बृहत्पाराशर होरा शास्त्र (महर्षि पराशर - सम्पूर्ण फलित ज्योतिष महाकोश सान्वय सटीक)
Brihat Parashara Hora Shastra of Maharshi Parasara with Commentary
महर्षि पराशर (टीकाकार: पं. गणेशदत्त पाठक / सीताराम झा) द्वारा
पृष्ठ 722, कुल 800 में से
संदर्भ में पढ़ें७१० वृहत्पाराशरहोराशास्त्रम् । मूलरोगी च पिशुनः सदा दानपरो शुचिः । सेवाकरः सुभाषी च धनवाँल्लोभसंयुतः ।।२२।। प्रख्यातो विद्यया भीरूर्बुद्धि श्रीमान्सुशीलकः । परदाररतः श्रीमान्सुशीलो बलवान्गुणी ।।२३।। अध्वन्योनिगमव्यग्रः पातकीच तपोयुतः । परदाररतो वेश्यासक्तोऽसत्फलवासनः ।।२४।। सिंहासनस्थो रिक्तश्च जटिलः कुलपांशनः । योगी बुद्धश्च सन्यासी सेनानीर्बुद्धिमान्सुखी ।।२५।। कुष्ठी भूतकरः श्रीमानेकपुत्र समन्वितः । शास्त्रज्ञो दासकृत्यश्च चंडरोष समन्वितः ।।२६।। स्त्रीसक्तः परदारोक्तो भृत्यः पटुररोगवान् । कुरूपश्चापि कुशलो जितारिः पुत्रवर्जितः ।।२७।। शूरोवीरश्च चंडश्च कुशलः कुक्षिरोगवान् । ग्रामणीविटपो° धूर्तः सतीपतिररिंदमः ।।२८।। वंध्यापतिः सुरापी च रिक्तसाध्यपतिः सुखी । विजयी युद्धभीरुश्च चोरोऽमर्षी जनार्जकः ।।२९।। धनार्जनाय सततमकृत्य शतकारकः । वृषलीपतिरिन्द्रश्च सेनानीः सत्यवाक्छुचिः ।।३०।। शिरोरोगी च कुष्ठी च मेही च पिशुनः सुखी । जलवद्रोगसंयुक्तः कृतज्ञो निर्गुणो घृणी ।।३१।। विवादशीलः सुमुखः क्रोधनः कामुकः पटुः । चलचित्तो धनी वाग्मी विद्यार्जनपरः सुखी ।।३२।। अपुत्रः कृषिकृद्धीरः परदाररतः शुचिः । विद्याहीनश्च मूर्खश्च बुद्धिमान शास्त्रपारगः ।।३३।। सदाभीरुर्शठो वाग्मी कृत्येषु कुशलः सुखी । नीतिज्ञो लेखको नीचजातिकृत्यंरतः पटुः ।।३४।।