बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 202, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XVI. Sl. 40] षोडशोऽध्यायः 183 कौशाम्बी शबरान्ध्रपौण्ड्रयवना याम्याश्रिता मेकला- श्रीनोदुम्बरवर्द्धमानविकटाश्चम्पेक्षुमल्यश्रिताः ॥ जलपर्वतदुर्गं कोशला वनिताराज्यतुषारतङ्गणाः । वनवासह्लाः सरस्वती शीतांशोर्भेरुकच्छरोमकाः ॥ क्षितिजस्य महानदी पयोष्णी वेणा वेत्रवती च मालती । मलयद्रविडाश्मकान्ध्रचोळा भौमाद्वे स्वपरे च ये स्थिताश्च ॥ पारेविन्ध्यं पश्चिमः शोणभागो गोदावर्याः कूलमद्रिर्महेन्द्रः । सिप्रा सिन्धुर्भूमजस्येति देशा वैदेहाख्याः काकणाः केरलाश्च ॥ सौम्यस्य सौराष्ट्रिकभोजदेशा गङ्गाश्रिताश्चोत्तरकूलनद्यः । विन्ध्यार्द्धमन्त्यं मथुरापुरस्तात्सुवास्तुसिन्ध्वद्रिगुहाश्रिताश्च ॥ जीवस्य सारस्वतमत्स्यशाल्वाः प्राक्सिन्धुभागो मथुरापुरार्द्धम् । सुघ्नः शतद्रू रमठा विपाशा त्रैगर्तयौधेयकपारताश्च ॥ देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः कैकयमालवाश्च । दशार्णकौशीनरचन्द्रभागाश्चैष्टादृसिप्रास्थलकालकाख्याः सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकाः सुराष्ट्राः । पाश्चात्यदेशा विदिशा मही च सौरेः स्मृताः पुष्करमर्बुदश्च ॥ राहोः कृतघ्नकुलपांसननीचशूद्रा वोकाणशूलिकनियुद्धविदुप्रकोपाः । गोमायुभक्षगिरिदुर्गनिवासिनश्च गर्भस्थहिंस्रपरदाररताः खलाश्च ॥ शिखिनो वनसंस्थितावगाणा मरुभूपल्लवचोलहूणचीनाः । व्यवसायपराक्रमोपपन्नाः परदारानुरता मदोत्कटाश्च ॥ उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः । स्वभवनगतः खोच्चप्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ॥४०॥ Sloka 40.—A planet proves beneficent to those whose lord he is declared to be, if at rising, he be large, of glossy rays and in his natural state, if no portentous thunder, meteors, dust or planetary conflict annoy him, and when he is posited in his own house, has reached his exaltation point and is aspected by benefics.