बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 106, कुल 152 में से
संदर्भ में पढ़ेंगृहीतम् या ६ का ३। शेषस्यास्य काव २७। इष्टेन कालकेन हत- स्येष्टकालकवर्जितस्य च दलेन का १३। तन्मूलं समं कृत्वा लब्धं यावत्तावन्मानम् का ५/३। अनेन यावत्तावदुत्थाप्य जातौ राशी का ५/३, का १। अनयोर्वर्गयुतेः काव ३४/९ घातयुतायाः काव ४९/९ मू- लम् का ७/३। अनेन राशियोगो का ८/३ गुणितः काव ५६/९ सरूपो जात: (का ५६ रु ९)/९ । अमुं पीतकवर्गसमं कृत्वा समच्छेदीकृत्य पक्ष- योर्नव रूपाणि प्रक्षिप्य लब्धं कनिष्ठमूलम् ६ वा १८०। एतत्कालक- मानमित्यनेनोत्थापितौ जातौ राशी १०, ६। वा ३००, १८०। एवम- नेकधा। अथोदाहरणम्। राश्योर्ययोः कृतियुतिवियुती चैकेन संयुते वर्गौ। रहिते वा तौ राशी गणयित्वा कथय यदि वेत्सि ॥ ४ ॥ अथ प्रथमोदाहरणे कल्पितौ राशिवर्गौ याव ४, याव ५ रु १। अनयोर्योगवियोगौ रूपयुतौ मूलदौ भवतः। कथितप्रथमवर्गस्य मूल- मेको राशिः या २। द्वितीयस्यास्य याव ५ रु १ वर्गप्रकृत्या मूले क १ ज्ये २ वा क १७ ज्ये ३८। अनयोर्ज्येष्ठऽयं द्वितीयराशिः। ह्रस्वे यावत्तावन्मानेनोत्थाप्याद्यराशिः। एवं जातौ राशी २, २ वा ३४, ३८। अथ द्वितीयोदाहरणे तथैव कल्पितः प्रथमराशिः या २। द्विती- यस्यास्य याव ५ रु १। वर्गप्रकृत्या मूले क ४ ज्ये ९ वा क ७२ ज्ये १६१। कनिष्ठेन प्रथम उत्थापितो ज्येष्ठं द्वितीय इति जातौ राशी ८, ९ वा १४४, १६१। यत्रालपराशिद्विगुणेन यो राशिरूनितो युतश्च मूलदः स्यात् स तावद्व्यक्त एव द्वितीयो ज्ञेयः। तस्यानयनेऽप्युपायस्तत्तथा-