भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 25, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 25

इत्युक्त्याऽन्यान् सर्वान् सिद्धान्तान्निन्दन्ति । ब्राह्मस्फुटसिद्धान्ते बहुषु स्थलेषु स्थौल्यं त्वस्त्येव तथापि बहवो विषया अत्र निवेशिताः सन्ति, तस्मा- त्सर्वश्रेष्ठो ब्राह्मस्फुटसिद्धान्तोऽस्तीतिकथने न काचिद्विप्रतिपत्तिः प्रतिभाति । अत्रैकोऽध्यायो ‘छन्दश्चित्युत्तराध्यायः’ अस्ति, यत्र लिखितानां श्लोकानां व्याख्यो- पपत्तिश्चाद्यावधि केनापि न कृता तेषु तादृशं काठिन्यमस्ति यदर्थो न मनसि समागच्छति, उपपत्तेश्च कथैव का ?, प्रश्नाध्यायो यादृशोऽत्र ग्रन्थेऽस्ति न तादृशोऽन्येषु सिद्धान्तग्रन्थेषु । अत्र ग्रन्थे मध्यगत्यादीनां पञ्चाध्यायानां प्रश्नाः सोत्तराः पृथक् पृथक् लिखिताः सन्ति । येषामभ्यासेन पाठका अतीव सिद्धान्त- ग्रन्थे निपुणा भवितुमर्हन्ति । सिद्धान्तशिरोमणेर्भू मिकायां ‘जीवासाधनं विनैव यद्भुजज्यानयनं कृतवान् श्रीपतिस्तत्त्वपूर्वमेव स्यात् । यथा तत्प्रकारो विदां विनोदाय प्रदर्श्यते — दोः कोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणेन शरार्कदिग्भिः । ते व्यासखण्डगुणिता विहृताः फलं तु ज्याभिर्विनापि भवतो भुजकोटिजीवे ॥ इति केनापि लिखितमस्ति तन्नैव युक्तियुक्तं यतो ज्याभिर्विना भुजकोटि- ज्ययोरानयनं ज्यातश्चापानयनं च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् यथा तदुक्त- प्रकारः — भुजकोट्यं शोनगुणा भार्धाशास्तच्चतुर्थभागेनैः । पञ्चद्वीन्दुखचन्द्रैर्विभाजिता व्यासद्लगुणिता ॥ तज्ज्ये परमफलज्या सङ्गुणिता तत्फले विना ज्याभिः । इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥१ इष्टज्यातश्चापानयनञ्च इष्टज्यासङ्गुणिताः पञ्चकयमलैकशून्यचन्द्रमसः । इष्टज्यापादयुतव्यासार्ध विभाजिता लब्धम् ॥ नवतिकृतेः प्रोह्यपदं नवतेः संशोध्य शेषभागकलाः । एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥


१. चिरादेव प्रकारोऽयं श्रीपत्युक्तोऽस्तीति ज्योतिर्विदां मध्ये प्रसिद्धोऽस्ति । तथैव ज्यातश्चापानयनमपि । एतदवलम्ब्यैव ग्रहलाघवे करणग्रन्थे गणेशदैवज्ञेन बहवः प्रकारा विलिखिताः ।