भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 530, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 530
५१२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. २०

परमात्मोपदेश एवायम् । कस्मात् ? वाक्यान्वयात् । वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रति अन्वितावयवं लक्ष्यते । कथमिति ? तदुपपाद्यते—'अमृतत्वस्य तु नाशास्ति वित्तेन इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि' इत्यमृतत्वमाशासानायै मैत्रेय्या याज्ञवल्क्य आत्म-विज्ञानमिदमुपदिशति । न चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति । तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्य-मवकल्पते । नचैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति—'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादिना । यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगतपराकरोतीति भेददृष्टिमपोद्य 'इदं सर्वं यदयमात्मा' इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति । दुन्दुभ्यादि-दृष्टान्तैश्च ( बृ० ४।५।८ ) तमेवान्यतिरेकं द्रढयति 'अस्य महतो भूतस्य निःश्वसि-तमेतद्यदृग्वेदः' ( बृ० ४।५।११ ) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्च-कारणतां व्याचक्षाणः परमात्मानमेनं गमयति । तथैकैकायनप्रक्रियायामपि ( बृ० ४।५।१२ ) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति । तस्मात्परमात्मन एवायं दर्शनाद्युप-देश इति गम्यते ॥ १९ ॥

यत्पुनरुक्तं—प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः—

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥

अस्त्यत्र प्रतिज्ञा 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति', 'इदं सर्वं यदय-


भामती

पूर्वपक्षः कृतः । ॐ भोक्त्रर्थत्वाच्च भोग्यजातस्येति ॐ तदुपोद्वलनमात्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥

तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममा-चार्य्यै देशीयमतेन तावत्समाधत्ते सूत्रकारः— ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ । यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते तद्रूपनिरूपणस्वाभाव्यापि ततोऽत्यन्तमभिन्नावह्नेरिव परस्पर-


भामती-व्याख्या

जनकत्वरूप कर्तृत्व के प्रतिपादन का ब्रह्म में कोई उपयोग नहीं। व्यापक एवं भूतरूप ब्रह्म के जीवरूप से समुत्थान ( जन्म ) का प्रतिपादन भी जीव की द्रष्टव्यता सूचित करता है। यदि इस ब्राह्मण में ब्रह्म की द्रष्टव्यता का अभिधान माना जाता है, तब जीवरूप से ब्रह्म की उत्पत्ति का प्रतिपादन अनुपयुक्त हो जाता है और जीव की द्रष्टव्यता का अभिधान मानने पर उक्त समुत्थान का कथन उपयुक्त हो जाता है—इस प्रकार पूर्वपक्षी का उपक्रम मात्र है और "भोक्त्रर्थत्वाच्च भोग्यजातस्य"—ऐसा कहना उस उपक्रम का उपोद्वलक ( पोषक ) है। फलतः पूर्वपक्ष उपपन्न हो जाता है, जिसके निराकरण में अधिकरण की सार्थकता सिद्ध हो जाती है। सिद्धान्त-भाष्य नितान्त सुबोध ॥ १९ ॥

पौर्वापर्य की आलोचना से मैत्रेयी ब्राह्मण की ब्रह्म-दर्शनपरता निश्चित हो जाने पर जो यह प्रश्न उठता है कि भोक्तारूप जीव का उपक्रम इस ब्राह्मण में क्यों किया गया ?