बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 87, कुल 152 में से
संदर्भ में पढ़ें८८ बीजगणिते नी ७ रू २१ पी ९ रू २१ । फा = ──────── नी = ──────── ५ ७ अत्र नीलकोन्मितौ कुट्टकेन नीलपीतकयोर्माने कृत्वा काल- कोन्मितौ नीलके स्वमानेनोत्थापिते कालकमानं भिन्नं लभ्यत इति कुट्टकेनाभिन्ने कालकलोहितकयोर्माने । का = ह ६३ रू ४२ । लो = ह ५ रू ४ । अत्र नीलपीतकयोर्लोहितके स्वमानेनोत्थापिते जाते तन्माने नी = ह ४५ रू ३३ । पी = ह ३५ रू २८ । यथा क्रमेण न्यासः । का = ह ६३ रू ४२ । नी = ह ४५ रू ३३ । पी = ह ३५ रू २८ । अथ यावत्तावदुन्मितिषु कालकादीन् स्वस्वमानेनोत्थाप्य स्व- च्छेदेन विभज्य लब्धं यावत्तावन्मानम् या = ह १५ रू १०। अत्र शेषसमे फले न हि शेषं भागहाराधिकं भवितुमर्हति । अतो हरितकं शून्येनो- त्थाप्य जाता राशयः ४२, ३३, २८ । अग्राणि च १०, ११, १२ । एता एव लब्धयः । उदाहरणम् । एकाग्रो द्विहतः कः स्याद् द्विकाग्रस्त्रिसमुद्धृतः । त्रिकाग्रः पञ्चभिर्भक्तस्तद्वदेव हि लब्धयः ॥ ८ ॥ अत्र राशिः या १ । अयं द्विहत एकाग्र इति तत्फलं च द्विहतमे- काग्रमिति फलप्रमाणम् फा २ रू १ । एतद्गुणं हरं स्वाग्रेण युतं तस्य या १ समं कृत्वा लब्धं यावत्तावन्मानम् = का ४ रू ३ । अस्यै- कालापो घटते पुनरपि त्रिहतो द्वयग्र इति तत्फलं च नी ३ रू २ । एतद्गुणहरमग्रयुतं च नी ६ रू ८ इदमस्य का ४ रू ३ समं कृत्वा कालकमानं भिन्नं कुट्टकेनाभिन्नं जातम् पी ९ रू ८ अनेन काल- कमुत्थाप्य जातो राशिः पी ३६ रू ३५ । अस्यालापद्वयं घटते । पुनरयं पञ्चभक्तस्त्र्यग्र इति तत्फलं च लो ५ रू ३ । एवं हरगुणम्-