भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 86, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 86

अनेकवर्णसमीकरणम् । ८७ अयमेव पञ्चापहतश्चतुरग्र इति लब्धं नीलकं प्रकल्प्य तद्गुणित- हरेण स्वाग्रयुतेन नी ५ रु ४ समीकरणेन जातं कालकमानम् का = (नी ५ रु १ं) / ६ । एतत् कालकमानं भिन्नं लभ्यत इति कुट्टकेनाभिन्नं कालकोन्मा- नम् = पी ५ रु ४ । अनेन पूर्वराशिम् का ६ रु ५ उत्थाप्य जातम् = पी ३० रु २९ । पुनरयं चतुर्भक्तस्त्र्यग्र इति प्राग्वत् साम्ये कृते जातम् पी = (लो ४ रु २ं६) / ३० = (लो २ रु १ं३) / १५ अत्रापि कुट्टकाल्लब्धं पीतकमानम् पी = ह २ रु १ । अनेन पूर्वराशौ पी ३० रु २९ इत्थापिते जातो राशिः ह ६० रु ५९ । पुनरयं त्रिभक्तो द्यग्र इति स्वत एव जातः । शून्यैकाद्युत्थापनाद्बहुधा । उदाहरणम् । स्युः पञ्चसप्तनवभिः क्षुण्णेषु हृतेषु केषु विंशत्या । रूपोत्तराणि शेषाण्यवाप्तयश्चापि शेषसमाः ॥ ७ ॥ अत्र शेषाणि या १, या १ रु १, या १ रु २ । एता एव लब्धयः । प्रथमो राशिः = का १ । अस्मात् पञ्चगुणिताद्राशेर्लब्धिगुणं हरमपास्य जातं शेषम् का ५ या २०ं एतद्यावत्तावत्समं कृत्वा लब्धा यावत्ताव- दुन्मितिः या = का ५ / २१ अथ द्वितीयो राशिः नी १ । अस्मात् सप्तगुणाद्रूपाधिकयावत्ता- वद्गुणहरमपास्य जातम् नी ७ या २०ं रु २०ं । एतदस्य या १ रु १ समं कृत्वा लब्धा यावत्तावदुन्मितिः या = (नी ७ रु २ं१) / २१ एवं तृतीयः = पी १ । अस्मान्नवगुणाल्लब्धि-या १ रु २ गुणहर- मपास्य शेषम् पी ९ या २०ं रु ४०ं । इदमस्य या १ रु २ समं कृत्वा लब्धा यावत्तावदुन्मितिः या = (पी ९ रु ४२ं) / २१ । आसां प्रथमद्वितीययोर्द्वितीयतृतीययोः साम्यकरणेन लब्धे काल कनीलकयोन्मिती