बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 75, कुल 366 में से
संदर्भ में पढ़ेंअथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास एकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानाह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्येतत्सूत्र- विरोधात् । न द्वितीयः सार्धसप्तपुरुषप्रमाणप्रथमाग्निचयनानन्तरं “न ज्या- यांसं चित्वा कनीयांसं चिन्वीते”ति श्रुतिविरोधेन षड्विधसप्तविधयो- रनुष्ठानायोगात् । द्वादशविधस्य वक्ष्यमाणपुरुषाभ्यासप्रकारेषु कदाऽप्य- प्रसक्तेः । “यावद्विधं वे”त्येतच्चात्यन्तमनुपपन्नं “एकशत विधान्त”मिति सूत्रोक्तनियमविरोधात् । “अर्धाष्टमाः पुरुषाः प्रथमोऽग्निरि”त्युपक्रम्य तस्मात् सप्तविध एव प्रथमोऽग्निरित्युपसंहारविरोधाच्च । न सार्धसप्त- पुरुषाग्निप्राथम्यकथनं सपक्षपुच्छाग्निविषयम् । षड्विधाद्यग्निस्तु अपक्ष- पुच्छ इति तस्य प्राथम्येऽपि न विरोधः । “न ज्यायांस”मिति श्रुतेः सपक्षपुच्छाग्निप्रकरणस्थत्वेन तद्विषयतया षड्विधादीनां द्वितीयादिभावे- ऽप्यविरोधः सावित्र-गार्हपत्याद्यग्नेरिव । एवं षड्विधं तदप्युपपन्नं सप्तविधानन्तरम् एकैकपुरुषाभ्यासे द्वादशविधः संभवत्येव । “एक- शतविधान्त”मिति नियमस्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्युप-