भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 20, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 20

पञ्चषष्ट्या वर्षैः क्रांतिपातः प्राय एकमंशं पश्चिमदिश्यपसरति तज्ज्ञानं स्वल्प- कालेनासम्भव इवेति वेधविज्ञेनापि ब्रह्मगुप्तेनायनचलनं नोपलब्धमिति । आर्य- भटविरोधी भूत्वापि ब्रह्मगुप्तो ब्राह्मस्फुटसिद्धान्तरचनानन्तरं सप्तत्रिंशत्तमे वर्षे खण्डखाद्यकं नामकरणग्रन्थं रचितवान् यथा तत्प्रारम्भे -- प्रणिपत्य महादेवं जगदुत्पत्तिस्थितिप्रलयहेतुम् । वक्ष्यामि खण्डखाद्यकमाचार्य्यार्य्यभटतुल्यफलम् ॥ प्रायेणार्यभटेन व्यवहारः प्रतिदिनं यतोऽशक्यः । उद्वाहजातकादिषु तत्समफललघुतरोक्तिरतः ॥ इति तदुक्तग्रन्थपर्यालोचनया ज्ञायते यत्सर्वत्र व्यवहारकृतां मानवानां मध्ये प्रचरितार्यभटमत निराकरणमतीव कठिनमासीदिति—'आर्यभटमतानुसारि- व्यवहरतां तात्कालिकजनानामुपकारायैव व्यावहारिकः करणग्रन्थः खण्डखाद्यक- नामको रचितो ब्रह्मगुप्तेन । यथोपलब्धेषु प्राचीनज्योतिषसिद्धान्तग्रन्थेषु ब्राह्म- स्फुटसिद्धान्त आदर्शरूपो ग्रन्थस्तथैव सर्वेषां करणग्रन्थानामादर्शरूपमादिमं वा इतस्त्रयोदशशतवर्षैः प्राचीनं खण्डखाद्यकं करणम् । अथ ‘ब्रह्माह्वयश्रीधरपद्म- नाभबीजानि यस्मादति विस्तृतानि' इति बीजगणिते भास्करोक्त्या ज्ञायते यद्ब्रह्मगुप्तस्य विपुलो बीजगणित ग्रन्थ आसीत्परमयं ग्रन्थः कुत्रापि नोपलभ्यते न वा श्रूयते । ब्रह्मगुप्त एव सर्वापेक्षया श्रीपतेरादर्शभूतः । ब्राह्मस्फुटसिद्धान्त- सिद्धान्तशेखरयोः पर्यालोचनया ज्ञायते यद् ब्रह्मगुप्तोक्ताः संक्षिप्ता बहुलार्थयुक्ता आर्या एव बृहदाकारैश्छन्दोभिरनूदिताः श्रीपतिना। वस्तुतो ब्रह्मगुप्तोक्तं ग्रह- गणितं सूक्ष्मं ज्ञात्वा सत्यमिव तदेव स्वीकुर्वन् श्रीपतिस्तदुक्तिवैषम्यं स्वसुन्दर- रचनाभिरपहरन् सुगमतंर ग्रन्थांतरं (सिद्धान्त शेखरं) चकार, नात्र केषामपि विप्रतिपत्तिः । ग्रन्थरचनासम्बन्धे श्रीपतेर्विशेषतो लल्लाचार्य एवादर्शः । ये केचन विषया ब्रह्मगुप्तेन न कथिता अथ लल्लेन कथितास्तान् सर्वानिव नियतमेव श्रीपतिः श्लोकान्तरेण तथैव कथितवान् । वस्तुतो द्वयोर्ग्रन्थयोः (ब्राह्मस्फुट सिद्धान्तशिष्यधीवृद्धिदयोः) परिशीलनं कृत्वा श्रीपतिना सिद्धान्तशेखरो रचितः । ब्राह्मस्फुट सिद्धान्ते येषामाचार्याणां नामानि समागतानि सन्ति तेषां सम्बन्धे किञ्चिद्विविच्यते । सर्वेषां सिद्धान्तानामादिमः सर्वेभ्यः प्राचीनॊ वा ब्रह्मसिद्धान्त एव, स एव कैश्चित् पितामहसिद्धान्तनाम्नाप्युच्यते । पञ्चसिद्धान्तिकायां वराहमिहिरेण द्वादशोऽध्याय आर्यापञ्चात्मकः पैतामहसिद्धान्तः कथितो यथा— रविरशिनोः पञ्चयुगं वर्षाणि पितामहोपदिष्टानि । अधिमासस्त्रिंशद्भिर्मासैरवमस्त्रिषष्ट्याऽह्नाम् ॥

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक) · पृष्ठ 20, कुल 737 में से · BharatKosha