भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 21, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 21

द्व्यूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् । द्विगुणं माघसितार्द्यं कुर्याद् द्युगणं तदन्ह्युदयात् ॥२॥ सैक षष्ट्यंशे गणे तिथिर्भमार्कं नवाहतेऽक्ष्यर्कैः । दिग्रसभागैः सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥३॥ प्रागर्धे पर्व यदा तदोत्तराऽतोऽन्यथा तिथिः पूर्वा । अर्कघ्ने व्यतिपाता द्युगणे पञ्चाम्बरहुताशैः ॥४॥ द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य । द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥ एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः = ५ × १२ = ६० । अधिमासौ = २ । चान्द्रमासाः = ६२ एते त्रिंशद्गुणितास्तिथयः = १८६०, अव- मानि = ३०, एभी रहितास्तिथयोऽहर्गणः = १८३० इति ॥ पञ्च सिद्धान्तिकायां ‘पौलिश सिद्धान्तः’ इति नाम्ना एकोऽध्यायो वर्त्तते, ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण- त्वेनोद्धृतानि सन्ति । अस्य सिद्धान्तरचयितुः सम्बन्धे बहूनि मतान्तराणि सन्ति । वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तर- मुल्लिखितमस्ति । यथा — यवनाच्चरजा नाड्यः सप्तावन्त्यां त्रिभागसंमिश्राः । वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥ शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट- सिद्धान्तटीकायां पृथूदकेन ‘देशान्तर रेखा च पौलिशे पठ्यते’ इत्युक्तम् । तथा च पुलिशाचार्यः— उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् । देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥’ इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य आसीदिति प्रतिभाति । परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति । सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां मतम् । ‘केचित्प्रत्यक्षसूर्याच्च भिन्नोऽयमिति यद्बलात् । वदन्ति मूढवादस्याप्रामाण्यात्तदसद्ब्रुवम् ॥’