बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 149, कुल 1105 में से
संदर्भ में पढ़ें· 130 बृहत्संहितायाम् [Adh. XI. Sl. 11-13 These are the sons of the Sun 'and appear in the East and West and indicate strifes among the sovereigns of the country. तथा च गर्गः । शुद्धस्फटिकसङ्काशमृणालरजतप्रभाः । मुक्ताहारसुवर्णाभाः सशिखाः पञ्चविंशतिः ॥ किरणाख्या रखेः पुत्रा दृश्यन्ते प्राग्दिशि स्थिताः । तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥ शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः । आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥११॥ Sloka 11.—There are as many comets born of fire appearing in the South-east and resembling parrots, fire, Bandhujeeva flower, lac or blood and are productive of danger from fire. तथा च गर्गः । नानावर्णाग्निसङ्काशा दीप्तिमन्तो विचूलिनः । सृजन्त्यग्निमिवाकाशात्सर्वे ज्यौतिषनाशनाः ॥ तेऽग्निपुत्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः । आग्नेयां दिशि दृश्यन्ते पञ्चविंशत्प्रकीर्तिताः ॥ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः । दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च ॥१२॥ Sloka 12.—There are as many Ketus rough and dark with crooked crests, appearing in the South, and por- tending pestilence to people and are the sons of Death. तथा च गर्गः । कृष्णा रूक्षा वक्रशिखा दृश्यन्ते याम्यदिक्स्थिताः । पञ्चविंशा मृत्युसुताः प्रजाक्षयकराः स्मृताः ॥ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः । क्षुद्भयदा द्वाविंशतिरैशान्यमम्बुतैलनिभाः ॥१३॥