भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 19, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 19

पृथिव्याश्चलत्वं भगणानां स्थिरत्वं स्वीकृत्य—अहोरात्रासुभिः स्वाक्षो- परि पृथिव्या भ्रमणं मन्यते आर्यभटेनेति—आवर्तनमुर्व्यश्चेदित्याद्युक्तिः। अन्यत्रा- नेका अत्युक्तयो दुराग्रहवशात् कुत्रचिद्वाग्बलेन कथिता ब्रह्मगुप्तेन यथा— स्वयमेव नाम यत्कृतमार्यभटेन स्फुटं स्वगणितस्य । सिद्धं तदस्फुटत्वं ग्रहणादीनां विसंवादात् ॥ जानात्येकमपि यतो नार्यभटो गणितकालगोलानाम् । न मया प्रोक्तानि ततः पृथक् पृथक् दूषणान्येषाम् ॥ आर्यभटदूषणानां संख्या वक्तुं न शक्यते यस्मात् । तस्मादयमुद्देशो बुद्धिमताऽन्यानि योज्यानि ॥ स्वयं ग्रहग्रहणादिवेधकर्त्ता ब्रह्मगुप्तः प्राचीनाचार्येभ्योऽनेकान् विशिष्टान् ग्रहादिसाधनविधीन् गणितसत्यासत्यपरीक्षार्थं वेधविधींश्च स्वग्रन्थे प्रौढोक्त्या प्रतिपादयति — ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् ॥ यदि भिन्नाः सिद्धान्ता भास्करसंक्रान्तयोऽपि भेदसमाः । स स्पष्टः पूर्वस्यां विषुवत्यर्कोदयो यस्य ॥ इत्यादिना वास्तवविचारासक्तः सर्वप्रथमं सर्वतो विशिष्टं विवेचनाबहुलं सिद्धान्तग्रन्थं ब्रह्मगुप्त एव रचितवानित्युपलब्धज्योतिषसिद्धान्तग्रन्थेभ्यो ज्ञायते । ‘कृती जयति जिष्णुजो गणकचक्रचूडामणि’ रितिस्वसिद्धान्तशिरोमणेर्गणिता- ध्यायारम्भे भास्कराचार्येण ब्रह्मगुप्तमभिवन्द्य तत्परमपि बहुत्रस्थले ब्रह्मगुप्त- मतोल्लेखं कुर्वताऽपि ‘यथाऽत्रग्रन्थे ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत’ इत्युक्त्या तद्ग्रन्थानुसारी ग्रन्थो रचित इति प्रतीयते । ब्रह्मगुप्तेनायनचलनं नोपलब्धमिति ब्रह्मस्फुटसिद्धान्ततो ज्ञायते । अयनचलनोपलब्धिः प्रत्युत खण्डितेति दृश्यते यथा— परमल्पामिथुनान्ते युरात्रिनाड्योऽर्कगतिवशाहतवः । नायनयुगमयनवशात् स्थिरमयनद्वितयमपि तस्मात् ॥ वराहमिहिरोऽयनचलनसम्बन्धे सन्दिहान आसीदिति ‘नूनं कदाचिदासी- द्येनोक्तं पूर्वशास्त्रेषु’ इति तत्कथनेन ज्ञायते । तत्समयेऽश्विन्यादौ क्रान्तिपात आसीदित्यश्विन्यादि नक्षत्रगणना प्रवृत्ता सैव ब्रह्मगुप्तात्परमद्यावधि प्रचलति ।