भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 22, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 22

( ६ ) इति कमलाकरोक्त्या स्वयं भगवान् सूर्य एवास्य रचयिता । आश्चर्यम्य विषयोऽयमस्ति यदत्रा (सूर्यसिद्धान्ते) यनांशानयनम् । 'त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बते । तद्गुणाद्भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते ॥' 'तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः । तत्संस्कृताद् ग्रहात् क्रान्तिच्छाया चरदलादिकम् ॥' इत्यनेन कृतमस्ति । परं ब्राह्मस्फुटसिद्धान्तनिर्मात्रा ब्रह्मगुप्तेन तस्य (अयनांशस्य) चर्चाऽपि न कृता । कथं ब्रह्मगुप्तेन तच्चर्चा न कृतेति न ज्ञायते । सूर्य सिद्धान्तस्योदयास्ताधिकारे 'अभिजिद् ब्रह्महृदयं स्वातीवैष्णव वासवाः' इत्यादिना सदोदित नक्षत्राणि भगवता सूर्येण कथितानि सन्ति, अस्य श्लोकस्य सुधावर्षिणी टीकायां 'देशज्ञानं विना सदोदित नक्षत्राणां ज्ञानं न भवति निरक्षे च सौम्यध्रुवोऽप्यदृश्योऽतः केनचिद्गोलानभिज्ञेनायं श्लोकः प्रक्षिप्त, इति यल्लिखितमस्ति तत्समीचीनं नास्ति । पाताधिकारे पातस्थितिकालस्य फलं-- आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः । प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ एकायनगतं यावदर्केन्द्वोर्मण्डलन्तरम् । सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥ स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥ इत्यनेन पातस्थितिकालः सर्वकर्मविनाशकृदुक्तः । पातकाले स्नानदान- जपश्राद्धव्रतहोमादिकर्मभिर्महत्कल्याणं प्राप्यते लोकैरिति । तथा च-- रवीन्दोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा । द्विर्भवेद्धि तदा पात: स्यादभावो विपर्ययात् ॥ इत्यनेनापूर्वविषयः कथितोऽर्थाद्विगोलसन्धिसमीपे यदा रविचन्द्रयोः क्रान्तिसाम्यं भवेत्तदाल्पेनैव कालेन द्विवारः पातः स्यात् । यदा रव्ययनसन्धि- समीपे क्रान्तिसाम्याभावस्तदा बहुकालपर्यन्तं क्रान्ति साम्याभावः स्यादिति । ब्राह्मस्फुटसिद्धान्तेऽपि पातस्थितिकालफलं सूर्यसिद्धान्तोक्तवत्कथितम् । सिद्धान्तशेखरे कियत्कालपर्यन्तं पातफलमिति 'भानोर्बिम्बं तुहिनकिरणापक्रमे- णैकमार्गे यांवत्तावन्मुनिभिरुदितसंभवस्तत्फलस्य । तस्याभावे भवति नियतं