ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 21, कुल 737 में से
संदर्भ में पढ़ेंद्व्यूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् । द्विगुणं माघसितार्द्यं कुर्याद् द्युगणं तदन्ह्युदयात् ॥२॥ सैक षष्ट्यंशे गणे तिथिर्भमार्कं नवाहतेऽक्ष्यर्कैः । दिग्रसभागैः सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥३॥ प्रागर्धे पर्व यदा तदोत्तराऽतोऽन्यथा तिथिः पूर्वा । अर्कघ्ने व्यतिपाता द्युगणे पञ्चाम्बरहुताशैः ॥४॥ द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य । द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥ एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः = ५ × १२ = ६० । अधिमासौ = २ । चान्द्रमासाः = ६२ एते त्रिंशद्गुणितास्तिथयः = १८६०, अव- मानि = ३०, एभी रहितास्तिथयोऽहर्गणः = १८३० इति ॥ पञ्च सिद्धान्तिकायां ‘पौलिश सिद्धान्तः’ इति नाम्ना एकोऽध्यायो वर्त्तते, ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण- त्वेनोद्धृतानि सन्ति । अस्य सिद्धान्तरचयितुः सम्बन्धे बहूनि मतान्तराणि सन्ति । वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तर- मुल्लिखितमस्ति । यथा — यवनाच्चरजा नाड्यः सप्तावन्त्यां त्रिभागसंमिश्राः । वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥ शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट- सिद्धान्तटीकायां पृथूदकेन ‘देशान्तर रेखा च पौलिशे पठ्यते’ इत्युक्तम् । तथा च पुलिशाचार्यः— उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् । देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥’ इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य आसीदिति प्रतिभाति । परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति । सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां मतम् । ‘केचित्प्रत्यक्षसूर्याच्च भिन्नोऽयमिति यद्बलात् । वदन्ति मूढवादस्याप्रामाण्यात्तदसद्ब्रुवम् ॥’