बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 148, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XI. Sl. 8-10] एकादशोऽध्यायः 129 त्रिपक्षात्परतः कर्म पच्यतेऽस्य शुभाशुभम् । सद्यस्कसमुदिते केतौ फलं नेहाऽऽदिशेद्बुधः ॥ तथा च वृद्धगर्गः । यावतो दिवसांस्तिष्ठेत्तावन्मासान्विनिर्दिशेत् । त्रिपक्षात्परतश्चापि कर्म केतोः प्रपच्यते ॥ तस्मात्कालान्तरं ब्रूयात्फलमस्य शुभाशुभम् । सद्यस्कसमुदिते केतौ फलं नेहाऽऽदिशेद्बुधः ॥ ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः । उदितोऽथवाऽभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥८॥ Sloka 8.—If Ketu is short, slender, clear, glossy, straight, appearing but for a short time, white, and if there be a shower closely following its appearance, it brings abundance and happiness. उदितो वाप्यभिवृष्टः is another reading. उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥९॥ Sloka 9.—If its form be quite the reverse of what has been stated above, it is the comet Dhumaketu and will not prove auspicious, especially when it resembles the rainbow or has two or three crests. तथा च समाससंहितायाम् । अचिरस्थितोऽभिवृष्टस्त्वृजुः स्मितः स्निग्धमूर्तिरुद्गुदितः । ह्रस्वस्तनुः प्रसन्नः केतुर्लोकस्य भावाय ॥ न शुभो विपरीतोऽतो विशेषतः शक्रचापसंकाशः । द्वित्रिचतुश्चूलो वा दक्षिणसंस्थश्च मृत्युकरः ॥ हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः । प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ॥१०॥ Sloka 10.—There are 25 comets with crests known as Kiranas resembling a pearl necklace, gems or gold. बृ. सं. 17