बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 78, कुल 366 में से
संदर्भ में पढ़ेंभावात् प्राथम्याभ्युपगमो न युक्त इति वाच्यम् । “न ज्यायांस”मिति निषेधस्य सपक्षपुच्छापक्षपुच्छ (विषय ?) तयावेश्यवक्तव्यत्वेन प्राथम्यस्यैव युक्तत्वात् । अन्यथा अपक्षपुच्छस्य प्रउग-कूर्मादेः कनीयसोऽपि द्वितीयादि- भावेनानुष्ठानं स्यात् । यत्तु सार्धसप्तविधादारभ्य एकैकपुरुषाभ्यासे द्वादशविधस्य कदाप्य- प्रसक्तिरिति तन्न । “अरत्निना पक्षौ द्राघीयांसा”वित्यगम्यमानांशे पृथक्कृत्य एकैकपुरुषाभ्यासपरतया दशविध एव द्वादशविधोक्ति सम्भवात् । यदपि वार्ध्राष्ट्रि(माद् ?) यावद्विधोत्तरसम्भव इति तदपि न, उक्तेष्वेव एकशतान्तेषु यावद्विधोक्तिपर्यवसानसंभवात् । यदपि वार्ध्राष्ट्रिमाः पुरुषाः प्रथमोऽग्निरित्युपक्रम्य तस्मात् सप्तविध एव प्रथमोऽग्निरित्युपसंहारस्य च विरोध इति तदपि न । तत्रापि “अरत्निना पक्षौ द्राघीयांसा”वित्यगम्यमानतयोच्यमानांशं पृथक्कृत्य सार्धसप्तविध एव सप्तविधोक्तिसम्भवात् । एतेन कल्पसूत्रगतसप्तविधग्रहणमपि व्याख्यातमिति सर्वमनवद्यम् । एवं पृथक्कर्त्तव्याग्नेः सार्धसप्तपुरुषप्रमाणक्षेत्रत्वमुक्त्वा अनन्तरम् अनुष्ठेययोर्द्वितीयतृतीययोः प्रमाणमाह—अर्धनवमा इति । अत्रापि पूर्व- वद् बहुव्रीहिः । चतुर्थ प्रभृतीनां स्वस्वपूर्वापेक्षया एकैकपुरुषप्रमाणाधिक्यमाह—एव- मुत्तरोत्तर इति । चतुर्थपञ्चमादिरग्निः द्वितीयतृतीयवत् स्वस्वपूर्वा- पेक्षया एकैकपुरुषप्रमाणाधिक इत्यर्थः । अयमभ्यासः कियत्पर्यन्त इत्यत आह—विधाभ्यास इति । विधी- यते मीयते तया अग्निक्षेत्रमिति विधा पुरुषः । पुरुषवृद्धिरेकोत्तरशतान्त- मित्यर्थः । ननु सार्धसप्तविधप्रभृत्येकैकविधाभ्यासे सार्धैकशतविध एव सम्पद्यते, न त्वेकशतविध इत्यत आह—तदेतदिति । तदेतद्विधाभ्यासः (सार्धं ?) सप्तविधप्रभृत्येकशतविधान्तम् । श्रुत्युक्त्या गम्यमानांशस्तु अर्धं पुरुषः