बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 9, कुल 366 में से
संदर्भ में पढ़ेंप्रास्ताविकम् वेदानां व्याख्यानार्थं ब्राह्मणारण्यकोपनिषदो वेदाङ्गानि च प्रवृत्तानि । वेदाङ्गेषु ज्योतिषाङ्गं हित्वा प्रायोऽन्यानि सर्वाण्येवाङ्गानि सूत्रशैल्याऽऽविर्भूतानि । ऋक्प्रातिशाख्यस्य तु पद्यसूत्रात्मकतयोभयथा प्रवृत्तिः । वेदब्रह्मणो मुखरूपं व्याकरणम्, ज्योतिषं लोचनम्, छन्दः पादद्वयरूपम्, निरुक्तं श्रोत्रम्, शिक्षा च घ्राणस्थानीया वर्तते, एवमेव कल्पो हस्तस्वरूप आस्थीयते । क्रियानिर्वर्तनाय यथा शरीरे हस्तौ प्राधान्यं भजेते, तथैव यज्ञकर्म- विधिनिर्धारणाय वेदाङ्गेषु कल्पः प्रमुखः । ‘कल्प्यते = समर्थ्यते यागप्रयोगोऽत्र' इति सायणः । श्रौत-गृह्य-धर्म-शुल्वाऽऽख्यानि चतुर्विधानि सन्ति कल्पसूत्राणि प्रतिवेदं संबद्धानि । तत्र शुल्बसूत्राणि श्रौतसूत्रान्तर्गतानि समाम्नायन्ते । शुल्बं नाम यज्ञकर्मणि कुण्डनिर्माण- प्रसङ्गे मानार्थमुपयुज्यमाना रज्जुः । शुल्वम् = रज्जुमानादिना कृतमिदं क्षेत्रगणित- मुच्यते । हेमचन्द्रानुसारेण शुल्वशब्दः ‘ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ' इति चतुर्ष्वर्थेषु प्रयुज्यते । द्विधाऽस्य व्युत्पत्तिः । गत्यर्थकाद् शल्धातोः ‘उल्वादयश्च' (४।६५) इत्यौणा- दिकेन सूत्रेण शुल्बशब्दस्ताम्रार्थको निपात्यते । सुव्व (< शुल्बम्) इति प्राकृतभाषायाः शब्दः पञ्चस्वर्थेषु प्रयुक्तः, । हेमचन्द्रदर्शिताेष्वर्थेषु तत्र रज्ज्वर्थोऽधिकः । विभिन्नेष्वर्थेष्वयं प्रादेशिकीषु भाषासु 'सूत्र' 'सुत्त्र' 'सुब्बा' चुब्ब' 'सुब्बी' 'चूंब' इत्याद्याकृतिषु व्यवह्रियमाणः स्वकीयं प्रयोगभूयस्त्वं पुष्णाति । रज्ज्वर्थकः शुल्बशब्दस्तु मानार्थकाच्चौरादिकाद् शुल्बधातोर्व्युत्पाद्यते । सर्वेषां वेदानां शुल्बसूत्राणि साम्प्रतं नोपलभ्यन्ते । कात्यायनशुल्बसूत्रं शुक्लयजुर्वेदं संबध्नाति । बौधायन-आपस्तम्ब-मानव-मैत्रायण-वाराह-शुल्बसूत्राणि खलु कृष्णयजुर्वेदम- भिसम्बद्धानि । बौधायनशुल्बसूत्रं कृष्णयजुर्वेदस्य तैत्तिरीयशाखया सह सम्बद्धम् । वाधूल- शुल्बसूत्रं साम्प्रतं लभ्यते । मशकशुल्बसूत्रं हिरण्यकेशीशुल्बसूत्रं चेदानीं नाधिगम्येते । एते आपस्तम्बशुल्बसूत्रस्य करविन्दस्वामिकृतव्याख्यायामुल्लिख्येते ; यज्ञानां यथासमयं सम्पा- दनार्थे यथाऽऽर्यैर्ज्योतिषशास्त्रमाविर्भावितम् , उपबृंहितं च, तथैव यज्ञवेदीनामाकारस्वरूप- योर्निर्धारणाय प्राचीने भारते समधीतार्यैर्ज्यामितिर्बीजगणितं च । शुल्बसूत्राणामनु- शीलनेन तदीयो ज्यामितिज्ञानाभासो जायते । सर्वेषु शुल्बसूत्रेषु बौधायनशुल्बसूत्रमाकारेण द्राघिष्ठम् । इह प्रथमेऽध्याये ८३; द्वितीये ४३, तृतीये च १४६ संहत्य २७२ सूत्राणि संदृब्धानि सन्ति । रेखामानपरिभाषा, समचतुरश्रकरणोपायः, दीर्घचतुरश्रकरणोपायः, एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः, प्रकारा- न्तरेण दीर्घचतुरश्रैकतोऽणिमद्दीर्घचतुरश्रकरणोपायः, द्विकरण्यानयनम्, त्रिकरणीतृतीय-