बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 104, कुल 152 में से
संदर्भ में पढ़ें१०६ बीजगणिते शेषं ततः क्षेपकमुकवच्च मूले विदध्यादसकृत् समत्वे ॥ ९ ॥ सम्भाविते वर्णकृती तु यत्र तन्मूलमादाय च शेष कस्य । इष्टोद्धृतस्येष्टवियर्जितस्य दलेन तुल्यं हि तदेव कार्यम् ॥ १० ॥ यत्र प्रथमपक्षमूले गृहीते द्वितीयपक्षे वर्णयोः कृती सरूपे अरूपे वा भवतस्तत्रैकां वर्णकृतिं प्रकृतिं प्रकल्प्य शेषं क्षेपम् । तत “इष्टं ह्रस्वं तस्य वर्गः प्रकृत्या क्षुण्ण” इत्यादि करणेन क्षेपजातीयं वर्णमेका द्विहतं युतं वा स्वबुद्ध्या कनिष्ठपदं प्रकल्प्य ज्येष्ठं साध्यम् । यथ वर्गगता चेत् प्रकृतिरिति तदा “इष्टभक्तो द्विधा क्षेप” इत्यादिना मूले साध्ये यत्र भावितं च वर्त्तते तत्र “सम्भाविते वर्णकृती तु” इत्यादिना तदन्तर्वर्त्तिनो यावतो मूलमस्ति तावतो मूलं ग्राह्यम् । शेषस्येष्टोद्धृ- तस्येष्टवियर्जितस्य दलेन समं तदेव मूलं कार्यम् । यत्र तु द्वित्र्यादयो वर्णवर्गादयो भवन्ति तत्र द्वाविमौ वर्णौ मुक्त्वाऽन्येषामिष्टानि मानानि कृत्वा मूले साध्ये । एवं तदैव यदाऽसकृत् समीकरणं यदा तु सकृ- देव समीकरणं तदैकं वर्णं मुक्त्वाऽन्येषामिष्टानि मानानि कृत्वा प्रा- ग्वन्मूले । उदाहरणम् । तौ राशी वद यत्कृत्योः सप्ताष्टगुणयोर्युतिः । मूलदा स्याद्वियोगस्तु मूलदो रूपसंयुतः ॥ १ ॥ अत्र राशी या १, का १ । अनयोर्वर्गयोः सप्ताष्टगुणयोर्युतिः याव ७ काव ८ । अयं वर्ग इति नीलकवर्गेण समीकरणार्थं न्यासः— याव ७ काव ८ नीव ० । याव ० काव ० नीव १ । समशोधने कृते कालकवर्गाष्टकं प्रक्षिप्य गृहीतं नीलकपक्षस्य मूलम् नी १ । परपक्षस्यास्य याव ७ काव ८ । वर्गप्रकृत्या मूले तत्र या- वत्ताद्वर्गे योऽङ्कः सा प्रकृतिः शेषं क्षेपः काव ८ । “इष्टं ह्रस्वम्” इत्यादि- ना कालकद्वयमिष्टं प्रकल्प्य जाते मूले कनिष्ठम् का २ । ज्येष्ठम् का ६ । • ज्येष्ठं नीलकमानं कनिष्ठं यावत्तावन्मानं तेन यावत्तावदुत्थाप्य जातौ राशी का २, का १ । पुनरेतद्वर्गयोः सप्ताष्टगुणयोरन्तरं सैकं जातम् काव २० रू १ । एतद्वर्ग इति प्राग्वल्लब्धं कनिष्ठमूलम् २ वा ३६ । एतत्कालमानेनोत्थापितौ जातौ राशी ४, २ वा ७२, ३६