ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 32, कुल 737 में से
संदर्भ में पढ़ेंब्राह्मस्फुटसिद्धान्तोत्तरार्धे परिकर्मविंशतिः (सङ्कलितम्, व्यवकलितम्, प्रत्युत्पन्नो गुणनम्, भागहारः, वर्गः, वर्गमूलम्, घनः, घनमूनम् । पञ्चजातयः, त्रैराशिकम्, व्यस्तत्रैराशिकम्, पञ्चराशिकम्, सप्तराशिकम्, नवराशिकम्, एका- दशराशिकम्, भाण्डप्रति भाण्डं चेति) कथिताऽस्ति, सर्वत्रैव चतुर्वेदाचार्य्योक्ता उद्देशकाः (उदाहरगानि) सन्ति । सिद्धान्तशेखरेऽपि परिकर्मविंशतिः (अभित्ना- ङ्कानां गुणन-भजन-वर्ग-वर्गमूल-घन-घनमूलानीति षट् ६, भिन्नाङ्कानां योगान्तर- गुणन-भजन-वर्ग-वर्गमूलानीति षट् ६, भाग प्रभाग-भागानुबन्ध-भागापवाहाराख्य- जाति चतुष्टयम् ४, विलोमकर्म १, त्रैराशिकम् १, व्यस्त त्रैगशिकम् १, पञ्च- राशिकम् १, इति ) ब्रह्मगुप्तश्रीपत्युक्त विंशत्यां परिकर्मसु विषयवर्णने महानेव [L1