बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 86, कुल 366 में से
संदर्भ में पढ़ें५६ शुल्बसूत्रम् [ द्वितीयो- वचनात् पशु-चातुर्मास्यादीनां प्रथमानुष्ठानम्। तस्माद् यत्र सामर्थ्यं वचनं वा नास्ति तत्र प्रकृतेः प्रथमानुष्ठानम्। अथापरेषामिति। ब्राह्मणं भवतीत्येव। अथ शब्दः पूर्ववत्। न ज्यायांसं वृद्धतरं बृहत्तरमग्निं चित्वा कनीयांसमल्पतरं न चिन्वीत ॥ ६ ॥ अथास्माकम्। पक्षी भवति। नह्यपक्षः पतितुमर्हति। अरत्निना पक्षौ द्राघीयांसौ भवतः। तस्मात्पक्षप्रवयांसि वयांसि। व्याममात्रौ पक्षौ च पुच्छञ्च भवतीति ॥ ७ ॥ श्येनचितः सपक्षपुच्छतानियमप्रतिपादकं तैत्तिरीयब्राह्मणमुदाह- रति—अथास्माकमिति। पक्षी भवति अग्निरयं पक्षी पक्षवान् भवती- त्यर्थः। विहितं सपक्षत्वं हेतुमुखेन स्तौति—नह्यपक्ष इति। पतितुम् उत्पतितुं नार्हति न शक्नोतीत्यर्थः। अत एव "वयसां वा एष प्रतिमया चीयत" इत्यत्र उत्पततां छाययेत्यर्थ इति व्याख्यातमाचार्यैः। पक्षयोर्दैर्घ्यं विदधाति—अरत्निनेति। अरत्निना द्राघीयांसौ दीर्घतरौ वक्ष्यमाणप्रमाणौ पक्षौ भवतीत्यर्थः। पक्षयोर्द्राघीयस्तां स्तौति—तस्मादिति। पक्षयोः प्रवयांसि प्रभूतानि अधिकानि वयांसि पक्षिणः इत्यर्थः। पक्षपुच्छपरि- माणं दर्शयति—व्याममात्राविति। व्याममात्रौ पुरुषमात्रौ पक्षौ भवतः। पुच्छञ्च व्याममात्रमिति उभयत्रापि विपरिणामः ॥ ७ ॥ अथेति। ब्राह्मणं भवतीत्येव। अस्माकञ्चास्यां शाखायामित्यर्थः। पक्षीति। पक्षीत्युपलक्षणत्वात् पक्षवान् पुच्छवान्। तद्रहितः पतितुं नार्हति। तस्मादरत्निनां पक्षौ दीर्घतरौ भवतः। यस्मादेवं तस्मात् पक्षाभ्यां वृद्धतराणि। व्याम- मात्रौ पञ्चारत्निमात्रौ पक्षौ च पुच्छञ्च भवति। एवं विरोधप्रतिपादनार्थं ब्राह्मणवाक्यान्युदाहृत्य आद्योत्तरं भङ्ग्या एकविधा- दीनामनुष्ठानं प्रकृतिभूतस्य सप्तविधश्येनचित एव प्रथमानुष्ठानञ्च उदाहरति ॥ ७ ॥ नापक्षपुच्छः श्येनो विद्यते। न चासप्तविधस्य पक्षपुच्छानि विद्यन्ते। न च सप्तविधं चित्त्वैकविधप्रसङ्गः। तस्मात् सप्तविध एव प्रथमोऽग्निः ॥ ८ ॥ श्येनस्य सपक्षपुच्छत्वं नियम इत्याह—नापक्षेति। सपक्षपुच्छ एव श्येनः, नान्य इत्यर्थः। सप्तविधादर्वाचीनस्यैकविधादेः सपक्षपुच्छतां निरा-