भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 61, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 61

६२ बीजगणिते उदाहरणम् । पार्थः कर्णवधाय मार्गणगणं क्रुद्धो रणे संदधे तस्यार्धेन निवार्य तच्छरगणं मूलैश्चतुर्भिर्हयान् । शल्यं षड्भिरथेषुभिस्त्रिभिरपि च्छत्रं ध्वजं कार्मुकं चिच्छेदास्य शिरः शरेण कति ते यानर्जुनः संदधे ॥२॥ अत्र बाणसंख्या=याव १ । अस्यार्धम्=याव १/२ । चतुर्गुणितानि मूलानि=या ४ । व्यक्तमार्गणगणः रू=१० । एषामैक्यमस्य याव १समं कृत्वा लब्धयावत्तावन्मानेन १० उत्थापिता जाता बाणसंख्या=१०० । उदाहरणम् । द्येकस्य गच्छस्य दलं किलादिरादेर्दलं तत्प्रचयः फलं च । चयादिगच्छाभिहतिः स्वसप्तभागाधिका ब्रूहि चयादिगच्छान् ॥ ३ ॥ अत्र गच्छः=(१) या ४ रू १ । आदिः=या २ । प्रचयः=या १ ।

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक) · पृष्ठ 61, कुल 152 में से · BharatKosha