बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 126, कुल 152 में से
संदर्भ में पढ़ें१२८ बीजगणिते उदाहरणम् । द्विगुणेन कयोः राश्योर्घातेन सदृशं भवेत् । दशेन्द्रहृतराश्यैक्यं व्यूनषष्टिविवर्जितम् ॥ १ ॥ अत्र राशी या १, का १ । अनयोर्यथोक्ते कृते भाविताङ्केन भक्ते जातम् या ५ का ७ रु २६ । अत्र वर्णाङ्काहतिरूपैक्य ६ द्विहतमि- ष्टफले २, ३ । आभ्यां वर्णाङ्कौ युतौ राशी १०, ७ वा ९, ८ । वा ऊनितौ जातौ ४, ३ वा ५, २ । उदाहरणम् । त्रिपञ्चगुणराशिभ्यां युतो राश्योर्वधः कयोः । द्विषष्टिप्रमितो जातो राशिं त्वं वेत्सि चेद्वद ॥ २ ॥ अत्र यथोक्ते कृते जातौ पक्षौ { या ३ का ५ रु ६२ । वर्णाङ्काह- या.का.भा तिरूपैक्यम् ७७ । इष्टतत्फले ७, ११ । आभ्यां वर्णाङ्कौ युतावेव कार्यौ इष्टतत्फलाभ्यामाभ्याम् ७, ११ ऊनितौ चेद्विधीयेते तदा ऋणगतौ भवतोऽत आभ्यां ७, ११ युतौ जातौ राशी ६, ४ वा २, ८ । ऊनि- तौ १२, १४, वा १६, १० । अथ पूर्वचतुर्थोदाहरणम् । यौ राशी किल या च राशिनिहतिर्या राशिवर्गौ तथा तेषामैक्यपदं सराशियुगलमिति । अत्र राशी या १, का १ । अनयोर्घातयुतिवर्गाणा योगः याव १ काव १ या का भा १ या १ का १ । अस्य मूलाभावाद्रा- शिद्वयोनायास्त्रयोविंशते. या १ का १ रु २३ वर्गेणानेन याव १ काव १ या. का. भा २ या ४६ का ४६ रु ५२९, साम्यम् । तत्र समयोगवियोगादी समतैनेति समयवर्गगमे शोधने च कृते भाविताङ्केन हृते जातम्— या ४७ का ४७ रु ५२९ । अत्र वर्णाङ्काहति रूपयुता १६८० । इयं चत्वारिंशतेष्टेन हृता फलम् ४२, इष्टम् ४० । अत्रेष्टफलाभ्यामाभ्यां वर्णाङ्कावूनावेव कार्यो तेन जातौ राशी ७, ५ । युतौ चेत् क्रियेते तर्हि जाता त्रयोविंशतिरिति पूर्वार्लापे न घटते । पूर्वोदाहरणम् । पञ्चाशत् त्रियुताऽथ वेति ।