भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा
स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)
पृष्ठ 219, कुल 1416 में से
संदर्भ में पढ़ेंप्रकरणम् ] भाषाटीकासहिता । १८७
अभ्रं शिलाजतुं चैव भृङ्गराजं च मुस्तकम् ।
केशराजमपामार्गं लवङ्गं च फलत्रिकम् ॥ ७ ॥
वराङ्गवल्कलं चैव पिप्पलीमूलमेव च ।
सैन्धवं च विडं चैव गुडूचीचूर्णमेव च ॥ ८ ॥
कण्टकारी रसोनं च धान्यकं जीरकद्वयम् ।
चन्दनं देवकाष्ठं च दार्वीन्द्रयवमेव च ॥ ९ ॥
किराततिक्तकं बालं तोलकं च समाहरेत् ।
द्वितोलं मरिचं देयं भावयेदार्द्रकद्रवैः ।
माषार्द्धं भक्षयेत्प्रातर्मधुना मधुरीकृतम् ॥ ६१० ॥
शुद्धपारे और शुद्ध गन्धककी कज्जली २ तोले, जावित्री १ तोला, जायफल १ तोला, सुवर्णभस्म ३ माशे, चाँदीकी भस्म ६ माशे, लोहभस्म ६ माशे एवं अभ्रक, शिलाजीत, भाँगरा, नागरमोथा, कुकुरभाँगरा, चिरचिटा, लौंग, त्रिफला, दारचीनी, पीपलामूल, सेंधानमक, विडनमक, गिलोयका सत्त्व कटेरी, दूधसे शुद्ध कियाहुआ लहसुनका कन्द, धनियाँ, जीरा, कालाजीरा, चन्दन, देवदारु, दारुहल्दी, इन्द्रजौ, चिरायता और सुगन्धवाला ये प्रत्येक एकएक तोला और कालीमिरच दो तोले लेवे । सबको एकत्र कूटपीसकर अदरखके रसमें सातबार भावना देवे । इसको प्रतिदिन प्रातःकाल चार चार रत्तीकी मात्रासे मधुके साथ मिलाकर सेवन करे ॥ ६०६-६१० ॥
ज्वरं नानाविधं हन्ति शुक्रस्थं चिरकालजम् ।
साध्यासाध्यविचारोऽत्र नैव कार्यों भिषग्वरैः ॥ ११ ॥
अन्तर्धातुगतं चापि नाशयेन्नात्र संशयः ।
भूतोत्थं श्रमजं चापि सन्निपातज्वरं तथा ॥ १२ ॥
असाध्यं च ज्वरं हन्ति यथा सूर्य्योदयस्तमः ।
गरुडं च समालोक्य यथा सर्पः पलायते ॥ १३ ॥
तथैवास्य प्रसादेन ज्वरः शीघ्रं पलायते ।
बलदं पुष्टिदं चैव मन्दाग्निनाशनं परम् ॥ १४ ॥
१ वराङ्गवल्कलं गुडत्वक् । २ गुडूचीचूर्णमित्यत्र गुडूचीसत्त्वमिति व्यवहरन्ति वृद्धाः । ३ रसोनं रसो-नकम्, तच्च दुग्धेन परिशोधितं ग्राह्यम् । ४ भावयेदार्द्रकद्रवैरिति-आर्द्रकस्य रसैः सप्तवारं भावयेत् ॥