बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 94, कुल 366 में से
संदर्भ में पढ़ें६४ शुल्बसूत्रम् [द्वितीयो- ब्राह्मणादवगम्यते । अमृन्मयत्वे च इष्टकचित्त्वं व्याहन्येत । इष्टकाभिरेव चित इष्टकचित्त्वात् । अग्नेः पशुधर्मत्वे मृन्मयीभिरेवेष्टकाभिः संख्या- पूरणे ब्राह्मणमुदाहरति--पशुर्वैति । अपस्योपधानविधिविशेषोऽयमर्थ- वादः । अयमग्निः पशुधर्मत्वात् पशुः । अस्य पशुरूपस्याग्नेः एषा पुष्कर- पर्णरूपयोनिः इष्टकोपधानात् ( पूर्वंयजुषा कृतेन रुक्मोपधाने तयोन्येने॑ह॑ण विकृती क्रियते तत्परिहारार्थमपस्योपधाने कृते योन्यर्हरेत्त ) एव सिद्धं भवतीत्यर्थः । पुष्करपर्णस्य उपधानं प्रशंसन्ति । योनेर्वा अग्नेः पुष्करपर्ण- मिति ब्राह्मणादवगम्यते ॥ १७ ॥ अस्य ( २।१६ ) प्रतिषेधस्य हेतुरूपेण श्रुतिं दर्शयन्नाह—इष्टकेति । अग्निहो- त्रस्य वत्साभिमर्शनम्यर्थवादः । इष्टकया चित एकोऽग्निः पशुना चित अन्यो- ऽग्निरित्येतस्माद् अन्यार्थवादविषयब्राह्मणलिङ्गाद् इष्टकाभिरेव चिन्वीत न द्रव्यान्तरैणापीत्यत्र प्रसिद्धश्चयनाग्निरनूच्यतेऽभिमर्शनेन । पशुचितमेन मग्निं कुरुत इति ज्ञापनार्थम् । अनेन ब्राह्मणेन इष्टकाभिरेवेत्यत्र स्वशाखायाञ्चास्ति लिङ्ग- मिति प्रतिपादितं भवति । अन्यच्च । योऽग्निरेष पशुधर्मत्वादभेदेन पशुधर्म इत्युच्यते । योनिरुत्पत्तिस्थानम् । एषा योनिः पशोर्विक्रियते विविधं क्रियते । कथम् ? यत्प्राचीनं यस्मात् प्राचीनं पूर्वमैष्टकात् इष्टकासम्बन्धात् चयनाद् यदिष्टकानां यजुर्मन्त्रवत् कर्म क्रियते दर्भस्तम्भोपधानकर्षणादि । अत्रैष्टकात् पूर्वमित्यनेन ऐष्टक एवाग्निरुपधातुं शक्यते । च शब्दः समुच्चयार्थः । इदञ्च लिङ्ग- मिति । अत्र यत् प्राचीनमित्यादिना लिङ्गदर्शनेन इष्टकचित्त्वे सिद्धे पशुधर्मत्व- ञ्चाग्नेः स्वशाखायामस्ति इति दर्शयितुं पशुर्वा एष इत्याद्युदाहृतम् ॥१७॥ लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् ॥ १८ ॥ इष्टकोपधानात् प्रागेव पुरुषशिरः प्रभृतीनां कल्पोक्तप्रकारेण उपधाने क्रियमाणे ता(वद् ?)कचिदौन्नत्यं च स्यात् । ततश्चेष्टकोपधानं कर्तुं न शक्यत इति आशङ्क्याह--लोकबाधीनीति । लोकबाधीनि पुरुषशिरः उलूखलमुसलादीनि नित्यकारिणि (?) इष्टकोपधानविघ्नानि अवटेषु गर्तेषूपदध्यादित्यर्थः ॥ १८ ॥ इष्टकानां स्थानबाधीनि उलूखलपशुशिरःप्रभृतीन्यवटेषु गर्तेषूपदध्यात् । इष्टका अपसार्यो लूखलादिद्रव्यस्योपधित्सितस्य स्थान इष्टका अपनीय अवटं