ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 17, कुल 737 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text from the image into Unicode Devanagari Markdown:
भूमिका ब्रह्मगुप्तकृतो ब्राह्मस्फुटसिद्धान्तः श्रीचापवंशतिलके श्रीव्याघ्रमुखे नृपे शकनृपाणाम् । पञ्चाशत्संयुक्तैर्वर्षशतैः पञ्चभिरतीतैः ॥ ब्राह्मः स्फुटसिद्धान्तः सज्जनगणितज्ञगोलवित्प्रीत्यै । त्रिंशद्वर्षेण कृतो जिष्णुसुतब्रह्मगुप्तेन ॥ इति ब्राह्मस्फुटसिद्धान्तीयसंज्ञाध्याये आचार्योक्त्या ५२० शाकवर्षे-आचा- र्यस्य (ब्रह्मगुप्तस्य) जन्म समयस्ततः परं त्रिंशति वर्षेषु गतेषु तेन ब्राह्मस्फुट- सिद्धान्तसंज्ञको ज्योतिषसिद्धान्तग्रन्थो विरचितः¹। गुर्जरदेशमध्ये भिनमाल नाम ग्राम एवास्य जन्मस्थानं बहूनां पाश्चात्यानां गवेषणया सिध्यति । गुर्जरदेशीय- ज्योतिर्विदां मुखकथातोऽपि भिल्लमालकोऽधुना भिनमालनाम्ना प्रसिद्धो ग्राम एवाऽऽचार्यस्य