बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 194, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XVI. Sl. 9-15] षोडशोऽध्यायः 175 drinkers of Soma-juice, the आक्रन्द kings (in the cycle of 12 kings, they occupy the position of one of the hind spokes-Raghuvamsa IX-15), Brahmins, white objects, beloved person, horses, lovers, young women, command- ants, eatables, clothes, horned animals, demons, agricul- turists, persons acquainted with Sacrificial rules. तथा च काश्यपः । पर्वता जलदुर्गाश्च कोसलास्तङ्गणा हलाः । स्त्रीराज्यं भृकच्छश्च तुषारा वनवासिनः ॥ मौक्तिकं मणिशङ्खाब्जमौषधं कुसुमं मूलम् । द्वीपा महार्णवे ये च मधुरा लवणादयः ॥ गोधूमाः शालयः शृङ्गिकार्षकाश्च यवा अपि । सोमपा ब्राह्मणा ये च यज्ञज्ञास्तु सुरासवम् ॥ स्त्रीसौभाग्यसमेताश्च लास्यहास्येक्षितानि च । निशाचराधिपश्चन्द्रो हृष्टानां च प्रकीर्तितः ॥ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमादर्द्धाः । निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥९॥ मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः । उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥१०॥ द्रविडविदेहान्ध्राश्मकभासापरकौङ्कणाः समन्त्रिपिकाः । कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्कीर्णाः ॥११॥ नासिक्यभ्रौगवर्धनविराठविन्ध्याद्रिपार्श्वगा देशाः । ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् ॥१२॥ नागरकृषिकरपायतहुताशनाजीविवस्त्रवार्त्तानाम् । आटविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥१३॥ नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशूपानाम् । रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१४॥ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् । शठदीर्घवैरबह्लाशिनां च वसुधासुतोऽधिपतिः ॥१५॥