बृहदारण्यकोपनिषद् (शाङ्करभाष्य सहित)
Brihadaranyaka Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
पृष्ठ 827, कुल 1402 में से
संदर्भ में पढ़ें| ब्राह्मण ९ ] | शाङ्करभाष्यार्थ | ८१७ |
|---|
| वल्क्यः, नामान्तरेण सम्बोधनं कृतवान् । यत्र यस्मिन्काले, एतद् हृदयमात्मास्य शरीरस्यान्यत्र क्वचिद्देशान्तरे, अस्मदस्मत्तो वर्तत इति मन्यासै मन्यसे—यद्धि यदि ह्येतद् हृदयमन्यत्रास्मत् स्याद् भवेत्, श्वानो वैनच्छरीरं तदा अद्युः, वयांसि वा पक्षिणो वैनद् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति । तस्मान्मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः । शरीरस्यापि नामरूपकर्मात्मकत्वात् हृदये प्रतिष्ठितत्वम् ॥ २५ ॥ | अर्थात् [ प्रेतवाची ] अन्य नामसे सम्बोधन किया । जिस समय यह हृदय-इस शरीरका आत्मा हमसे अन्यत्र किसी देशान्तरमें रहता है-ऐसा मानते हो; उस समय यदि इस शरीरसे यह हृदय-आत्मा अन्यत्र हो जाय, तो इस शरीरको या तो कुत्ते खा जायें या पक्षी इसे विमथित-विलोड़ित कर दें यानी चोंच मार-मारकर नोच डालें । अतः तात्पर्य यह है कि हृदय मुझ शरीरमें प्रतिष्ठित है । शरीर भी नाम, रूप एवं कर्ममय होनेके कारण हृदयमें ही प्रतिष्ठित है ॥ २५ ॥ |
समानपर्यन्त शरीरादिकी प्रतिष्ठा तथा आत्मस्वरूपका वर्णन और शाकल्यका शिरःपतन
| हृदयशरीरयोरेवमन्योन्यप्रतिष्ठोक्ता कार्यकारणयोः; अतस्त्वां पृच्छामि— | [शाकल्य-] इस प्रकार तुमने कार्य और कारणरूप शरीर एवं हृदयकी परस्पर प्रतिष्ठा बतलायी; इसलिये मैं तुमसे पूछता हूँ— |
|---|
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति ।
बृ० उ० ५२—