भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 607, कुल 639 में से
संदर्भ में पढ़ेंसत्कार्यवादः ] | हिन्दीसहितभामतीसंवलितम् | ५८९
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः—‘असदेवेदमग्र आसीत्’ (छा० ३।१९।१) इति, ‘असद्वा इदमग्र आसीत्’ (तै० २।७।१) इति च । तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत्, नेति ब्रूमः,—न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः, किं तर्हि ? व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य । कथमेतदवगम्यते ? वाक्यशेषात् । यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषात्निश्चीयते । इह च तावत् ‘असदेवेदमग्र आसीद्’ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ‘तत्सदासीत्’ इति । असतश्च पूर्वापरकालासंबंधादासीच्छब्दानुपपत्तेश्च । ‘असद्वा इदमग्र आसीद्’ इत्यत्रापि ‘तदात्मानं स्वयमकुरुत’ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् । तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य । नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् । अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ १७ ॥
युक्तेः शब्दान्तराच्च ॥ १८ ॥
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च । युक्तिस्तावद्वर्ण्यते—दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरं, तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते ? न मृत्तिकायाः ? मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् । अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था
भामती
व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ । सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ १७ ॥
ॐ अतिशयवत्त्वात्प्रागवस्थायाः इति ॐ । अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति । ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य
भामती-व्याख्या
संगत है । मण्डनमिश्र भी कहते हैं— “अभेदोपादानो भेदः” (ब्र० सि० पृ० ७०) ॥ १६ ॥
श्रुतियों में जो कार्य प्रपञ्च को कभी असत् कहा गया है—"असद्वा इदमग्र आसीत्”, (तै. उ. २।७।१) । वहाँ असत्त्वका अर्थ अव्याकृतत्व (अनभिव्यक्तत्व) है । जगत् अव्याकृत से व्याकृत होता है । व्याकृतत्व और अव्याकृतत्व—दोनों धर्म अनिर्वचनीय माने जाते हैं । शेष भाष्य अत्यन्त सुगम है ॥ १७ ॥
[ सांख्याचार्यों ने जिन असदकरण, उपादान-ग्रहण, सर्वसम्भवाभाव, शक्ताच्छक्योत्पत्ति, कारणात्मत्वादि युक्तियों के द्वारा सत्कार्यवाद की सिद्धि की है । सम्भवतः सूत्रकार ने उन्हीं युक्तियों का स्मरण यहाँ किया है—"युक्तेः" ] । दूध से दधि बनता है, मृत्तिका से नहीं, अतः दधि की पूर्वावस्था दूध में सत् मानी जाती है, फलतः असत्कार्यवाद की हानि और सत्कार्यवाद की सिद्धि होती है, क्योंकि मृत्तिका से दूध में जो विशेषता या अतिशय है, वह एक ऐसा धर्म है, जो कि दधि की पूर्वावस्था में ही रहेगा । 'यदि कहा जाय कि कार्य की पूर्वावस्था दूध से ही दधि होने का नियामक नहीं, अपितु कारण की शक्ति नियामक है,