बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 6, कुल 152 में से
संदर्भ में पढ़ें२ बीजगणिते योगे युतिः स्यात् क्षययोः स्वयोर्ध्वा धनर्णयोर्(१)न्तरमेव योगः । उदाहरणम् । रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु । स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः संकलनामवैषि ॥१॥ अत्र (२)रूपाणामव्यक्तानां चाद्याक्षरगण्युपलक्षणार्थं लेख्यानि यानि ऋणगतानि तान्यूर्ध्वबिन्दूनि च । न्यासः-(३)रू ३̇ रू ४̇ योगे जात रू ७̇ । ,, रू ३ रू ४ ,, ७ । ,, रू ३ रू ४̇ ,, १̇ । ,, रू ३̇ रू ४ ,, १ । एवं विभिन्नेष्वपि । धनर्णव्यवकलने करणसूत्रं वृत्तार्धम् । (४) संशोध्यमानं स्वमृणत्वमेति स्वत्वं (५)क्षयस्तद्युतिरुक्तवच्च ॥१॥ (१) वि० श०—धनर्णयोरन्तरमेव योगो भवति स च धनपरमो ऋणपरमो वेक्ष्यतेऽतो यस्य शेषं तदात्मकम् । अत्र नारायण स्वकृतबीजे— “योगे धनयोः क्षययोर्योगः स्यात् स्वर्णयोर्विवरम् । अधिकादूनमपास्य च शेषं तद्भावमुपयाति ॥” इति स्पष्टम् । (२) वि० श०—रु इति व्यक्तज्ञापकम् । रूपद्विविधकथनानन्तरमव्यक्तप्रक- रणमिति । (३) वि० श०—रू ३̇ रू ४̇ एतत् रू ७̇ समम् । नव्यरीत्या-३-४=-(३+४) =-७ । ३+४=७ । ३-४=-१ । -३+४=१ (४) अत्रोपपत्ति । यदि रूपत्रयधनाद्रूपद्वयधनं विशोध्यते तदा रूपं धनं शिष्टमेवं रूपत्रयात् ऋणाद्यदि रूपद्वयमृणं विशोष्यतेऽर्थाद्देयं क्रियते तदा रूपमात्रमृणं स्यादिति सुगमम् । अथैकस्य रूपत्रयं धनं रूपद्वयं च ऋणमासीत्, साम्प्रतं रूपद्वयर्णस्य विशोधनं जातमर्थाद्येन तदृणं दत्तं तेन न गृहीतोऽहं भवते दत्तवान् तद्रूपद्वयमिति कथ्यते तदा साम्प्रतं तस्य निकटे रूपपञ्चकं जातमेव यदि रूपत्रयमृणं रूपद्वयं धनं स्यात् तस्य रूपद्वयधनस्य च विशोधनं भवेदर्थात् तद्रूपद्वयं धनं यदि ऋणरूपं स्यात् तदा सर्वमृणं रूपपञ्चकं स्यादेवेति । (५) वि० श०—संशोध्यमानं क्षयः स्वत्वं धनत्वमेति । अनुकूलमार्गो धनं तत्प्र