भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 338, कुल 639 में से
संदर्भ में पढ़ें| ३२० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. २ सू. ३१ |
|---|
दिवत् । अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयेण परमात्मविषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते —
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् । अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते । यतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
प्रादेशमात्रहृदयप्रतिष्ठेन वाऽयं मनसाऽनुस्मर्यते तेन प्रादेशमात्र इत्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धादुच्यते । तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथंचिदनुस्मरणमालम्बनमित्युच्यते । प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्त्वाय । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥
संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः । कुतः ? तथा हि — समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्म-
भामती
वाऽऽत्मानोऽस्य तादात्म्येनेति ॥ २८ ॥
साकल्येनोपलब्धासम्भवादुपासकानामनुग्रहायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मानमभिव्यनक्तीत्याह ॐ अतिमात्रस्यापि इति ॐ । अतिक्रान्तो मात्रां परिमाणमतिमात्रः । ॐ उपासकानां कृते ॐ उपासकार्थमिति यावत् । व्याख्यान्तरमाह ॐ प्रदेशविशेषेषु वा इति ॐ ॥ २९, ३० ॥
मूर्द्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रदेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पादयन् प्रादेशमात्रं वैश्वानरं दर्शयति ॥ ३१ ॥
भामती-व्याख्या
साक्षी है । अथवा 'विश्वे नरा जीवा आत्मानोऽस्य' इस व्युत्पत्ति के अनुसार 'वैश्वानर' शब्द का अर्थ सर्व जीव-तदात्म्यापन्न ब्रह्म ॥ २८ ॥
आचार्य आश्मरथ्य का कहना है कि ब्रह्म का साकल्येन उपलब्ध सम्भव नहीं, अतः वह अनन्त और अपरिमित होते हुए भी अपने उपासकों पर अनुग्रह करने के लिए अपने प्रादेशमात्र (प्रदेश के समान स्वल्प स्थान में रहने वाले) आंशिक स्वरूप को प्रकट कर देता है । 'अतिमात्र' शब्द का अर्थ अपरिमित या प्रमाणातीत है — 'अतिक्रान्तो मात्रामिति अतिमात्रः' । 'उपासकानां कृते' का अर्थ है — उपासकानुग्रहार्थम् । 'प्रादेशमात्र' शब्द की अन्य व्याख्या इस प्रकार की जा सकती है कि 'प्रदेशेषु हृदयादिषु अभिव्यज्यते' अर्थात् उस व्यापक अनन्त परमात्मा की अभिव्यक्ति हृदयादि रूप प्रदेशमात्र स्थानों में होती है, अतः उसे प्रादेशमात्र कह दिया गया है ॥ २९, ३० ॥
मस्तक से लेकर चुबुक-पर्यन्त यह काय-भाग प्रदेशमात्र है, इसी में त्रैलोक्यात्मक