बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 119, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णमध्यमाहरणभेदाः । १२१ अथ चाऽन्यवर्णकल्पनायां मन्दावबोधार्थं पूर्वैरुपायः पठितः । तत्र सूत्राणि । हरभक्ता यस्य कृतिः शुध्यति सोऽपि द्विरूपपदगुणितः तेनाहतोऽन्यवर्णो रूपपदेनान्वितः कल्प्यः ॥ १६ ॥ न यदि पदं रूपाणां क्षिपेद्धरं तेषु हारतष्टेषु । यावद्याद्वर्गो भवति न चेदेवमपि खिलं तर्हि ॥ १७ ॥ हित्वा क्षिप्त्वा च पदं यत्राद्यस्येह भवति तत्रापि । आलापित एव हरो रूपाणि तु शोधनादिसिद्धानि ॥ १८ ॥ , हरभक्तेति । यस्याङ्कस्य कृतिर्हरभक्ता सती शुध्यतीति निःशेषा भवति अपि च सोऽप्यङ्को द्वाभ्यां रूपपदेन च गुणितो हरभक्तः सन् शुध्यति तदा तेनाङ्केन हतोऽन्यवर्णस्तेन रूपेणान्वितः कल्प्यः । यदि तु रूपाणां पदं न तदा तेषु हरतष्टेषु रूपेषु तावद्धरं क्षिपेत् यावद्वर्गो भवेत् तन्मूलं रूपपदं भवेत् । एवमपि कृते चेद्वर्गः कदाचिन्न भवेत् तदा तदुदाहरणं खिलं स्यात् । यत्र तु आद्यपक्षस्य मूलं "हित्वा क्षिप्त्वा" (१)इत्यादिना लभ्यते तदा हर आलापित एव ग्राह्यो न तु गुणितो विभक्तो वा । रूपाणि तु समशोधने कृते शोधनादिसिद्धानि यानि तान्येव ग्राह्याणि । एवं घनेऽपि योज्यं तद्यथा यस्याङ्कस्य घनो हरभक्तः शुध्यति तथा च सोऽप्यङ्कस्त्रिभी रूपाणां घनमूलेन च गुणितो हरभक्तः शुध्यति तदा तेनाङ्केन हतोऽन्यवर्णो रूपाणां घनमूलेन चान्वितः कल्प्यः । यदि रूपाणां घनमूलं न लभ्यते तदा तेषु रूपेषु हरतष्टेषु तावद्धरं क्षिपेद्यावद्धनो भवेत् । तच्च घनमूलं रूपपदं स्यात् । एवमपि कृते च घनः कदाचिन्न भवेत् तदुदाहरणं खिलं स्यादित्यग्रेऽपि योज्यमिति शेषः । अथ द्वितीयोदाहरणे राशिः या १ । अस्य यथोक्तं कृत्वाऽऽद्यपक्षस्य मूलम् या १ । परपक्षस्यास्य का ७ रु ३० । "न यदि पदं रूपाणाम्"- इत्यादिकरणेन हारतष्टरूपेषु द्विगुणं(२) हरं प्रक्षिप्य मूलम् ४ । एतद- धिकनीलकसप्तकवर्गसमीकरणादिना प्राग्वज्जातो राशिः नी ७ रु ४ । ( १ ) वि० दा०- "त्यक्त्वा क्षिप्ता नाऽपि-"इत्यादिपूर्वपाठ । ( २ ) वि० दा०-एकगुणं हरं प्रक्षिप्यापि मूलम् ३ । एतदधिकनीलकसप्तक- वर्गसमीकरणादिनाऽपि राशि नी ७ रु ३ । १६