बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 124, कुल 1105 में से
संदर्भ में पढ़ेंनवमोऽध्यायः शुक्रचारः ॥९॥ नागगजैरावतवृषभ गोजरद्गवमृगाजदहनाख्याः । अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः ॥१॥ (1) नाग (2) गज (3) ऐरावत (4) वृषभ (5) गो (6) जरद्गव- (7) मृग (8) अज- (9) दहन- तथा च देवलः । अश्विन्यादिस्त्रिभः सर्वा नागाद्या दहनान्तिकाः । वीथयो भृगुपुत्रस्य नव प्रोक्ताः पुरातनैः ॥ तथा च काश्यपः त्रिष्वश्विन्यादिषु यदा चरति भृगुनन्दनः । नागवीथीति सा ज्ञेया प्रथमान्या निबोधत ॥ रोहिण्यादिगजा ज्ञेयाऽदित्याद्यैरावती स्मृता । मघाद्या वृषभा ज्ञेया हस्ताद्या गौः प्रकीर्तिता ॥ जारद्गवी विशाखाद्या मूलाद्या मृगवीथिका । अजवीथी विष्णुभाद्येऽजाद्या तु दहना स्मृता ॥ नागा तु पवनयाम्यानलानि पैतामहात् त्रिभास्तिस्रः । गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥२॥ बृ. सं. 14