भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 8, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 8

४ बीजगणिते उदाहरणम् । धनं धनेनर्णमृणेन निघ्नं द्वयं क्षयेण स्वमृणेन किं स्यात् ॥ १ ॥ न्यासः—रू २ रू ३ धनं धनघ्नं धनं स्यादिति जातम् रू ६ । ” रू २̇ रू ३̇ ऋणमृणघ्नं धनं ” रू ६ । ” रू २ रू ३̇ धनमृणगुणमृणं ” रू ६̇ । ” रू २̇ रू ३ ऋणं धनगुणमृणं ” रू ६̇ । इति धनर्णगुणनम् । (१)भागहारेऽपि चैवं निरुक्तमिति । उदाहरणम् । रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् । ऋणं धनेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि विबुधीषि ॥ १ ॥ न्यासः—रू ८ रू ४ धनं धनहृतं धनं स्यादिति जातम् रू २ । ” रू ८̇ रू ४̇ ऋणमृणहृतं ” रू २ । ” रू ८̇ रू ४ ऋणं धनहृतमृणं स्यादिति जातम् रू २̇ । ” रू ८ रू ४̇ धनमृणहृतमृणं ” रू २̇ । इति धनर्णभागहारः । वर्गे मूले च करणसूत्रे वृत्तार्धम् । (२)कृतिः स्वर्णयोः स्वं स्वमूले धनर्णे न मूलं क्षयस्यास्ति तस्या कृतित्वात् ॥ २ ॥ वर्गोदाहरणम् । धनस्य रूपत्रितयस्य वर्गं क्षयस्य च ब्रूहि सखे ममाशु । न्यासः—रू ३ । रू ३̇ । जातौ वर्गौ रू ९ । रू ९ । (१) अत्रोपपत्तिर्गुणनोपपत्तिरेवेत्येवनातिगद्यते । (२) अत्रोपपत्तिः । समाद्विघात इति परिभाषया धनर्णगुणनयुक्त्या चातिसरला ।