बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 93, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ६३ तत्र यदि बहिस्तन्वमग्निं चिनुयात् तन्वोपसवमध्यैः, तन्वानामुपसव- मध्यास्तन्वोपसवमध्याः, उपसवशब्दोऽन्तपर्यायः, तेषां मध्येरात्मोपसवाना- मात्मोपसवमध्यान् पार्श्वानां मध्यान् संदध्यात् । आत्मनः पूर्वपार्श्वान्तमध्यं शिरसः पश्चिमान्तमध्येन संयोजयेत् । एवं पक्षादिषु द्रष्टव्यम् । कङ्कपादयोस्तु तावदन्तरालविधानात् सान्तरालपद्वयमध्यं पुच्छान्तमध्ये भवति । अन्यथा- सम्भवात् । कूर्मे तु प्रध्यपच्छेदमध्यान् पादान्तमध्यैः श्लेषयेत् । एतत् सर्वमाकृ- तिवचनेनैव सिद्धं विस्पष्टार्थमुच्यते । कस्यां दिशि कतमदङ्गं संदध्यादित्यत आह— प्राञ्चमेनमिति । प्राञ्चं प्राक्शिरसमेनर्माग्नि चिनुत इति । अनेनेदमस्मिन् प्रदेशे संद- ध्यादिति विस्पष्टार्थं विज्ञायते । अविज्ञातमुखानां प्रउगादीनां मुखादिप्रदेशपरि- ज्ञानमेव प्रयोजनं प्रयोक्तुरुपस्थानाद्यर्थम् ॥ १५ ॥ अमृन्मयीभिरनिष्टकाभिर्न सङ्ख्यां पूरयेत् ॥ १६ ॥ हिरण्येष्टकाभिः सहस्रसङ्ख्यापूरणे प्राप्ते तन्निवृत्त्यर्थमाह—अमृ- न्मयीभिरिति । अमृद्विकारेष्टकाभिः सहस्रादिसङ्ख्यां न पूरयेदित्यर्थः । ननु कुम्भेष्टकानां मृन्मयत्वात् ताभिः सङ्ख्या (पूरणं प्राप्तमिति चेन्न तादृशस्थले ? ) पूरकानामिष्टकार्थोर्ध्वप्रमाणादिलक्षणाभावेन लोकप्रसि- द्ध्यभावेन च इष्टकत्वाभावात् ॥ १६ ॥ अमृन्मयीभिर्हिरण्येष्टकाभिः । मृन्मयत्वे सत्यपि कुम्भेष्टकाभिर्न संख्यां सहस्रादिकां पूरयेत् । लोकप्रसिद्धाभिरेव मृन्मयीभिरिष्टकाभिः संख्यां पूरये- दित्युक्तं भवति । लोकप्रसिद्धयैव मृन्मयत्वे सिद्धे मृन्मयग्रहणं स्व ( स ? ) प्रयो- जनञ्च । यज्ञे प्रारब्ध उत्तमे प्रस्तारे प्राप्ते पूर्वस्यां रात्रौ चोरेण द्विषद्विर्वा इष्टका अपहृताः स्युः सद्यः पुनरिष्टकाकरणस्य अशक्यत्वाद् आरब्धस्यावश्यपरिसमाप्य- त्वात् प्रतिनिधिप्राप्तौ त्रपुभिः शिलाभिर्वा सादृश्यात् तथेष्टकाः कारयित्वोपधानं स्यात् । तन्निवृत्त्यर्थमस्यामप्यवस्थायां अमृन्मय्यः संख्यायां नान्तर्भवेयुः ॥ १६ ॥ इष्टकाचिद्वान्योऽग्निः पशुचिदन्य इत्येतस्माद् ब्राह्मणात् । पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियत इति यत् प्राचीनमैष्टकाद् यजुः क्रियत इति च ॥ १७ ॥ मृन्मयेनैव सङ्ख्यापूरणे ब्राह्मणमुदाहरति--इष्टकचिद्वेति । यत इतिवत् (?) साभिमर्शनस्य पशुचिदं (?) नित्येन स्तवनार्थं प्रसिद्धोऽग्नि- रिष्टकचिदित्यनूद्यते । ततश्च इष्टकाभिरेव प्रसिद्धोऽग्निश्चेतव्य इत्यस्माद् Nepal Sanskrit University, Balmeeki Campus, Kathmandu