भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 62, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 62

अव्यक्तवर्गादिसमीकरणम् । ६३ तमेव । आद्येन या १ युक्तो जातः या २ । नवोनितः=या २ रू ६ । वर्गितः याव ४ या ३६ रू ८१ । स्वपदेन या २ रू ६ युतो याव ४ या३४ रू ७२ । अयं शून्यगुणो नवतिसम इति शून्येन गुणिते प्राप्ते "शून्ये गुणके जाते खं हारश्चेत्" इति पूर्वं शून्यो हर इदानीं गुणस्तस्मादु- भयोर्गुणहरयोर्नाशः, एवं पक्षौ याव ४ या ३४ रू ७२ । याव ० या ० रू ९० । समशोधनात् पक्षशेषे याव ४ या ३४ रू ० । याव ० या ० रू १८ । एतौ पक्षौ षोडशभिः संगुण्य चतुरिंशद्वर्गतुल्यानि रूपाणि प्रक्षि- प्य मूले गृहीत्वा पक्षयोः शोधनार्थे न्यासः या ८ रू ३४ = या ० रू ३८ । उक्तवज्जातो राशि = ९ । अत्र "वाऽऽद्ययुक्तोऽथ खोनित" इति पाठे राशिः = या १ । खहृतः= या १/० । आद्येन या १ युक्तोनीकरणाय खहरत्वात् समच्छेदीकरणेन शून्येनैव युतोनितः स एव या १/० । वर्गितः याव १/० । स्वपदेनाढ्यः= याव १ या १/० । अयं खगुणः पूर्वं खहरत्वादुगुणहरयोर्नाशे कृते जातः = याव १ या १ । अयं नवतिसम इति समशोधनार्थे न्यासः । याव १ या १ रू ० । याव ० या ० रू ९० । समशोधने कृते पक्षाविमौ चतुर्भिः संगुण्य एकं क्षिप्त्वा मूले या २ रू १ । या ० रू १९ । अत्र समशोधनाज्जातः प्राग्वद्राशि = ९ । उदाहरणम् । कः स्वार्धसहितो राशिः खगुणो वर्गितो युतः । स्वपदाभ्यां खभक्तश्च जातः (ख)पञ्चदशोच्यताम् ॥ ५॥ अत्र राशिः = या १ । अयं स्वार्धयुतः = या ३/२ । खगुणः खं न कार्यः १ (ख) वि० पु०-खजपदयुत् करणेन पञ्चदश जातः । यसौ राशिरुच्यतामिति ।