बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 124, कुल 152 में से
संदर्भ में पढ़ें१२६ बीजगणिते न्यासः । का (ऊर्ध्वम्), या १ (दक्षे) [चित्रम् १] अत्र क्षेत्रान्तर्यावत्सावच्चतुष्टयं वर्त्तते कालकत्रयं द्वे च रूपे । अतः क्षेत्रा- द्यावत्तावच्चतुष्टये रूपचतुष्टयोनका-* लके स्वाङ्कगुणे चापनीते जातम् (१)। द्वितीयपक्षे च तथा कृते जातम् न्यासः । ४ (ऊर्ध्वम्), या (वामे), ३ (दक्षे), का (अधः) [चित्रम् २] १४ । एतद्भावितक्षेत्रान्तर्वर्त्तिनो- ऽवशिष्टक्षेत्रस्याधस्तनस्य फलं तद्भु- जकोटिवधाज्जातम्। ते चात्र ज्ञातव्ये। अत इष्टो भुजः कल्पितस्तेन फलेऽस्मिन् १४ भक्ते कोटिर्लभ्यते अनयोर्भुजकोट्योरेकतरा यावत्तावदङ्कतुल्यै रूपैः ४ अधिकतरा सती भावितक्षेत्रस्य कोटिर्भवति यतो भावितक्षेत्राद्यावच्चतुष्टयेऽपनीते तत्कोटिश्चतुरूना जाता। एवं कालकतुल्यै रूपैः ३ अधिकतरो भुजो भवति ते एव यावत्तावत्कालकमाने।
- अत्र मूले लेखकप्रमादाद्धेतुदोषे काचित् त्रुटि(१)रस्ति तदर्थं कृष्णदैव- ज्ञकृता नवाङ्कुराख्या बीजगणितटीका विलोक्या । ( १ ) वि० श०-स्पष्टार्थं कल्प्यते यथा भु = या, को = का । एते भावितक्षेत्रस्य भुजकोटी इति । तत भा.क्षे.फ. = या. का । अस्मात् क्षेत्राद्यादि ४ या, ३ (का - ४) एतद्द्वयं विशोध्यते शेषमानम् = या. का - ४या - ३ (का - ४) = (या - ३) (का - ४) । अथ या. का = ४ या + ३ का + २ । अतः शेषमानम् = (४या + ३का + २) - ४या - ३का + १२ = १४ एतद् वर्णाङ्कयोर्घातेन रूपयुतेन वर्ज. वैभं + रू अनेन समानमिति । ( १ ) वि०श०-“रूपचतुष्टयोनकालके स्वाङ्कगुणे” वा “कालके रूपचतुष्टयो- नेऽथ स्वाङ्कगुणे” इह न का चित् त्रुटिरस्ति । वस्तुतो नवाङ्कुराटीकाकारस्य कृष्णदैव- ज्ञस्य यावद्बाहुल्यतोऽन्यत् किमपि न सारमिति विद्भिर्विवेचनीयम् ।