भविष्य पुराण
Bhavishya Purana
महर्षि वेदव्यास द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press Gorakhpur (उद्गम)
पृष्ठ 211, कुल 654 में से
संदर्भ में पढ़ें२००
- संक्षिप्त भविष्यपुराण *
खट्वाङ्ग धारण किये हुए, शक्तिसे युक्त, मयूरवाहन, कृतिका और भगवान् रुद्रसे उद्भूत, समस्त देवताओंसे अर्चित तथा आदित्यसे वरप्राप्त भगवान् कार्तिकेय अपने तेजसे आपको बल, सौख्य एवं शान्ति प्रदान करें। हाथमें शूल एवं श्वेत वस्त्र धारण किये हुए, स्वर्ण-आभायुक्त, भगवान् सूर्यकी आराधना करनेवाले, तीन नेत्रोंवाले नन्दीश्वर आपको
धर्ममें उत्तम बुद्धि, आरोग्य एवं शान्ति प्रदान करें। चिकने अञ्जनके समान आभायुक्त, महोदर तथा महाकाय नित्य अचल आरोग्य प्रदान करें। नाना आभूषणोंसे विभूषित नागको यज्ञोपवीतके रूपमें धारण किये हुए, समस्त अर्थ-सम्पत्तियोंके उद्धारक, एकदन्त, उत्कट-स्वरूप, गजवक्त्र, महाबलशाली, गणोंके अध्यक्ष, वरप्रदाता, भगवान् सूर्यकी अर्चनामें
ऐन्द्रादयो गणा ये तु वज्रहस्ता महाबलाः । हिमकुन्देन्दुसदृशा नीलकृष्णाङ्गलोहिताः ॥ दिव्यान्तरिक्षा भौमाश्च पातालतलवासिनः । ऐन्द्राः शान्तिं प्रकुर्वन्तु भद्राणि च पुनः पुनः ॥ आग्नेय्यां ये भूताः सर्वे ध्रुवहत्यानुषङ्गिनः । सूर्यानुरक्ता रक्ताभा जगसुमनिभास्तथा ॥ विरकलोहिता दिव्या आग्नेय्यां भास्करादयः । आदित्याराधनपरा आदित्यगतमानसाः ॥ शान्तिं कुर्वन्तु ते नित्यं प्रयच्छन्तु बलिं मम ।
भयादित्यसमा ये तु सततं दण्डपाणयः । आदित्याराधनपराः शं प्रयच्छन्तु ते सदा ॥ ऐशान्यां संस्थिता ये तु प्रशान्ताः शूलपाणयः । भस्मोद्भूतदेहाश्च नीलकण्ठा विलोहिताः ॥ दिव्यान्तरिक्षा भौमाश्च पातालतलवासिनः । सूर्यपूजाकरा नित्यं पूजयित्वांशुमालिनम् ॥ ततः सुप्रीतमनसो लोकपालैः समन्विताः । शान्तिं कुर्वन्तु मे नित्यं शं प्रयच्छन्तु पूजिताः ॥ अमरावती पुरी नाम पूर्वभागे व्यवस्थिता । विद्याधरगणाकीर्णा सिद्धगन्धर्वसेविता ॥ रत्नप्राकाररुचिरा महारत्नोपशोभिता ।
तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः । गोपतिर्गोसहस्रेषु शोभमानेन शोभते ॥ ऐरावतगजारूढो गैरिकाभो महाद्युतिः । देवेन्द्रः सततं हृष्ट आदित्याराधने रतः ॥ सूर्यज्ञानैकपरमः सूर्यभक्तिसमन्वितः । सूर्यप्रणामः परमां शान्तिं तेष्व प्रयच्छतु ॥ आग्नेयदिग्विभगो तु पुरी तेजस्वती शुभा । नानादेवगणाकीर्णा नानारत्नोपशोभिता ॥ तत्र ज्वालासमाकोर्णा दीप्ताङ्गारसमद्युतिः । पुरगो दहनो देवो ज्वलनः पापनाशनः ॥ आदित्याराधनरत आदित्यगतमानसः । शान्तिं करोतु ते देवस्तथा पापपरिक्षयम् ॥ वैवस्वती पुरी रम्या दक्षिणेन महात्मनः । सुरासुरशताकीर्णा नानारत्नोपशोभिता ॥ तत्र कुन्देन्दुसंकाशो हरिपिङ्गललोचनः । महामहिषमारुढः कृष्णस्वस्वरूपभूषणः ॥ अन्तकोऽथ महातेजाः सूर्यधर्मपरायणः । आदित्याराधनपरः क्षेमारोग्ये ददातु ते ॥ नैऋते दिग्विभगो तु पुरी कृष्णोति विश्रुता । महारक्षोगणाशीचपिशाचप्रेतसंकुला ॥ तत्र कुन्दनिभो देवो रक्तस्वस्वरूपभूषणः । खड्गपाणिर्महातेजाः करालवदनीज्ज्वलः ॥ रक्षेन्द्रो वसते नित्यमादित्याराधने रतः । करोतु मे सदा शान्तिं धनं धान्यं प्रयच्छतु ॥ पश्चिमे तु दिशो भागे पुरी शुद्धवती सदा । नानाभोगिसमाकोर्णा नानाकिन्नरसेविता ॥ तत्र कुन्देन्दुसंकाशो हरिपिङ्गललोचनः । शान्तिं करोतु मे प्रीतः शान्तः शान्तेन चेतसा ॥ यशोवती पुरी रम्या ऐशान्यां दिशमाश्रिता । नानागणसमाकीर्णा नानाकृतशुभालया । तेजःप्रकारपर्यन्ता अनौपम्या सदोज्ज्वला ॥ तत्र कुन्देन्दुसंकाशश्चाम्बुजाक्षो विभूषितः ।
त्रिनेत्रः शान्तरूपात्मा अक्षमालाधराधरः । ईशानः परमो देवः सदा शान्तिं प्रयच्छतु ॥ भूलोके तु भुवलोके निवसन्ति च ये सदा । देवादेवाः शुभायुक्ताः शान्तिं कुर्वन्तु ते सदा ॥ जनलोके महलोक परलोक गताश्च ये । ते सर्वे मुदिता देवाः शान्तिं कुर्वन्तु ते सदा ॥ सरस्वती सूर्यभक्ता शान्तिदा विदधातु मे ।
चारुचामीकरस्था या सरोजकरपल्लवा । सूर्यभक्त्याश्रिता देवी विभूतिं ते प्रयच्छतु ॥ हारेण सुविचित्रेण भास्वत्कनकमेखला । अपराजिता सूर्यभक्ता करोतु विजयं तव ॥
(ब्राह्मपर्व १७८ । १-४८)
In Public Domain. Digitized by Sarvagya Sharda Peeth