भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 124, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 124

१२६ बीजगणिते न्यासः । का (ऊर्ध्वम्), या १ (दक्षे) [चित्रम् १] अत्र क्षेत्रान्तर्यावत्सावच्चतुष्टयं वर्त्तते कालकत्रयं द्वे च रूपे । अतः क्षेत्रा- द्यावत्तावच्चतुष्टये रूपचतुष्टयोनका-* लके स्वाङ्कगुणे चापनीते जातम् (१)। द्वितीयपक्षे च तथा कृते जातम् न्यासः । ४ (ऊर्ध्वम्), या (वामे), ३ (दक्षे), का (अधः) [चित्रम् २] १४ । एतद्भावितक्षेत्रान्तर्वर्त्तिनो- ऽवशिष्टक्षेत्रस्याधस्तनस्य फलं तद्भु- जकोटिवधाज्जातम्। ते चात्र ज्ञातव्ये। अत इष्टो भुजः कल्पितस्तेन फलेऽस्मिन् १४ भक्ते कोटिर्लभ्यते अनयोर्भुजकोट्योरेकतरा यावत्तावदङ्कतुल्यै रूपैः ४ अधिकतरा सती भावितक्षेत्रस्य कोटिर्भवति यतो भावितक्षेत्राद्यावच्चतुष्टयेऽपनीते तत्कोटिश्चतुरूना जाता। एवं कालकतुल्यै रूपैः ३ अधिकतरो भुजो भवति ते एव यावत्तावत्कालकमाने।

  • अत्र मूले लेखकप्रमादाद्धेतुदोषे काचित् त्रुटि(१)रस्ति तदर्थं कृष्णदैव- ज्ञकृता नवाङ्कुराख्या बीजगणितटीका विलोक्या । ( १ ) वि० श०-स्पष्टार्थं कल्प्यते यथा भु = या, को = का । एते भावितक्षेत्रस्य भुजकोटी इति । तत भा.क्षे.फ. = या. का । अस्मात् क्षेत्राद्यादि ४ या, ३ (का - ४) एतद्द्वयं विशोध्यते शेषमानम् = या. का - ४या - ३ (का - ४) = (या - ३) (का - ४) । अथ या. का = ४ या + ३ का + २ । अतः शेषमानम् = (४या + ३का + २) - ४या - ३का + १२ = १४ एतद् वर्णाङ्कयोर्घातेन रूपयुतेन वर्ज. वैभं + रू अनेन समानमिति । ( १ ) वि०श०-“रूपचतुष्टयोनकालके स्वाङ्कगुणे” वा “कालके रूपचतुष्टयो- नेऽथ स्वाङ्कगुणे” इह न का चित् त्रुटिरस्ति । वस्तुतो नवाङ्कुराटीकाकारस्य कृष्णदैव- ज्ञस्य यावद्बाहुल्यतोऽन्यत् किमपि न सारमिति विद्भिर्विवेचनीयम् ।