः । ता दश भवन्ति । द्विशतपूरणार्थ- मिष्टकागणनायां पञ्चेति विद्यात् । पञ्चमायां वा चितावित्यस्मिन् पक्षे भेदेन गणयेदित्यर्थः । समानसंख्यं द्वे द्वे एकीकृत्य गणयेत् ॥ १० ॥ पशुधर्मो ह वा अग्नैर्यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद् दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषो- मुत्तरं यदर्वाक्चोध्वंञ्च तत्समानम् । एवमिष्टकानां रूपाण्यु- पदध्यात् ॥ ११ ॥ अग्निः पशुसमानाकारस्तदेवाह--पश्विति । यथा पशोः प्राङ्मुखस्य सतः । दक्षिणेषामिति । दक्षिणपार्श्वस्थानामस्थ्नां यद्दक्षिणमग्रं तदुत्तरे- षामुत्तराग्रमिति यावत् । तत्तादृशमित्यर्थः । उत्तरपार्श्वस्थानां वाम- पार्श्वस्थानामस्थ्नां यदुत्तरमग्रं तद्दक्षिणपार्श्वस्थाग्रसदृशमित्यर्थः । यदुत्त- रेषां दक्षिणं मूलं तत्तुल्यं दक्षिणेषामुत्तरं मूलमित्यर्थः । यदवाक् अधः प्रदेशः पश्चाद्भागः, ऊर्ध्वं पूर्वप्रदेशः, तदुभयं सदृशमित्यर्थः । तथैवाग्निः कर्तव्य इति यावत् । एवमिति । इष्टकानां रूपमेवमा- पाद्योपदध्यात् । पश्चात् स्थित्यायनेन तुल्यन्यायापत्या (१) पार्श्वद्वये प्राक् प्रत्यक् चोपद्ध्यादित्यर्थः ॥ ११ ॥
६० शुल्बसूत्रम् [ द्वितीयो- दक्षिणोत्तरपार्श्वयोरिष्टकानां समानरूपप्रतिपादनार्थं ब्राह्मणान्तरमाह— पश्विति । तत्समानमिति । तत् सदृशम् । अस्थ्याभिप्रायेण नपुंसकत्वं । यदवाक् पश्चाद् भागः । ऊर्ध्वञ्च पूर्वभागः । तत् समानम् तदुभयं सदृशं भवति । एवमिष्टकानां रूपाण्युपदध्यात् एवमिष्टकाः कुर्यादित्युक्तं ब्राह्मणे । तस्यार्थमाह या दक्षिणावृतो लेखा ( २।१२ सू० ) इत्यादिना । तथा चापस्तम्बः—सर्वान् वर्णान् इष्टकानां कुर्यादिति लेखाधिकारो भवतीति । आचार्येण लेखाधिकारस्य पशुत्वेनोक्तत्वात् सर्वान् वर्णान् इष्टकानां कुर्यादिति पशुधर्मत्वमुक्तं वेदितव्यम् ॥ ११ ॥ या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति । त्र्यालिखिता मध्ये ॥ १२ ॥ ब्राह्मणे सर्वान् वर्णानिष्टकानां कुर्यादित्युक्तं तस्यार्थमाह—या दक्षिणेति । इष्टकास्तु या ( इष्ट ) दक्षिणमावर्तते सव्यमारभ्य दक्षिणं प्रति चक्ररूपेणावर्तते लेखा इति तद्वत्य इष्टकाः लक्ष्यन्ते । दक्षिणावृत- लेखायुक्ता इष्टका दक्षिणत उपदध्यादिति यावत् । एवं दक्षिणमारभ्य सव्यमावर्तन्ते या लेखास्तद्युक्ता इष्टका उत्तरत उपदध्यात् । या इष्टका ऋजुलेखायुक्तास्ताः पश्चात् पुरस्ताच्च । एते च यथा भवति तथोपद्ध्या- दित्यर्थः । तिस्र आभिमुख्येन लिखितास्त्र्यालिखिताः, तादृशलेखायुक्ता मध्ये अग्निमंध्ये उपदध्यात् । यद्यपीष्टकाकरणे एवं गुणा इष्टकाः कर्तव्या इति नोक्तम् तथापि लोके प्रायेण इष्टकाकारिणां परिमार्जनवशादेव रेखाः सम्भवन्ति । तासामुपधाने स्थानविशेषनियम उक्तः । एवञ्च रेखासम्भ- वस्य प्रायिकत्वात् कल्पसूत्रेऽनुक्तत्वाच्च लेखाधिकारोऽयं वैकल्पिक इति द्रष्टव्यम् ॥ १२ ॥ या दक्षिणेति । सव्यपार्श्वादारभ्य दक्षिणपार्श्वं प्रति चक्ररूपेणावृता दक्षिण- वृल्लेखा । सव्यहस्तेन परिमृष्टेति यावत् । सव्येति । तद्विपरीताः सव्यावृतः । लेखा- नामुपधानासम्भवात् तद्वत्य इष्टका लक्ष्यन्ते । दक्षिणत उपदध्यात् दक्षिणपार्श्व उपदध्यात् । एवमुत्तरतः । ऋज्विति ! ऋजुलेखा अकुटिललेखा अग्नेः पश्चाद् भागे पूर्वभागे च । त्र्यालिखितेति । मध्ये तिस्र आभिमुख्येन या लिखिता लेखास्ताः त्र्यालिखिताः । ता अग्नेर्मध्य उपदध्यात् । एवंगुणा इष्टकाः कार्या इत्यनुक्त्वा
या दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा- करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू- पदध्यात् ॥ १२ ॥ अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन् पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं तासामुपधानं प्रतीयात् ॥ १३ ॥ अथेति । अथ शब्दो लेखाधिकारव्यवच्छेदार्थः । लेखाधिकारो निवृत्त इत्यर्थः । या इष्टका विषयस्य मध्यस्थितास्तासामुपधानमेवं प्रतीयादि- त्युत्तरेणान्वयः । यथा पशोः पृष्ठवंश इति शेषः । शालामध्यवंश इव पुच्छादारभ्य मुखपर्यन्तं मध्य एव वर्तते । न त्वन्यतरपार्श्वे । एवकार- द्वयेन मध्य एव वर्तते, पार्श्वभूतो न वर्तत इति दृढीकृतम् । एवं पृष्ठ- वंशरीत्या तासां मध्यस्थेष्टकानामुपधानं जानीयादित्यर्थः । एवञ्च “सर्वान् वर्णान् इष्टकानां कुर्या”दिति वेदवाक्यस्य सर्वाणि रूपाणि ( इत्यस्य ? ) मध्यास्थिसदृशयः काश्चिदिष्टकाः, पार्श्वास्थिसदृशयः काश्चित् कर्त्तव्येत्यग्नेः पशुधर्मत्वकथनपरत्वेन व्याख्यानमाचार्यैः कृतं वेदितव्यम् ॥ १३ ॥ अथेति । अथ शब्दः पूर्वस्माद् व्यवच्छेदार्थः । व्यवच्छेदश्च लेखाधिकारो नास्तीति । विशयस्था मध्यस्थाः । यस्मादारभ्य पक्षपुच्छस्था इष्टका विविधं शेरते इति विशयाः । पुच्छादारभ्यान्तान्मध्यरेखायां या इष्टका उपधेयास्ता विशयस्था इत्यर्थः । यथा ह वै पशोः पृष्ठवंशः शालाया मध्यवंश इव । जाघनीप्रभृति आमु- खादेकस्मिन् पार्श्वे व्यतिरेकेण उदग्दक्षिणादिपार्श्वभूतो नैव वर्त्तते । उभाभ्यामेव- काराभ्यां कदाचिदपि न वर्त्तत इति सूचयति । एवमिति । तथेत्यर्थः । तासामुपधानं मध्यदेशवर्त्ति-अस्थितुल्यतामापाद्योक्तं भवति । पुच्छापरान्तमध्यादारभ्य आशि- रोऽग्रमध्यादुन्नीयते । अग्नेः पशुधर्मविधानार्थं ब्राह्मणान्तरमुक्तम् । तदुदाहृतम् । तत्र अस्थिसाहश्यमुक्तम् ॥ १३ ॥ अथापि ब्राह्मणं भवति प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङा- थर्वणस्तस्यैष्टका अस्थानीतीति ॥ १४ ॥
५२ शुल्बसूत्रम् [द्वितीयो- इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण- मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् । तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं भवति ॥ १४ ॥ स्वशाखायामप्येष्टकानां अस्थिसादृश्यमात्रवचनमस्तीत्याह—अथापीति । अथ शब्दोऽस्माकमिति द्योतनार्थः । अपि शब्दः समुच्चय एव । न परकीयमेव अस्म- दीयमप्यस्तोत्यर्थः । किं तत् ? अथर्वा नाम प्रजापतिरग्निरेव मान्य अथर्वणः पुत्रो दध्यङ् । तस्य दधीच अस्थानी अस्थीनि इष्टका इति ब्राह्मणस्यार्थः । तस्मात् सादृश्यवाक्योपन्याससामर्थ्याद् विधिं प्रकल्प्य इष्टकानामस्थिसादृश्यमापाद्योपद्- ध्यादिति शेषः ॥ १४ ॥ बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यान्तसं- दध्यात् । प्राञ्चमेनं चिनुत इति विज्ञायते ॥ १५ ॥ अग्निचयने नियमस्तावदाह—बहिस्तन्वमिति । तन्वशब्दोऽङ्ग- परः । अग्नयो हि द्विविधाः अन्तस्तन्वोबहिस्तन्वश्चेति । बहिस्तन्वाः श्येनकङ्कालजद्रोणकूर्मादयः । बहिर्भूतान्यङ्गानि यस्य सः बहि- स्तन्वः । तादृशमग्नि यदि चिनुयात्तदा तन्वोपप्लवमध्यैः तन्वानां शिरःपक्षप्रभृतीनां मध्यैरात्ममध्यान् संयोजयेत् । शिरसः पश्चि- मान्तमध्यैरात्मप्राच्यान्तमध्यो योजयेत् । एवं पक्षपुच्छादिष्वपि । इदञ्चाकृतिवचनात् सिद्धम् । एकस्यां दिशि कतमदङ्गं संदध्या- दित्यत आह—प्राञ्चमेनमिति । प्राङ्मुखं प्राक्शिरसमेन मग्निं चिनुते । एवञ्च इदमङ्गं अत्र संदध्यात् । अविज्ञातमुखादीनां प्रउगादीनां मुखादि- परिज्ञानार्थमिदमुक्तम् ॥ १५ ॥ तन्वशब्दोऽङ्गपर्यायः । अङ्गानि चात्र शिरःपक्ष-पुच्छ-पाद त्सर्वोष्ठानि श्येन- कङ्कालजद्रोणकूर्मादीनां बहिर्भूतान्यङ्गानि । ( त्सरुश्चतुरस्र द्रोणे, पादाः कङ्क- कूर्मयोः, परिमण्डलद्रोणे कूर्मे च ओष्ठ इति टिप्पण्याम् ) । रथचक्रश्मशानादीना- मन्तर्भूतानि ।
ऽध्यायः ] बौधायनीयं ६३ तत्र यदि बहिस्तन्वमग्निं चिनुयात् तन्वोपसवमध्यैः, तन्वानामुपसव- मध्यास्तन्वोपसवमध्याः, उपसवशब्दोऽन्तपर्यायः, तेषां मध्येरात्मोपसवाना- मात्मोपसवमध्यान् पार्श्वानां मध्यान् संदध्यात् । आत्मनः पूर्वपार्श्वान्तमध्यं शिरसः पश्चिमान्तमध्येन संयोजयेत् । एवं पक्षादिषु द्रष्टव्यम् । कङ्कपादयोस्तु तावदन्तरालविधानात् सान्तरालपद्वयमध्यं पुच्छान्तमध्ये भवति । अन्यथा- सम्भवात् । कूर्मे तु प्रध्यपच्छेदमध्यान् पादान्तमध्यैः श्लेषयेत् । एतत् सर्वमाकृ- तिवचनेनैव सिद्धं विस्पष्टार्थमुच्यते । कस्यां दिशि कतमदङ्गं संदध्यादित्यत आह— प्राञ्चमेनमिति । प्राञ्चं प्राक्शिरसमेनर्माग्नि चिनुत इति । अनेनेदमस्मिन् प्रदेशे संद- ध्यादिति विस्पष्टार्थं विज्ञायते । अविज्ञातमुखानां प्रउगादीनां मुखादिप्रदेशपरि- ज्ञानमेव प्रयोजनं प्रयोक्तुरुपस्थानाद्यर्थम् ॥ १५ ॥ अमृन्मयीभिरनिष्टकाभिर्न सङ्ख्यां पूरयेत् ॥ १६ ॥ हिरण्येष्टकाभिः सहस्रसङ्ख्यापूरणे प्राप्ते तन्निवृत्त्यर्थमाह—अमृ- न्मयीभिरिति । अमृद्विकारेष्टकाभिः सहस्रादिसङ्ख्यां न पूरयेदित्यर्थः । ननु कुम्भेष्टकानां मृन्मयत्वात् ताभिः सङ्ख्या (पूरणं प्राप्तमिति चेन्न तादृशस्थले ? ) पूरकानामिष्टकार्थोर्ध्वप्रमाणादिलक्षणाभावेन लोकप्रसि- द्ध्यभावेन च इष्टकत्वाभावात् ॥ १६ ॥ अमृन्मयीभिर्हिरण्येष्टकाभिः । मृन्मयत्वे सत्यपि कुम्भेष्टकाभिर्न संख्यां सहस्रादिकां पूरयेत् । लोकप्रसिद्धाभिरेव मृन्मयीभिरिष्टकाभिः संख्यां पूरये- दित्युक्तं भवति । लोकप्रसिद्धयैव मृन्मयत्वे सिद्धे मृन्मयग्रहणं स्व ( स ? ) प्रयो- जनञ्च । यज्ञे प्रारब्ध उत्तमे प्रस्तारे प्राप्ते पूर्वस्यां रात्रौ चोरेण द्विषद्विर्वा इष्टका अपहृताः स्युः सद्यः पुनरिष्टकाकरणस्य अशक्यत्वाद् आरब्धस्यावश्यपरिसमाप्य- त्वात् प्रतिनिधिप्राप्तौ त्रपुभिः शिलाभिर्वा सादृश्यात् तथेष्टकाः कारयित्वोपधानं स्यात् । तन्निवृत्त्यर्थमस्यामप्यवस्थायां अमृन्मय्यः संख्यायां नान्तर्भवेयुः ॥ १६ ॥ इष्टकाचिद्वान्योऽग्निः पशुचिदन्य इत्येतस्माद् ब्राह्मणात् । पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियत इति यत् प्राचीनमैष्टकाद् यजुः क्रियत इति च ॥ १७ ॥ मृन्मयेनैव सङ्ख्यापूरणे ब्राह्मणमुदाहरति--इष्टकचिद्वेति । यत इतिवत् (?) साभिमर्शनस्य पशुचिदं (?) नित्येन स्तवनार्थं प्रसिद्धोऽग्नि- रिष्टकचिदित्यनूद्यते । ततश्च इष्टकाभिरेव प्रसिद्धोऽग्निश्चेतव्य इत्यस्माद् Nepal Sanskrit University, Balmeeki Campus, Kathmandu
६४ शुल्बसूत्रम् [द्वितीयो- ब्राह्मणादवगम्यते । अमृन्मयत्वे च इष्टकचित्त्वं व्याहन्येत । इष्टकाभिरेव चित इष्टकचित्त्वात् । अग्नेः पशुधर्मत्वे मृन्मयीभिरेवेष्टकाभिः संख्या- पूरणे ब्राह्मणमुदाहरति--पशुर्वैति । अपस्योपधानविधिविशेषोऽयमर्थ- वादः । अयमग्निः पशुधर्मत्वात् पशुः । अस्य पशुरूपस्याग्नेः एषा पुष्कर- पर्णरूपयोनिः इष्टकोपधानात् ( पूर्वंयजुषा कृतेन रुक्मोपधाने तयोन्येने॑ह॑ण विकृती क्रियते तत्परिहारार्थमपस्योपधाने कृते योन्यर्हरेत्त ) एव सिद्धं भवतीत्यर्थः । पुष्करपर्णस्य उपधानं प्रशंसन्ति । योनेर्वा अग्नेः पुष्करपर्ण- मिति ब्राह्मणादवगम्यते ॥ १७ ॥ अस्य ( २।१६ ) प्रतिषेधस्य हेतुरूपेण श्रुतिं दर्शयन्नाह—इष्टकेति । अग्निहो- त्रस्य वत्साभिमर्शनम्यर्थवादः । इष्टकया चित एकोऽग्निः पशुना चित अन्यो- ऽग्निरित्येतस्माद् अन्यार्थवादविषयब्राह्मणलिङ्गाद् इष्टकाभिरेव चिन्वीत न द्रव्यान्तरैणापीत्यत्र प्रसिद्धश्चयनाग्निरनूच्यतेऽभिमर्शनेन । पशुचितमेन मग्निं कुरुत इति ज्ञापनार्थम् । अनेन ब्राह्मणेन इष्टकाभिरेवेत्यत्र स्वशाखायाञ्चास्ति लिङ्ग- मिति प्रतिपादितं भवति । अन्यच्च । योऽग्निरेष पशुधर्मत्वादभेदेन पशुधर्म इत्युच्यते । योनिरुत्पत्तिस्थानम् । एषा योनिः पशोर्विक्रियते विविधं क्रियते । कथम् ? यत्प्राचीनं यस्मात् प्राचीनं पूर्वमैष्टकात् इष्टकासम्बन्धात् चयनाद् यदिष्टकानां यजुर्मन्त्रवत् कर्म क्रियते दर्भस्तम्भोपधानकर्षणादि । अत्रैष्टकात् पूर्वमित्यनेन ऐष्टक एवाग्निरुपधातुं शक्यते । च शब्दः समुच्चयार्थः । इदञ्च लिङ्ग- मिति । अत्र यत् प्राचीनमित्यादिना लिङ्गदर्शनेन इष्टकचित्त्वे सिद्धे पशुधर्मत्व- ञ्चाग्नेः स्वशाखायामस्ति इति दर्शयितुं पशुर्वा एष इत्याद्युदाहृतम् ॥१७॥ लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् ॥ १८ ॥ इष्टकोपधानात् प्रागेव पुरुषशिरः प्रभृतीनां कल्पोक्तप्रकारेण उपधाने क्रियमाणे ता(वद् ?)कचिदौन्नत्यं च स्यात् । ततश्चेष्टकोपधानं कर्तुं न शक्यत इति आशङ्क्याह--लोकबाधीनीति । लोकबाधीनि पुरुषशिरः उलूखलमुसलादीनि नित्यकारिणि (?) इष्टकोपधानविघ्नानि अवटेषु गर्तेषूपदध्यादित्यर्थः ॥ १८ ॥ इष्टकानां स्थानबाधीनि उलूखलपशुशिरःप्रभृतीन्यवटेषु गर्तेषूपदध्यात् । इष्टका अपसार्यो लूखलादिद्रव्यस्योपधित्सितस्य स्थान इष्टका अपनीय अवटं
ऽध्यायः ] बौधायनीयं ६५ खात्वा तत्रोपधाय समां भूमिं कृत्वा अपनीता इष्टकाः स्थाप्याः। अवकाः ( ? ) स्वयमातृण्णाश्चोत्तरास्वपि चितिषु दृष्टत्वात् सर्वत्र सन्धिषूपदध्यात् ॥ १८॥ मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् ॥१९॥ मण्डलेष्टका उपदधाति ऋषभेष्टका उपदधाति विकर्णीमुपदधाती- त्यादिविधानेन मण्डलाद्याकारतया इष्टकाकरणे प्राप्ते तन्निवृत्त्यर्थमाह— मण्डलमिति। इष्टकाया मध्ये मण्डलाकारतया लेखां लिखेत् सा मण्ड- लेष्टकेत्युच्यते। एवं वृषभाकारतया लिखेत्। एवं विकर्णाकारतया लिखेत्। एवं रूपेण इष्टकासु लक्षणानि चिह्नानि कुर्यात् ॥ १६ ॥ इतिरेवमित्यर्थे। मण्डलेष्टकामुपदधाति ऋषभमुपदधाति, विकर्णीमुप- दधाति इत्येवं यत्र श्रूयते तत्र इष्टकासु लक्ष्माणि चिह्नानि प्रतीयात्। इष्टकानां मण्डलाकृतिविधानमिति न जानीयात्। चतुरस्राभिरित्यादिवचनविरोधात्। तत्र तिसृषु मण्डलाकारं लिखेत्। पञ्चसु ऋषभाकारम्। एकस्यां विकर्णीरूपं अर्धचन्द्राकृतिं वा लिखेत् ॥ १९ ॥ इष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकंपृणाः संपद्यन्ते परिमाणा- भावात्। अतीतानेवेष्टकागणानत्रोपदध्यात् ॥ २० ॥ इष्टकेति। इष्टकामन्त्रयोर्मध्ये इष्टकाव्यतिरेके इष्टकातिरेके लोकं- पृणाः संपद्यन्ते। कुतः लोकंपृणानां भावात्। अयमर्थः—तत्तत्प्रस्तारोक्तमन्त्रोपधानान्तरं यदि काश्चिदतिरिक्ताः स्युस्तदा अतिरिक्तासु इष्टकासु लोकंपृणाभिरुपधानं कुर्यात्। इष्टकातिरेके पक्षान्तरमाह—अतीतानेवेति। तत्र इष्टकाधिक्ये अतीतानपस्यादिगणानुपधाय संख्यां पूरयेत्। एवकारो वार्थकः ॥ २० ॥ ता इष्टकामन्त्रा अवधेया मन्त्रप्रकरणपठिता आचार्येणोक्ताश्च। इष्ट- कानां मन्त्राणां मध्ये इष्टकाव्यतिरेके इष्टकाधिक्ये प्रथमे प्रस्तारे शतमष्ट- षष्ठिश्च मन्त्रा द्रष्टव्याः। वापश्चिदादीनां मन्त्राणां विनियोगान्तरे पञ्चषष्टिरिति। यद्वा त्रिंशत् पञ्चत्रिंशद्वा इष्टका मन्त्रेभ्योऽतिरिच्यन्ते ता लोकंपृणाः संपद्यन्ते। कुतः? इयत्य एव लोकंपृणा इति परिमाणाभावात्। ननु पञ्च लोकंपृणा इति वक्ष्यति। कथं परिमाणाभावः? सत्यम्। पञ्चैवेति न तस्यार्थः। द्वैधोक्तमार्गेण ६
६६ शुल्बसूत्रम् [ द्वितीयो- गणावृत्तौ द्विशताश्चेदित्यस्मिन् पक्षे पञ्चमायां चितौ च अवश्यं पञ्चोपधेया इति तस्यार्थः । अनुष्टुभानुचरतीति वचनात् । तस्मात् प्राणः सर्वाण्यङ्गान्यनु- चरतीति अर्थवादाच्च । द्वितीये प्रस्तारे शतमष्टत्रिंशच्चातिरिक्ताः । तृतीये पञ्च- दशातिरिक्ताः । चतुर्थे षोडशाधिकं सप्तदशाधिकं वा शतम् । पञ्चमे नेष्टकातिरेक उत्तमायां पूरणत्वेऽतिरिच्यन्ते । तत्राथोधोचीभिरिति दर्शनात् स्वकल्पोक्तमार्गेण लोकंपृणाभिरेव पूरणम् । द्वैधोक्तमार्गेण वा गणावृत्त्योपधानम् । न संकलितो- पधानम् । अत्र एतस्मिन् काले लोकंपृणानामुपधानकाले अतीतानेवेष्टकागणानपस्या- श्विनीदिश्याक्ष्णयास्तोभीयासपन्नादीनुपदध्यात् । अथवा कल्पे अपानभृदभि- श्चितिराप्यते पुरुषेण वालखिल्याभिर्व्युष्ट्रीभिर्नक्षत्रेष्टकाभिश्चितिराप्यते इति वचनात् । अतीतानुपधानकाले विस्मृतानिटकागणान् एतस्मिन् काले उपदध्यात् । अस्मिन् पक्षेऽत्रेति शब्दोऽनर्थकः । कल्प आप्यत इति वचनेनान्यगणापानभृ- दादिभिरपि पूरणं सूचयति । तत्र पुरुषेण चितिराप्यत इति वचनात् पुरुषो वय इत्यस्यैवावृत्तिः । अन्यथेतेरेष्विव वयस्याभिरित्येवावक्ष्यत् ॥ २० ॥ पञ्च लोकंपृणाः ॥ २१ ॥ अस्मिन्नपि पक्षे पञ्च लोकंपृणावश्यमुपधेया इत्याह-- पञ्चेति ॥ २१ ॥ सर्वप्रकारेखपि पूरणे पञ्च । लोकंपृणाः पञ्च अवश्यमुपदध्या- दित्यर्थः ॥ २१ ॥ मन्त्रव्यतिरेकेऽक्ताः शर्कराः सन्धिषूपदध्यात् ॥ २२ ॥ मन्त्रव्यतिरेक इति । मन्त्राधिक्ये अधिकैर्मन्त्रैरिष्टकासन्धिषु घृत- सिक्ताः शर्करा उपदध्यादित्यर्थः ॥ २२ ॥ द्विशतप्रस्तारपक्षे पञ्चमे तेजो घृतमिति वाक्यशेषाद् घृताक्ताः शर्करा ऋतव्यासु सगराद्यैर्मन्त्रैः पौर्णमास्यन्तैः शतं विंशतिसंयुक्ताः सन्धिषु इष्टकाविवरेषु उपदध्यात् । प्रतितारकपक्षे द्वे द्वे भवतः ॥ २२ ॥ प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः । पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गवादः । चतुरश्रास्वे- वैतदुपपद्यते ॥ २३ ॥ प्राचीरिति । कल्पसूत्रश्रुतौ प्राचीरुपदधाति प्रतीचीरुपदधातीति
ऽध्यायः } बोधायनीयं ६७ यत्र श्रूयते तत्र तेषु गणेषु रीतेर्वादः, श्रेण्या वादः अभिधानं, प्रागपवर्गा प्रत्यगपवर्गा च रीतिं समापयेदित्यर्थः । इदमुपलक्षणम् । उदीची- रुपदधाति दक्षिणा उपदधातीत्यत्रापि उदगपवर्गा दक्षिणापवर्गाञ्च रीतिं समापयेदिति द्रष्टव्यम् । प्राचीरिति । इष्टकायाः प्राङ्मुखत्वाद्यसम्भवात् कर्तुः प्राङ्मुखत्वाद्यभिप्रायेण अयं व्यपदेशः । पुरस्तादन्या इति । नक्षत्रे- ष्टकासु पुरस्तादन्याः प्रतीचीरुपदधातीति अंसादारभ्य श्रोणीपर्यन्तं प्रत्य- गपवर्गा उपधेयाः, पश्चादन्याः प्राचीरिति श्रोणेरारभ्यांसपर्यन्तं प्रागपवर्गा उपधेयाः । न त्विह रीतिर्विवक्षिता । चतुरश्रास्विति । एतत्प्रागुक्तमंसश्रोण्यादिविशेषमुपधानं चतुरश्रा- स्वेव चितिषु उपपद्यते न तु रथचक्रादिषु (गण) श्रोण्यादिविभागस्य अस्पष्टत्वात् गौण्या वृत्त्या संपद्यत. इत्यर्थः ॥ २३ ॥ प्राचीरुपदधाति प्रतीचीरुपदधातीति कल्पे श्रुतौ वा यत्र श्रूयते अप- स्यादिषूपलक्षणत्वात् , उदीचीर्दक्षिणा इति च यत्र श्रूयते, तत्रायमर्थः --तेषु गणेषु रीतेर्वादः श्रेण्या वादः अभिधानम् । रीतिशब्देन प्रसिद्धा अकुटिला गति- रुच्यते । प्रागपवर्गा इत्युक्तं भवति । प्राचीमिति । अस्यां शाखायामुदाहृतरूपस्यो- भयस्याभावादर्थवादरूपेण ग्रहणम् । अस्य च प्रदर्शनार्थत्वात् पञ्चैकैकामित्या- दिषु प्राङ्मुख इत्यादि चयनकर्त्तुश्चोदन भवति । तत्र प्राङ्मुखत्वादेरिष्टकाया अस- म्भवादुपधानकर्त्तुरित्युक्तम् । पुरस्तादन्या इति । नक्षत्रेटकासु अंसादारभ्य आश्रोणे रोहिण्याद्या विशाखान्ताः प्रत्यगपवर्गाः । पश्चादन्या इति । श्रोण्या आरभ्य अंसाद् अनुराधाद्या अपभरण्यान्ताः प्रागपवर्गाः । तत्र अपवर्गवादो न रीतिवादः । आरम्भावसानस्थानवचनात् तद्- वश्यं संपाद्यं कुटिलतायान्तु दोषः । चतुरश्रास्विति । अनन्तरोक्तनक्षत्रेटकासु । अंस- श्रोणिविशिष्टं विधानं चतुरस्रासु चितिष्वेवोपपद्यते । अन्यत्र रथचक्रादिषु गौण्या वृत्त्या सम्पद्यत इत्यर्थः ॥ २३ ॥ [ इति अग्नीनां विशेषधर्मकथनम् । ] न खण्डामुपदध्यात् । न भिन्नामुपदध्यात् । न जीर्णामुप- दध्यात् । न कृष्णणमुपदध्यात् । न लक्ष्मणामुपदध्यात् ॥२४॥ अग्निधर्मानुक्त्वा इष्टकाधर्मानाह--न खण्डामिति । ( खण्डां वा
स्यादिति वा ) चतुरश्रकृतामिष्टकां भित्वा तत्संपादितेष्टकां नोपदध्या- दित्यर्थः । न भिन्नामिति । भिन्नां रेखाकारतया संयुक्तां स्फुटितामिष्टकां नोपदध्यात् । न जीर्णामिति । न जीर्णां चिरकालसंपादिताम् । अत एव “यद्युवै संवत्सरभृतं दीर्घोऽध्वाऽजिरिति नाद्रियेत” इति उख्यस्य संवत्सरभरण- पक्षे उपकल्पनं निषिद्धम् । न कृष्णामिति । कृष्णां पाकाधिक्येन न्यून- तया वा नीलवर्णाम् । न त्वेकदेशनीलां पाकानन्तरीयकस्य एकदेशनैल्यस्य अपरिहरणीयत्वात् । कृष्णामित्युपलक्षणं लोहितव्यतिरिक्तश्वेतादियुक्तामपि नोपदध्यात् । लोहितपचनायैः पचन्तीत्यापस्तम्बवचनात् । न लक्ष्मा- मिति । लक्ष्मां छान्दसत्वान्न दोषः । लक्ष्मणां शोषणसमये दारुपाषाणा- दिना चिह्नितां नोपदध्यादित्यर्थः ॥ २४ ॥ अथेष्टकाधर्माः—न खण्डेति । वाश्यादिना संतक्ष्य पादेष्टकादिमापाद्य नोप- दध्यात् । तत्र भिन्नप्रतिषेधादेवमुक्तम् । न भिन्नेति । द्विधाभूतां पुनः संधायैकीभूतां नोपदध्यात् । न जीर्णेति । एकदेशजीर्णां किञ्चिद्विशिष्टामपि नोपदध्यात् । न कृष्णेति । उत्तरदेशे कृष्णापि कृष्णैव । यथा सर्वो रोहित इत्यत्र एकदेशरोहितापेक्षया तद्विशेषणत्वम् । न लक्ष्मणेति । शोषणकाले काष्ठपाषाणादिना अङ्किताम् । निर्मध्येन लोहिनीः पचन्तीति वचनादिष्टकासु अतीवव्यतिरिक्तश्वेतश्यावादिवर्णा अपि वर्जनीयाः ॥ २४ ॥ न स्वयमातृण्णां स्वयं चितावुपदध्यात् ॥ २५ ॥ इष्टकास्वरूपनिविष्टानखण्डादिधर्मानुक्त्वा स्वयमातृण्णानपिधाय- कत्वाख्यमुपधानमुखेनेष्टकाविनिवेशितं धर्ममाह—न स्वयमातृण्णा- मिति । स्वत एव संपन्नच्छिद्रा शर्करा स्वयमातृण्णा । अग्नौ हि तिस्रः स्वयमातृण्णा उपधेयाः । एका हिरण्मयपुरुषोपधानानन्तरं मृन्मयेष्ट- कोपधानात् पूर्वमसिमध्ये उपधेया । द्वितीया द्वितीयप्रस्तारोपधाना- नन्तरमसिमध्येष्टकारन्ध्रोपर्युपधेया । तृतीया पञ्चमप्रस्तारसमाप्तावसिमध्य एवेष्टकारन्ध्रोपर्युपधेया । ताश्चोपधानकाले इष्टकाभिर्यथा न पिधीयन्ते तथोपदध्यादिति भावः । इष्टकानामुपधानकाले स्वयमातृण्णानपिधायकत्वं प्रथमस्वयमातृण्णोपर्युपधेयासिमध्ये इष्टकाया आर्ध्याद्वयरूपेणान्यथा वा