ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 26, कुल 737 में से
संदर्भ में पढ़ेंएतदनुरूप एव बटेश्वरसिद्धान्ते बटेश्वरेण स्वीयप्रकारोऽभिहितः । सिद्धान्तशेखरे सर्वत्र श्रीपतेः स्वकीयः प्रकारोऽल्पीयानेवास्ति, ब्रह्मगुप्तोक्त- प्रकारा एव छन्दोऽन्तरेण लिखिताः सन्ति¹ वराहोक्त पञ्चसिद्धान्तिकायां त्रयो- दशभिरार्याभिरुक्तो वासिष्ठसिद्धान्तः पैतामहसिद्धान्तश्च वराहोक्त्यैव दूरभ्रष्टा- विति तत्रापि ब्रह्मसिद्धान्तापेक्षया यत्किञ्चित् वासिष्ठसिद्धान्तः सूक्ष्मताभिधायि । तन्त्रपरीक्षाध्याये— लाटात् सूर्यशशाङ्कौ मध्याविन्दूच्च चन्द्रपातौ च । कुजबुधशीघ्रबृहस्पति सितशीघ्रशनैश्चरान् मध्यान् ॥ युगजातवर्ष भगणान् वासिष्ठाद्विजयनन्दिकृत पादात् । मन्दोच्चपरिधिपातस्फुटीकरणाद्यमार्यभटात् ॥ श्रीषेणेन गृहीत्वा रत्नोच्चयरोमकः कृतः पन्थाः । एतानेव गृहीत्वा वसिष्ठो विष्णुचन्द्रेण ॥ इति ब्रह्मगुप्तोक्त्या वसिष्ठसिद्धान्तरचयिता विष्णुचन्द्रनामकः कश्चि- दासीत् । सम्भवतोऽयं विष्णुचन्द्रः प्राचीनं वसिष्ठसिद्धान्तं संस्कृतवानिति 'एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्रेण' इत्युक्त्या स्फुटं भवति । परमयं ग्रन्थोऽधुना कुत्रापि नोपलभ्यते । एतस्यैव विष्णुचन्द्रस्य मतं यत्र तत्र श्रीषेणार्य- भटाभ्यां सह ब्रह्मगुप्तेन खण्डितम् । १. यथोदाहरणार्थं किञ्चित्प्रोच्यते । सिद्धान्तशेखरस्य सूर्यग्रहणाधिकारे । तिथ्यन्तात् स्थितिखण्डहीन सहितात् प्राग्वत्ततो लम्बनं कुर्यात् प्रग्रहमोक्षयोः स्थितिदलं युक्तं विधायासकृत् । तन्मध्यग्रहणोत्थलम्बनभुवा विश्लेषणानेहसा मर्द्दार्धेनयुतात्तिथेरपि तथा संमीलनोन्मीलने ॥ अधिकमृणयोराद्यं मध्यात्तथाऽन्त्यमिहाल्पकं भवति धनयोश्चाद्यं हीनं यदाऽधिकमन्तिमम् । नमनविवरेणैवं कुर्याद्विहीनमतोऽन्यथा स्थितिदल- मृणस्वस्थे भेदे तदैक्ययुतं पुनः ॥ इति ब्रह्मगुप्तोक्तस्य— प्राग्वल्लम्बनमसकृत् तिथ्यन्तात् स्थितिदलेन हीनयुतात् । अधिकोनं तन्मध्याह्नयोरूनाधिकं धनयोः ॥ यदधिकं स्थित्यर्थं तदाऽन्तरेणान्यथोनमृणमेकम् । अन्यद्धनं तदैक्येनाधिकमेवं विमर्दार्थे ॥ (शेष पृष्ठ ११ पर)