बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 62, कुल 152 में से
संदर्भ में पढ़ेंअव्यक्तवर्गादिसमीकरणम् । ६३ तमेव । आद्येन या १ युक्तो जातः या २ । नवोनितः=या २ रू ६ । वर्गितः याव ४ या ३६ रू ८१ । स्वपदेन या २ रू ६ युतो याव ४ या३४ रू ७२ । अयं शून्यगुणो नवतिसम इति शून्येन गुणिते प्राप्ते "शून्ये गुणके जाते खं हारश्चेत्" इति पूर्वं शून्यो हर इदानीं गुणस्तस्मादु- भयोर्गुणहरयोर्नाशः, एवं पक्षौ याव ४ या ३४ रू ७२ । याव ० या ० रू ९० । समशोधनात् पक्षशेषे याव ४ या ३४ रू ० । याव ० या ० रू १८ । एतौ पक्षौ षोडशभिः संगुण्य चतुरिंशद्वर्गतुल्यानि रूपाणि प्रक्षि- प्य मूले गृहीत्वा पक्षयोः शोधनार्थे न्यासः या ८ रू ३४ = या ० रू ३८ । उक्तवज्जातो राशि = ९ । अत्र "वाऽऽद्ययुक्तोऽथ खोनित" इति पाठे राशिः = या १ । खहृतः= या १/० । आद्येन या १ युक्तोनीकरणाय खहरत्वात् समच्छेदीकरणेन शून्येनैव युतोनितः स एव या १/० । वर्गितः याव १/० । स्वपदेनाढ्यः= याव १ या १/० । अयं खगुणः पूर्वं खहरत्वादुगुणहरयोर्नाशे कृते जातः = याव १ या १ । अयं नवतिसम इति समशोधनार्थे न्यासः । याव १ या १ रू ० । याव ० या ० रू ९० । समशोधने कृते पक्षाविमौ चतुर्भिः संगुण्य एकं क्षिप्त्वा मूले या २ रू १ । या ० रू १९ । अत्र समशोधनाज्जातः प्राग्वद्राशि = ९ । उदाहरणम् । कः स्वार्धसहितो राशिः खगुणो वर्गितो युतः । स्वपदाभ्यां खभक्तश्च जातः (ख)पञ्चदशोच्यताम् ॥ ५॥ अत्र राशिः = या १ । अयं स्वार्धयुतः = या ३/२ । खगुणः खं न कार्यः १ (ख) वि० पु०-खजपदयुत् करणेन पञ्चदश जातः । यसौ राशिरुच्यतामिति ।